सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१०० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने-
अभिचारसमुत्थश्चानेकव्याधिलिङ्गः । क्रियासु सम्यक्क्रियमाणास्वपि नोप-
शममुपैति ॥
एवं दोषसमुत्थम्, अभिचारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा-
ज्जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति ॥
तत्र श्लोकः—
दोषाभिचारजान्व्याधीन्सम्पग्विज्ञाय तत्त्वतः ॥
यथायोगं क्रियां कुर्यान्मन्त्राणां नास्ति दुस्तरम् ॥
आशास्तकोऽपि नागानां (†क्रियापथे परीक्ष्यः ।
यदा हस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति
देवताः । ) ताश्चाऽऽशस्ताः प्रसादमभिनिव(र्व)र्तयन्ति, न च प्रागप्यशंस्तकं
बल्पं तमुपहरन्ति हस्तिजीविनः, ततो देवानां(वाता) यथोक्तां पूजामलभमाना
भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् ॥
तत्र श्लोकः—
इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः ।
अन्यथा देवतानां हि क्रोधो भवति दारुणः ॥
—:०:—
चतुर इति चतुष्पादा चिकित्सा—आतुरः, परिकर्मी, भिषक्, भेषजम्,
इति ॥
तत्राऽऽतुरः—सत्त्वसंपन्नः सम्यक्शस्त्रभेषजाग्निक्षारकर्मणां सहिष्णुः, उप-
दिष्टकारी, दीर्घायुर्लक्षणश्चेति ॥
परिचारकः—प्रतिपत्तिमान्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपन-
परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि,
इति ॥
भिषक्—अवस्थितः शास्त्रार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपन्नः' इति ॥
भेषज्यम्—यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त-
र्धर्मत्येषां चतुर्णां पादानां समुदायात्सिद्धिर्भवति ॥
तत्र श्लोकाः—
एवं पश्चादिकं सम्यग्यो विद्यान्मतिमान्भिषक् ॥
† .'धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ क. °शस्त्रकं । २ क. चतुष्पदा । ३ क. °दिष्टः करी ।

ऽवसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः ।
आमूढः सर्वरोगेषु योजयेद्यो भिषक्क्रियाम् ॥
प्रजासु च सदा मानं महत्त्वं च निगच्छति ।
पञ्च सप्त तथा त्रींश्च द्वावेव चतुरस्तथा ॥
नव चतुर्दश द्वौ च 'द्विकौ ज्ञात्वा भवद्विषक्, इति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
द्वादशोपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥

अथ सप्तमोऽध्यायः ।

अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्—'भगवन्कथमुत्पन्नानि पृथि-
व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कथं³ चाङ्गमभिवर्तते ।
कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषमा
समं विषमं⁴ चाभिनिवर्तते, भद्रमन्दमृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च
कुब्जवामनहीनाधिकविकृताचान्यन्यानि⁵ च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त-
रूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः। कथं वा विषमविषाणा मोटादयः समु-
त्पद्यन्ते, नयनघ्राणत्वक्श्रोत्रजिह्वेन्द्रियाणां किमध्यात्मम्, किमधिदैवि(व)कम्,
किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च
गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृंहति । किं मातृजम्, पितृजम्,
आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङ्मनोबुद्धिरहंकारः सत्त्व-
रजस्तमसामात्मा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरूपगन्धाश्चेति। गर्भस्य
किं वा पूर्वं संभवति । करचरणनयनमुखशिरोग्रीवागात्रापरसंधिवङ्क्षणनाभिदे-
शगुदमेण्ड्राणि कथं विभज्यन्ते' इति ॥
ततः प्रोवाच भगवान्पालकाप्यः—'इह खलु भोः परं सूक्ष्मभावार्थमप्यव्य-
क्तमोष्ठस्पन्दनमात्रं त्रुटिः । सर्षपमात्रमोष्ठभेदो लवः । द्वे त्रुटी लध्वक्षरः । द्वे
लध्वक्षरे अक्षिनिपातसंनिभं⁶ निमेषः । निमेषास्तु दश पञ्च च काष्ठा । ता दश
विंशतिः(च) कला । त्रिंशत्कलो⁷ मुहूर्तः। ते त्रिंशदहःक्षपे लोके सूर्यो विभजते ।
तत्र कर्मणां चेष्टार्थं दिवसः, शर्वरी स्वापार्थं⁸ । त्रिंशदहोरात्राणि मासः । द्वाद-


१ क. द्विकोशौ । २ क. °शोऽध्या° । ३ क. कथं वाऽङ्गमभिनिव° । ४ क.
°मं च नि° । ५ क. °नि चाङ्गका° । ६ क. °संमितं नि° । ७ क. विंशतिकलो ।
८ क. °य । यत्तु त्रि° ।
५१

ष्टमासो वर्षम् । लौकिके मासेन रात्राहं मै(पै)त्रमानम् । ^२तेषु कृष्णपक्षः
शर्वरी, शुक्लो दिवा । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरायनं(णं) दिवा,
दक्षिणायनं निशा । तेन पक्षः, मासः, संवत्सरश्च ।
तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संख्या, तावदेव
संध्यांशः । ततश्चतुर्भागहीनस्त्रेता । द्वापरमर्धम् । चतुर्थोऽशः कलिः । इत्येतेषां
युगानां कालेन शतानि सहस्राणि चासंख्येयानि वर्तन्ते । तानि चत्वारि
युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्रं चतुर्युगमित्यु-
च्यते । तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव
रात्रिः ।
तदादौ कृत्स्नमिदमीश्वरः संक्षिप्य कृत्वाऽध्यात्मं सुप्तो विबुध्यते । ^४प्रतिबु-
द्धोऽथ ब्रह्मा व्यक्तिमचिन्त्यमध्यात्ममहमुरखे बुद्धिमव्यक्तमसृजत् । बुद्धेर्मनः ।
मनसोऽहंकारः । अहंकारात्कालः । कालाद्दिशः । दिग्भ्य आकाशम् ।
आकाशाद्वायुः । वायोस्तेजः । तेजस आपः । अद्भूयः पृथिवी ॥
ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्शगुणो वायुः। वायो रूपगुणं तेजः।
तेजसो रसगुणा आपः । अभ्यो गन्धगुणा पृथिवी । पूर्वानुपूर्व्यात्ते गुणानुत्त-
रानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः । सर्वे ते भूतगुणाः पृथिव्यां
लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतत्पञ्चगतिवत्सामा-
न्येनान्योन्योपजीविनि सपरिणामानि भूतान्युत्पद्यन्ते ॥
तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थे
चतुर्दशौषधयः । तद्यथा—श्यामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति
सप्त वन्याः । प्रियङ्गुगोधूमयवमाषशालिषष्टिककुलत्थाः सप्त ग्राम्याः ॥
सरीसृपादिकांदिक्चरैश्चराः (?) श्वापदपक्षहस्तिवानराः सप्ताऽऽरण्याः ।
पुरुषाजाविगोश्वागर्दभोष्ट्राः सप्त ग्राम्याः । तेषामेव भूतानां पुरुषः श्रेष्ठः, पशूनां
गजः । तयोरायुक्तर्षः शरीरबलाधानदोषोत्क(र्षापक)र्षेषु प्रयत्नः कर्तव्य
इति । तत्र सात्म्यवयोबलप्रकृतिदेशकालाहारोपसेविनो मनुष्याः, परव-
शानुवर्तिनस्तु नित्यानुबन्धकर्मव्यापामबह्वनिपताहारसेविनो वारणाः । तस्मा-
द्विपानां शरीरबलाधानदोषापकर्षणेषु प्रयत्नः कर्तव्यः । तत्र वक्ष्यते ॥


१ क. मासोनवात्रा० । २ क. ते तु कृ० । ३ क. ०वा । आयद्वौ य० । ख.
०वा आयतद्वौ य० । ४ क. प्रतिबुद्ध्वाऽथ । ५ क. ०णि च भो० । ६ क. ०दिप्कारै-
श्चराः । ७ क. हस्ती ।

७ गर्भसंभवाध्यायः ] हस्त्यायुर्वेदः । ४०३
शरीरं खलु नामाहंकारात् । पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जि-
ह्वानयनघ्राणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरूपगन्धैश्च पञ्चभिरिन्द्रियार्थैः
स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणै-
र्युक्तं निवदमव्यक्तं व्यज्यमानं शोणितरेतस्युत्पन्नं मातृयोनिनाड्यां गत्वा विश-
द्वेवगुणा भूतगुणा आत्मगुणाश्चेत्येतदनुपतन्ति । निवेश्यमानमनुनिवसन्ति ।
तद्यथा—भ्रमरमधुकरसंघाः पुष्पजं रजः मद्रवत्प्रद्रवन्ति, निवसमान(?)-
मनुनिवसन्ते । एवं खल्विदमेतत्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरे-
तस्युपपन्नं मातुर्याति कटिसंधौ विसन्ने(शान्तमे)व स्वगुणाः स्वात्मगुणाश्चात्यन्तं
तमनुपतन्ति । तैस्तस्य षट्कोशस्थानानि भवन्ति । तत्रामगर्भदोषा वेदना
व्याप्तिर्भवति ॥
पितृजमपि खल्वस्य शुक्रं मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरि-
तमीश्वरभावसंयुक्तं मूर्तिमपद्यते । दक्षिणं कुक्षिभागं पुमान्समाश्रयति, वामं
स्त्री, मध्यमतरत् । संवृतात्पिण्डायामात्पुमान्संभवति, स्त्री पेश्याः, अर्बुदान्न-
पुंसकम् ॥
परिपच्यमानस्तु खलु मासेन स्थिरी भवति गर्भः। द्वितीये मास्यर्बुदं पेशी वा,
तयोर्युगपदिन्द्रियाण्यभिनिव(र्व)र्तन्ते । शिरोक्षिकूटबाहुपृष्ठपार्श्वोदररोमकूपाश्च
तृतीये मासि। चतुर्थे व्यक्ती भवति गर्भः। पञ्चमे मासि चेतनाऽस्योपजायते ।
षष्ठे मनः। सप्तमे बुद्धिः। अष्टमे मासि स्थैर्यम् । नवमदशमैकादशेषु सर्वाङ्ग-
संपूर्णः सप्तभिः शिराशतैः सर्वैः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया
नाड्या मातुराहारजं रसं भुञ्जानः संवत्सराद्धौ वै जायते । सहदेवगुणैर्भूतगुणैरा-
त्मगुणैश्च ॥
तस्येमे देवगुणा भवन्ति—विक्रान्तौ विष्णुः । गले शक्रः । कोष्ठेऽग्निः ।
उपस्थे प्रजापतिः । प्राणापानयोर्वायुः । कर्णयोर्दिशः । खेष्वाकाशम् ।
जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चक्षुष्यादित्यः । कर्मणि विश्व-
कर्मा । भूमिरस्य देहे । शब्दे रुद्रः । त्वचि विद्यात् ( ? ) वाच्यग्निः । क्षान्तौ
ब्रह्मा । पर्जन्यो हृदये । भुजयोरश्विनौ । त्रिके मरुतः । इति देवगुणाः ॥
अथ भूतगुणाः—कर्णवदनगुदमेढ्र*श्रोतः शब्द इत्याकाशयोनीनि (†रसो

  • अत्र किंचित्रुटितं प्रतिभाति । † धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।
    १ क. विपन्नमेव । २ ख. °कोणस्था° । ३ क. °रिपाच्य° । ४ क. व्यक्तानि
    भवन्ति ग° । ५ क. °द्वावेव जा° । ६ क. बले ।

१०४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
रसना.........। सर्वाणि च द्रव्याण्याकाशयोनिरिति। चक्षुरूपमा कायाग्नि-
रिति तेजायोनीनि) घ्राणं ज्ञेयं संघात इति पृथिवीयोनीनि। स्पर्शः स्प्रष्टव्यं
प्राणापानसमानव्यानोदाना वायुयोनयः॥
अथाऽऽत्मगुणाः—सर्वेन्द्रियबुद्धिपरिद्रष्टा क्षेत्रज्ञः, संशयोत्पादनमभिप्रार्थ-
नात्मकं मनः। आत्मेन्द्रियमनोर्थसंनिकर्षोत्पन्नव्यवसायात्मिका बुद्धिः, इति॥
मनो बुद्धिरन्तरात्मा इत्यव्यक्तानि। कर्णत्वग्जिह्वाघ्राणनयनश्रोत्राणीन्द्रि-
याणि। शब्दस्पर्शरूपगन्धा इन्द्रियार्थाः॥
समुत्पन्नै(†रिन्द्रियार्थै(?))रिन्द्रियार्थान्गृह्णाति जितेन्द्रियेणोपेकृष्टम्। सर्व-
सत्त्वानामिष्टानिष्टनामल्पमनल्पं शब्दं श्रवणेन्द्रियेण गृह्णाति। शीतोष्णश्ल-
क्ष्णखरमृदुकठिनघनविकीर्णस्निग्धविशदपिच्छिलरूक्षतीक्ष्णानां च स्पर्शविशे-
षाणामुपलब्धिः स्पर्शेन्द्रियेण। मधुराम्ललवणकटुतिक्तकषायाणां रसानामुप-
लब्धिः(ब्धी) रसनेन्द्रियेण गृह्णाति। त्र्यसचतुरस्रनिम्नोन्नतपृथुवृत्तसमविष-
माकाराणि श्वेतरक्ताग्रपीतविमिश्रात्मकानि जङ्गमाजङ्गमानि द्रव्याण्यक्षीन्द्रियेण
गृह्णाति। इष्टानिष्टानां व्यस्तपिण्डितनिर्हारिणां गन्धानामुपलब्धिर्घ्राणेन्द्रि-
येण, इति॥
तत्र ये चाऽऽत्मशरीरायत्ता वातपित्तश्लेष्माणः तेषां त्रीणि स्थानानि—
पक्वाशयामाशयमलाषयाः॥
अथ सात्त्विका भावाः—प्रहर्षः प्रीतिः सुखमानन्दकर्मासंतापश्चेति।
तैक्ष्ण्यमधैर्यं धाष्टर्ये भयं संतापो रोषः सङ्गः क्षुत्पिपासेति राजसाः। अज्ञानं
लोभो मोहः कामः क्रोधः स्वप्नो दैन्यमिति तामसाः॥
अथ वायवः—प्राणापानसमानोदानव्यानाः। तेषां कर्माणि। तत्र प्राणो
घ्राणनयनवदनगुदमेढ्रश्रोतसामानन्दकर्मात्मकः,प्रवर्तको निवर्तकश्चेष्टानाम्,नेता
मनः सर्वेन्द्रियार्थस्य,विज्ञानकरः प्रकृतिस्पर्शयोः, मूलं योनिर्हृदयस्योत्साहस्य
(†योनिर्हर्षस्योत्साहस्य) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः
सुखासुखस्य विधाता, मृत्युर्यमो नियन्ता प्रजापतिरिति। विश्वकर्मा विश्वरूपः
सर्वाङ्गेषु सर्वस्य विधाता भावनो मत्तविभुर्विष्णुः क्रान्ता लोकस्य, वायुरेष
भगवान्पञ्चधाऽऽत्मानं योजयित्वा शरीरं धारयति। तेषां विसर्गात्मकोऽपानः।
उत्क्षेपणाकुञ्चनप्रसारणगमनकर्मात्मको व्यानः। भक्ष्यभोज्यपेयलेह्यानामशित-
† धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके॥
१. क. °पक्कुष्ठा°। २ क. °मल्पानल्पश°। ३ क. °लब्धर°। ४ क. एषां।

७ गर्भसंभवाध्यायः ] हस्त्यायुर्वेदः । ४०५
पीतलीढस्वादितानामभिवोढा समानः । प्राणापानसमानव्यानानामन्तकालेऽ-
भ्युद्धर्ता चोदानः ॥
अथ तेजःस्थानानि१-प्रदर्शनं चक्षुरूंष्मा कायाग्निर्हृदयं त्वक्पर्यन्तमिति ।
तत्र चक्षुर्गतं रूपाणि गृह्णाति । कायाग्निरामाशयपक्वाशययोरन्तरस्थो धातूनां
चान्तरेषु प्रयोगानपाचयति । हृदि संश्रयात्क्रोधयति । त्वक्पर्यन्तगतश्चाभ्यङ्ग-
परिषेकादीन्पाचयति ॥
तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च ॥
सप्त चास्य धातवो रसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति ॥
दश चास्य प्राणायतनानि भवन्ति शिरोहृदयनाभिगुदवस्तिवातपित्तश्लेष्म-
मूत्रपुरीषाणीति ॥
प्राणयात्रार्थं चास्य षड्रसाश्च मधुराम्ललवणकटुतिक्तकषायाः । तैरुपपन्नो
गर्भस्तिष्ठति ॥
तत्र त्रयाणां समवायाद्गर्भाधानं भवति मातुः पितुः, जीवस्य चेति ॥
मैथुनसंयोगात्पतिं यदाऽभिकाङ्क्षति धेनुका, तां समुत्पन्नर्तुकां (*तेस्माह-
तृस्नातां ) हस्तिनीं विद्यात् । आर्तवस्य द्वादशरात्रं भवति । तस्माद्दिवा रात्रौ
वा हस्तिनो हस्तिन्याश्चसंयोगे प्रादुर्भावो भवति । यदा हस्तिन्यामृतुमत्यां मत-
ङ्गजः संयोगेषु शुक्रमुत्सृजति तद्वायुः कोष्ठे प्रविभजते । मातुराहोरात्संवर्धते ।
तस्मात्कवलरसपल्लवाहारासविना(?)क्षोभवायामतीक्ष्णोष्णाहारविवर्जनात्स्या-
त्करेणुं४ । तत्र बहुशुके पुमान्संभवति, स्त्री शोणितबाहुल्यात्, समे नपुंसकम्,
शुके तु वायुना द्विधाकृते यमलावूत्पद्येते । यद्रूपा(ङ्)गर्भं बिभर्ति धेनुका.
तदाकारं भवति । तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुखगतं शुक्रं भवति । तच्च
रुधिरसंसर्गात्कललं भवति । ततो जीवः संक्रामति गर्भम् । पृथिव्यापस्तेजो
वायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति । तत्समवायात्ततो योन्यां
कललसंज्ञो भवति परिणामात्कललः खरत्वं भवति । स्वतेजसा विदाहे तत्खरी
भवति परिणामात् । खरस्यार्बुदस्य५ पेशी भवति ॥
तत्र मज्जा च शुक्रं च नागानां गर्भस्थानां भवति । स्नाय्वस्थीनि ❊पितृ-
❊ 'केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि,
मांसशोणितमेदोमज्जाहृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि' इति सुश्रुतात्
'दृढानि पितृजानि, मृदूनि मातृजानि' इति पर्यवसितम् ॥
१ क. तेजसः स्था० । २ क. तस्मादनुस्थानां । ३ क. ०हारः संव० ।
४ ख. ०णुः । ततश्च करेणुस्तत्र । ५ क. यच्च ।

जानि शुक्रान्तानि । जरायुमांसमेदोन्त्रगुदं धमम्यश्चेति मातृजम् । अन्नपातो-
त्पन्नः संवक्ष्यमाणः ॥
मातृपित्रोरशनविशेषात्कफपित्तानलप्रभृतीनामन्यत(म)माशुकनिषे(कं) प्राणि-
नमाश्रयति, स प्रकृतिमापद्यते ॥
वर्णाः कृष्णश्वेतरक्तरूक्षा वातपित्तकफशोणितात्मकाः, वर्णभेदाश्च तेषाम-
न्योन्यसंयोगात्मकाः ॥
कुब्जवामनहीनाधिकवैकृत्ययमभावाश्च वातात्मकाः ॥
विषाणानां वैषम्यं वातात्मकं भवति । संजायमानयोर्दन्तयोर्यदा समुपहरति
वायुः, तदा दोषा उत्पद्यन्ते ॥
तत्र श्लोकौ—
यदा शिशुर्विचरति जीवमात्रो गर्भाशयाद्गर्भनिरोधैमुक्तः ।
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥
तदाऽभिलाषाङ्गविचारणं च वातादि सर्वा विविधाः क्रियाश्च ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
गर्भसंभवो नाम सप्तमोऽध्यायः ॥ ७ ॥

अथाष्टमोऽध्यायः ।

अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अजातशृङ्गं विधिवन्निर्गतं हस्तिनं भगात् ॥ १ ॥
प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च ॥
यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा ॥ २ ॥
इति प्रश्नं महाराजो व्याजहार यथातथम् ॥
महान्मे संशयो विद्वन्दृष्ट्वा वै कुञ्जरान्वने ॥ ३ ॥
गर्भः कथं संभवति संभूतः केन जीवति ॥
अस्थिस्नायु च मांसं च कतमे मासि जायते ॥ ४ ॥

१ क. °अयुगं ध° । २ क. °धयुक्तः । ३ क. °तशुकं वि° ।

छविश्च कतमे मासि त्वग्वंशः प्रविभज्यते ॥
†वृंकौ नखानि रोमाणि यकृदन्त्राणि पुप्फसम् ॥ ५ ॥
हृदयं कतमे मासि गर्भे जायेत दन्तिनः ॥
पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥
पोती पोतोऽथ यमकं मिथुनं जायते कथम् ॥
उभौ वा पोतकौ केन उभे वा पोतिके कथम् ॥ ७ ॥
कथं वन्ध्या च षण्ढश्च कोशमेही च जायते ॥
कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥
भद्रश्चापि कथं नागः संकीर्णश्च कथं भवेत् ॥
मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥
भवेत्तु जवनः केन जायतेऽल्पबलः कथम् ॥
कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥
कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥
मन्दमेधश्च मातङ्गश्चैतदिच्छामि वेदितुम् ॥ ११ ॥
कालः कथं च भवति श्यामो वा केन जायते ॥
हरिद्वर्णो भवेत्केन रूक्षाभः केन वारणः ॥ १२ ॥
स्निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः ॥
स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥
गजश्चोलूकवर्णाभः कथं भवति जातितः ॥
केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥
बहुवर्णश्च मातङ्गः कथं भवति जातितः ॥
मुद्गवर्णश्च मातङ्गोऽप्युपदिग्धश्च तत्र यः ॥ १५ ॥
श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥
नखानि केन कालानि राजिमन्त्यपि वा कथम् ॥ १६ ॥
कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥
केनास्य तालुकं कृष्णं केन कल्माषतालुकम् ॥ १७ ॥
केन पद्मपलाशाभं तालु नागस्य जायते ॥
कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥

† 'वृक्कौ' इति भवेत् ॥

१ क. वृक्कौ । २ क. पुप्फसम् ।

४०८ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
कथं कल्माषजिह्वो वा गजो भवति जातितः ॥
पिङ्गलः केन भवति मध्वक्षः केन जायते ॥ १९ ॥
हर्यक्षः केन नागः स्यात्काकाक्षः केन जायते ॥
अक्षिणी केन शुक्ले तु कालतारे पुनः कथम् ॥ २० ॥
गजः पारापताक्षो वा कथं भवति जातितः ॥
विकृताक्षो विरूपाक्षो जातान्धो वाऽपि वारणः ॥ २१ ॥
केन जायते वै नागः कालः पिङ्गुललोचनः ॥
केन मुखाच्च हस्ताच्च स्वेदो भवति दन्तिनः ॥ २२ ॥
कस्मिन्देशे च वृषणावहृष्यौ केन वा पुनः ॥
म्लानशीर्षो म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥
ह्रस्ववालश्च मातङ्गो दीर्घवालः कथं भवेत् ॥
विषमाभ्यां च कर्णाभ्यां पुटकर्णश्च वारणः ॥ २४ ॥
नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥
कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः ॥
कुब्जः किलासमेढ्रश्च कथं भवति वारणः ॥ २६ ॥
अतिश्वेताश्च ये दन्ता ये च दन्ताः सुलोहिताः ॥
यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः ॥ २७ ॥
म्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च ॥
मुक्ता विषाणेषु कथं नागानां संभवन्ति च ॥ २८ ॥
म्लानगात्रो भवेत्केन स्तब्धगात्रस्तथैव च ॥
मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९ ॥
सममूर्धा भवेत्केन तथा प्राप्तविदुर्गरः ॥
उदङ्गमूर्धा स च कथं गजो भवति जातितः ॥ ३० ॥
मदं गृह्णाति मातङ्गः केन प्रथमयौवने ॥
अमदो वा भवेत्केन यावदायुर्मतङ्गजः ॥ ३१ ॥
मूढः कथं संभवति समदन्तश्च वारणः ॥
मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजौ ॥ ३२ ॥
करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥
गजश्चतुर्विषाणो वा कथं भवति जातितः ॥ ३३ ॥
१ क. मुख्याच्च । २ क. गच्छति । ३ क. मोटः ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । १०९
वामोन्नततः कथं वा स्यात्कथं वा दक्षिणोन्नतः ॥
मूढैकदन्तो मातङ्गो जायते केन हेतुना ॥ ३४ ॥
उत्तमा हस्तिनो ये च प्रादक्षिण्या द्विजोत्तम ॥
तथैव नागा मोल्पार्हाः श्वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥
गजाश्च मधुपर्कार्हा मानार्हाश्चैव हस्तिनः ॥
संभवन्ति यथा विप्र तथा मे वक्तुमर्हसि ॥३६॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अदृश्यमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥
यानाचरत्यसौ भावांस्तान्मे कीर्तयतः शृणु ॥
प्रहृष्टकर्णलाङ्गूला ध्यानशीला विवार्तिका ॥ ३८ ॥
योनिश्च विवृता शुष्का मन्दं मन्दं च गच्छति ॥
यूथस्यान्ते विचरति पांथुपङ्कजलप्रिया ॥ ३९ ॥
पतितं हस्तिनीनां स्यादन्तरेणाऽऽर्तवं रजः ॥
एतैराकारसंस्थानैर्ज्ञेया ऋतुमती भवेत् ॥ ४० ॥
—:(०):—
अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् ॥
प्रसन्नमुखवर्णा च योन्याश्च विवृतं मुखम् ॥ ४१ ॥
पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः ॥
समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥
किञ्चिदुत्पुच्छकर्णी च योन्या प्रक्लिन्नपीनया ॥
समुत्थितकरग्रीवा विनता विकटस्थिता ॥४३ ॥
यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते ॥
हस्तिना च कृतं मूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥
पुनः पुनः समाघ्राय हस्तमास्यं नयत्यसौ ॥
संगृह्याग्रवालेन मुहुराहन्ति तं द्विपम् ॥ ४५ ॥
रागान्मुहुः परिक्रम्य प्लवते वारणं वशा ॥
गुह्यदेशं समाघ्राय हस्तमास्यं नयत्यसौ ॥ ४६ ॥
इमांश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥
यदा देशे मनोज्ञे तु पुरस्तिष्ठति वारणः ॥ ४७॥
१ क. ॰तः ॥ मोटैक॰ । २ क. मल्पार्हाः । ३ क. ॰र्हास्तथा ये नाम ह॰ ।
४ क. तद्वि ।
५२

४१० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
तदा प्रहृष्टा नागस्य दन्तमालिङ्ग्य तिष्ठति ॥
करवक्त्रोष्ठमेण्ढ्राणि परिजिघ्रति सर्वतः ॥
संघ्राय चास्य गात्राणि गुह्यानि च विशेषतः ॥ ४८ ॥
वृक्षादोत्कृष्य शाखां च फुल्लबीजानि वारणम् ॥
कुमुदोत्पलपत्रैश्च सरःसु सलिलेन च ॥ ४९ ॥
कर्दमेन च शीतेन स्थले सिञ्चति पांसुना ॥
पक्षेण पक्षं चाऽऽहत्य मुखं जिघ्रति दन्तिनः ॥ ५० ॥
न चातिमात्रमादत्ते भक्ष्यं कुञ्जरसंनिधौ ॥
नैवाऽऽसीनं शयानं वा साऽपीष्टं निशि चाहनि ॥ ५१ ॥
हस्तिन्यृतुमती नागं न मुञ्चति कदाचन ॥
तत्तदेव करोत्यस्य येन येनं प्रहृष्यति ॥ ५२ ॥
फलमादाय रुचिरं मृणालं चापि शैवलम् ॥
गजस्य वक्त्रेऽर्पयति हस्तिनी मदनातुरा ॥ ५३ ॥
यदा देशे मनोज्ञे तु पुनस्तिष्ठति वारणः ॥
तदा विषाणमालिङ्ग्य हृष्टा नागस्य तिष्ठति ॥ ५४ ॥
एभिर्विन्द्यादृतुमतीं लिङ्गैर्गजवशां बुधः ॥
भूवनस्पतितोयेषु स्त्रीषु च श्रुतिरीदृशी ॥ ५५ ॥
ब्रह्महत्या महेन्द्रेण कृत्वा संक्रामिता पुरा ॥
स्त्रियश्चिराक्य(?)गम्याहुस्त्रिलोकेशं शतक्रतुम् ॥ ५६ ॥
तस्माद्धारयितुं शक्ता ब्रह्महत्या शचीपतिः ॥
प्रायश्चित्तं ततस्तासामादिदेश *कुंशास्तरे ॥ ५७ ॥
वासोभिर्मलिनैर्भूभौ ब्रह्मचर्यसमन्विता ॥
स्थाने च शयने चैव रजः प्रस्त्रवतु त्र्यहम् ॥ ५८ ॥
मासि मासि करिष्यन्ति प्रायश्चित्तमिमं स्त्रियः ॥
ब्रह्महत्याविमुक्तास्ता गमिष्यन्ति शुभां गतिम् ॥ ५९ ॥
प्रायश्चित्तोपदेशाद्धि मानुषीणां रजः श्र(स्र)वेत् ॥
पुष्पं यत्र स्थितं शुद्धं हस्तिनीनां निसर्गतः ॥ ६० ॥
* 'कुशोत्तरे' इति स्यात् ।
१ क. °दावृक्षा° । २ क. °न प्रकारेण प्र° । ३ क. मनोज्ञ्ये । ४ क. कुशान्तरे ।

रजॊ न स्रवते यासां तिर्यग्योनिस्वभावतः ॥
अदृश्यमर्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥ ६१ ॥
उत्पन्नपुष्पा विज्ञेया कामलीलाविचेष्टितैः ॥
समुत्पन्नार्तवा राजन्वृतेङ्गतातेति तां विदुः ॥ ६२ ॥
अहानि द्वादश भवेदृतुस्तस्या नराधिप ॥
तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते ॥ ६३ ॥
ऋतुकाले तु संप्राप्ते धेनुकां पुवते गजः ॥
कल्पः कल्पां महीपाल मुदितो मुदितामपि ॥ ६४ ॥
ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः ॥
तच्छुक्रं भजते योनिप्रच्युतं तस्य मेहनात् ॥ ६५ ॥
योन्या मुखं प्रविष्टं तु गर्भाशयमवाप्य च ॥
ततः संयुज्यते तत्र रक्तेन सह पार्थिव ॥ ६६ ॥
योनि रुधिरसंसृष्टां यदा शुक्रं प्रपद्यते ॥
शुक्रशोणितसंयोगात्कललं संभवेत्ततः ॥ ६७ ॥
जीवः संक्रामति ततो गर्भमित्येष निश्चयः ॥
लब्धबीजा ततो मुक्ता प्रहर्षेण श्रमेण च ॥ ६८ ॥
हस्तिनी दन्तिनं दृष्ट्वा शनैर्विष्टभ्य गच्छति ॥
विनमत्याकम्पयति यथोक्ते कर्णचूलिके ॥ ६९ ॥
कण्डूयते तथा देहं तरुमाश्रित्य सर्वतः ॥
अवगाहं च पङ्कं च शीतां छायां च सेवते ॥ ७० ॥
गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम् ॥
लिङ्गैरैतैर्विजानीयाज्जातगर्भां तु हस्तिनीम् ॥ ७१ ॥
—:०:—
अतःपरं प्रवक्ष्यामि गर्भिण्या लक्षणं नृप ॥
कषायमधुराहारा द्विरदं द्वेष्टि भावतः ॥ ७२ ॥
संजातगर्भा प्रथमे मासे भवति हस्तिनी ॥
मृदुत्वग्जृम्भणपरा द्वितीये कललोद्भवात् ॥ ७३ ॥
योन्या प्रभूतॊदकया तृतीये मासि वारणी ॥
करेणुरलसा च स्यान्मृदुशीताभिनन्दिनी ॥ ७४ ॥
१ क. ॰तुकालमपि शृणु ॥ अ॰ । २ क. संयुध्यते । ३ क. संक्रामति ततो गर्भमित्येष
निश्चयः कृतः । ४ क. लब्धबीजं ततो मुक्त्वा प्र॰ । ५ क. सर्वशः । ६ क. ॰रम्लास्या स्या॰ ।

चतुर्थे मन्दगमना मन्दमन्दोपसेविनी ॥
पञ्चमे पूर्णजठरा पांशुपङ्कजलप्रिया ॥ ७५ ॥
यूथप्रान्तं मृदुसमं देशं षष्ठे निषेवते ॥
अत्यर्थं जृम्भणपरा मन्दवेगा च सप्तमे ॥ ७६ ॥
द्विजान्दशति गम्भीरतोयप्लवनतत्परा ॥
अष्टमे नवमे मासि जलं विष्टभ्य तिष्ठति ॥ ७७ ॥
म्लानानना शीर्णकेशी दशमे क्लान्तलोचना ॥
निद्रामेकादशे द्वेष्टि संवेशोत्थानविक्लवा ॥ ७८ ॥
उन्नद्धनाभिरुन्नता गुरुगर्भतया च सा ॥
करिणी द्वादशे मासीत्युक्तं गर्भस्य लक्षणम् ॥ ७९ ॥
—:०:—
अतः शृणु महाराज गर्भाधानं विशेषतः ॥
मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः ॥ ८० ॥
ग्रन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः ॥
रसो रक्तमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१ ॥
मज्जा शुक्रं तु सप्तेते शरीरेषु शरीरिणाम् ॥
मधुरः कटुकश्चैव तथाऽम्लश्च रसा नृप ॥ ८२ ॥
तिक्तः कषायो लवणस्तेषामुपरसाह्वयः ॥
एतेषां वीर्यनिर्वृत्तौ रसधातुर्नराधिप ॥ ८३ ॥
अव्यक्तः प्राणिनां प्राणान्प्रीणयत्यभिसौहृदः ॥
स पूर्वं शोणितं प्राप्य मांसं भवति पार्थिव ॥ ८४ ॥
पारंपर्येण तेषां तु धातून्प्रीणाति दन्तिनाम् ॥
ततो हर्षो भवेज्जन्तोः प्रीणितेष्वथ धातुषु ॥ ८५ ॥
ततो हर्षात्प्रयत्नेन शुक्रं तस्य प्रजायते ॥
यथा ह्यरण्यां ज्वलनः सूक्ष्मो यत्नेन दृश्यते ॥ ८६ ॥
एवं मैथुनयत्नेन जन्तोः शुक्रं हि दृश्यते ॥
यस्मिन्समये हि प्रकृतिः पुंसंज्ञा क्रियते नृप ॥ ८७ ॥
प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते ॥
त्रयाणां समवाये तु गर्भाधानं भवेदिति ॥ ८८ ॥
मातापित्रोर्न्नृ(र्नर)पते जीवस्य च न संशयः ॥
पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥ ८९ ॥
१ क. ॰श्रोश्च नृप' ।

८ गर्भावक्रान्त्याध्यायः ] हस्त्यायुर्वेदः। ४१३
भूतान्येतानि कथ्यन्ते पञ्चैव खलु देहिनाम् ॥
समवायः पुनस्तेषां योन्यां कललसंज्ञितः ॥ ९० ॥
कललस्य परिणामात्स्वरत्वमुपजायते ॥
खरीभवति तद्राजन्विदाहेन स्वतेजसा ॥ ९१ ॥
खरस्य च परिणामादर्बुदं नाम जायते ॥
अर्बुदस्य परिणामात्पेशी स्यादिति निश्चयः ॥ ९२ ॥
ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप ॥
गर्भस्थेहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥
यथा मधुच्छिष्टकृतं रूपमन्वेति विग्रहः ॥
स्त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ ९४ ॥
*पर्वभिस्तु यथा सर्वैर्वेणुरुत्पद्यते नृप ॥
सर्वैरङ्गैस्तथा सूक्ष्मैर्जातर्गर्भो विवर्धते ॥ ९५ ॥
शुक्लं रजो मलश्चैव गर्भस्थस्य न जायते ॥
चतुर्थे मासि जायन्ते स्नाव्यस्थीनि सिरास्तथा ॥ ९६ ॥
जायते तस्य निर्वृत्तिरङ्गानां तु महीपते ॥
निर्वृत्तिरनुपूर्वेण यथावच्छ्रोतुमर्हसि ॥ ९७ ॥
शिरो ग्रीवा च पृष्ठं च कर्णौ चाऽस्यं करस्तथा ॥
गात्रापरमथो बालस्तथा निष्कोश एव च ॥ ९८ ॥
उरस्तथाऽऽयामकाण्डमानुपूर्व्यान्नराधिप ॥
छवी च पञ्चमे मासि यथावत्प्रविभज्य च ॥ ९९ ॥
चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च ॥
वृक्कौ नखानि रोमाणि यकृदन्त्राणि पुप्फुसम् ॥ १०० ॥
व्यज्यते हृदयं चैव षष्ठे मासि नराधिप ॥
संभवन्ति महीपाल गर्भस्थस्येह दन्तिनः ॥ १०१ ॥

  • ‘गर्भस्य हि संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रि-
    याणाम् । हृदयमिति कृतवीर्यो बुद्धेर्मनसश्च स्थानत्वात् । नाभिरिति पाराशर्यः, ततो
    हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यश-
    रीरमिति सुभूतिर्गौतमस्तन्निबन्धनत्वात्सर्वगात्रसंभवस्य । तत्तु न सम्यक् । सर्वाङ्गप्रत्य-
    ङ्गानि संभवन्तीत्याह धन्वन्तरिः । गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च ।
    तथथा—चूतफले परिपके केशरमांसास्थिमज्जानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव
    तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति ।
    एतेनैव वंशाङ्कुरोऽपि व्याख्यातः’ इति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दर्शितः ॥

२१४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने
जीवोपजीवमाश्रित्य गर्भे भवति कालतः ॥
रसेन प्रीणितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥
जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते ॥
वायोर्गतिनिरोधाच्च गर्भस्थो न प्ररोदिति ॥ ३ ॥
मलाल्पत्वादपयोगाच्च वायोः पक्वाशयस्य च ॥
वातमूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥
सूक्ष्मत्वाद्विशदत्वाच्च नात्र किट्टं प्रशस्यते ॥
नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ॥ १०५ ॥
मात्रोपयुक्तान्देहस्थो गर्भो वहति वै रसान् ॥
चतुर्भागेन चांशेन गर्भं प्रीणाति हस्तिनी ॥ ६ ॥
†नाडी रसवहा ज्ञेया तया गर्भः स जीवति ॥
ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ॥ ७ ॥
ज्ञानं$^२$ च रसवीर्याभ्यां$^३$ संभूयाऽऽशु विवर्धते ॥
बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ॥
अष्टमे स्थिरसर्वाङ्गः संधिस्नायुसमन्वितः ॥
त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥
नवमे दशमे चैव भवेदेकादशेऽपि वा ॥
द्वादशे वा गजो राजञ्जायते नात्र संशयः ॥ ११० ॥
नृप या द्वादशे मासि गर्भिणी न प्रसूयते ॥
इदं तु कारणं तस्या विज्ञेयं नरसत्तम$^४$ ॥ ११ ॥
क्षीणशोणितमांसाया रूक्षशुष्काशनाद्भवेत् ॥
अध्वनो गमनाद्भारान्बन्धनाच्च श्रमाद्भयात् ॥ १२ ॥
गर्भो मुह्यति हस्तिन्या वायुना परिशोषितः ॥
न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥
न गच्छांत विनाशं च न च काले प्रसूयते ॥
अल्पप्राणा निरुत्साहा गर्भशय्यां न मुञ्चति ॥ १४
सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि ॥
धेनुर्वन्धाकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥
†‘अयमर्धश्लोकः ‘नाभ्यां’—इत्यर्धतः परं पाठ्यः’ इति प्रतिभाति ॥
१ क. ॰र्भागो नवांशे॰ । २ क. ॰नं सर॰ । ३ क. ॰भ्यां स भूयान्सुविव॰ ।
४ क. राजसत्तम ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४१६
एकद्वित्रिसमा गर्भं धारयन्ति यथाक्रमम् ॥ १६ ॥
हस्तिनी गर्भिणी या तु बहुश्नात्यहितं यदा ॥
आहारं तरुणे गर्भे तेन दोषः प्रवर्तते ॥ १७ ॥
ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते ॥
स गर्भे जनयत्याशु व्याधीन्बहुविधान्बहून् ॥ १८ ॥
यदा त्वाहारगुणतो गर्भो भवति तर्पितः ॥
मातुर्गुणबलोत्साहसत्त्वतेजःसमन्वितः ॥
गर्भशय्यां परित्यज्य विमथ्य परिवर्तते ॥ १९ ॥
योनिद्वारं समासाद्य तदा क्षिप्रं विजायते ॥
इत्येतदभिनिर्दिष्टं गर्भोत्पत्तिलक्षणम् ॥ १२० ॥
—:(०):—
अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते ॥
ब्रह्मा मूर्ध्नि गले शक्रः स्कन्धे विष्णुरवस्थितः ॥ २१ ॥
नाभ्यामग्नी रविर्दृष्ट्योर्मित्रः पादेषु दन्तिनाम् ॥
धाता विधाता कुक्ष्योस्तु मेण्ढ्रे वाऽपि प्रजापतिः ॥ २२ ॥
अँगेषु नागास्तिष्ठन्ति सर्वलोकधुरंधराः ॥
वारणेषु प्रधानात्मा तिष्ठति ह्यजरोऽक्षयः ॥ २३ ॥
गात्रयोरश्विनौ श्रोत्रे दिशो मनसि चन्द्रमाः ॥
पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४ ॥
—:(०):—
आकाशाच्छ्रोत्रनिर्वृत्तिः शब्दः खानि च दन्तिनाम् ॥ २५ ॥
गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात् ॥
दृष्टेरूष्मा च पित्तं च रूपज्ञानं च तैजसम् ॥ २६ ॥
सलिलात्तु रसज्ञानं स्नेहः क्लेदः कफस्तथा ॥
गन्धज्ञानं च गन्धश्च संघातश्च महीगुणाः ॥ २७ ॥
इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः ॥
भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम् ॥ २८ ॥
केशा रोमाणि मज्जा च स्नायूनि च नखानि च ॥
सत्त्वं चक्षुर्बलं बुद्धिः स्मृतिर्मेधा श्रुतिर्जवः ॥ २९ ॥
पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते ॥
त्वक्पेशी शोणितं चैव मेदोऽस्राणि गुदस्तथा ॥ १३० ॥
१ ख. परित्याज्य । २ क. °तदिति नि°। ३ क. °ष्ट्योरिन्द्राः पा° । ४ क.
अङ्गेषु । ५ क. °ष्टिः सूक्ष्मा च । ६ क. पितृतो ।

११६ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने—
धमन्यश्चेति नागानां विज्ञेया मातृजा शुभाः ॥
आत्मजानि निर्वृतिश्च स्वकर्मफलसङ्गजाः ॥ ३१ ॥
शरीरं बलवृद्धिश्च गर्भस्य रसजाः स्मृताः ॥
रसस्य प्रोणनं कर्म जीवनं शोणितस्य च ॥ ३२ ॥
प्रलेपनं च मांसस्य स्नेहो वर्ष्म च मेदसः ॥
देहधारणमस्थां च मज्जश्चैवास्थिपूरणम् ॥ ३३ ॥
संभूतमथ गर्भस्थं वायुर्जीवयति द्विपम् ॥
शरीरे चान्तरिक्षे च दिव्यो राजन् महाबलः ॥ ३४ ॥
भगवान्जीव इत्येष सर्वप्राणभृदीश्वरः ॥
शरीरस्थोऽप्यदृश्यश्च वायुरित्युच्यते बुधैः ॥ १३५ ॥
(*यदा शिशुविंचरति जातमात्रो गर्भाशयाद्गर्भनिरोधमुक्तः ॥
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥
तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता) ॥३७॥
—:०:—
पूर्वं तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥
जनयेत्तत्र मातङ्गमत्र मे नास्ति संशयः ॥ ३८ ॥
संगमे तु यदा राजनरक्तं मुञ्चति धेनुका ॥
जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥
ऋतौ नित्यं यदा राजन्धेनुकां प्लुवते गजः ॥
ततः शुक्लं प्रथमतॊ वारणस्य प्रसिच्यते ॥ ४० ॥
तच्चेत्प्रणिहितं शुक्लं करोति पवनो द्विधा ॥
जायेते यमकौ पोतौ तत्र मे नास्ति संशयः ॥ ४१ ॥
ऋतौ यदि समुत्पन्ने धेनुकां प्लुवते गजः ॥
धेनुकायाः प्रथमतस्तत्र रक्तं प्रसिच्यते ॥ ४२ ॥
द्विधा करोति तद्वायुश्चेत्प्रणिहितं यदि ॥
भवतः पोतिके तत्र अत्र नास्ति विचारणा ॥ ४३ ॥

  • धनुराकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिखितौ
    केवलं खपुस्तके पुनरुक्तौ । कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयो-
    गाभावेन व्यर्थत्वाद्गमेन न लिखितौ ॥
    १ ख. प्रीणनं । २ ख. धेनुकम् । ३ क. ॰मकोपेतो । ४ क. चात्र ।

६ गर्भावक्रान्त्याध्य्यायः ] हस्त्यायुर्वेदः । ११७
यदा तु प्लवते नागो वशामृतुमतीं नृप ॥
ततस्तु युगपच्छुक्रं प्रसिच्येत यदृच्छया ॥ ४४ ॥
करोति मारुतस्तच्छेच्छुक्रं प्रणिहितं द्विधा ॥
यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥
रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतङ्गजः ॥
कटुकं च कषायं च रूक्षं, चैव महीपते ॥ ४६ ॥
मृंदा १ सेमुपदिग्धं च प्रावृङ्काले च वारणः ॥
असंजातरसं खादेद्गर्भं यवसं यदा ॥ ४७ ॥
यथेष्टं हस्तिनी वाऽपि रसाँनेतान्निषेवते ॥
यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥
नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥
शुक्ररक्तसमायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥
दौर्बल्याच्चापि शुक्रस्य रसहीनतयाऽथवा ॥
यदि प्रादुर्भवॆद्गर्भस्तस्मिन्काले यदृच्छया ॥ १५० ॥
षण्ढः संजायते तेन वातोपहतपौरुषः ॥
षण्ढा वाऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥
─:०:─
बलीसंतानभक्षाणां पित्तधातुर्विवर्धते ॥
कट्वम्ललवणप्राये काले कफेविघातने ॥ ५२ ॥
रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः ॥
वृष्टेरुपरमाद्वाऽपि शुक्लोर्दैकबलाहके ॥ ५३ ॥
शरत्काले निदाघे वा तत्समानगुणे ऋतौ ॥
मध्याह्ने मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्वयोः ॥ ५४ ॥
वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा ॥
शुद्धः संजायते जात्या मृगनामा मतङ्गजः ॥ १५५ ॥
तस्यैव संप्रवक्ष्यामि सत्त्वाकारमसंशयम् ॥
वनचर्याक्रियाणां च लक्षणं प्रविभज्यते ॥ ५६ ॥
तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः ॥
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥
१ क. मृदु । २ ख. समुपदग्धं । ३ क. खादेद्द्रभं यवसकं य० । ४ क.
ख. ॰सान्नेता॰ । ५ क. ॰यः ॥ बली॰ । ६ ख. ॰फनिघातनैः ॥ २ ॰ । ७ क. ॰नैः ॥
दृष्टेरुपरमे वाऽपि । ८ क. ॰दरख॰ ।
५३

४१४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
तनुगात्रापरानद्धस्तनुग्रीवस्तथैव च ॥
दीर्घजिह्वाविषाणश्च दीर्घगात्रस्तथा च यः ॥ ५८ ॥
स ह्रस्वहनुहस्तास्यवालवालधिपुष्करः ॥
ह्रस्वाल्पमस्तकश्चैव ह्रस्वरोमाऽणुमेहनः ॥ ५९ ॥
निसृष्टस्रकनियाणकक्षांसंसगदान्तरः ॥
प्रस्तब्धरोमकर्णत्वक्पुरस्ताच्चापि संनतः ॥ १६१ ॥
करालो वृतकर्णश्च जलौकावर्णसप्रभः ॥
स्थूलोत्कृष्टवकैश्च संयुक्तः सर्वसंधिभिः ॥ ६१ ॥
उन्नद्धनाभिरन्ध्रश्च निर्मांसाष्ठीव्यपिण्डकः ॥
स्थूलो निर्मीलिताक्षश्च कुब्जवंशश्च वारणः ॥ ६२ ॥
उच्चश्राप्यल्पपार्श्वश्च तथा चाप्यल्पपेचकः ॥
ग्रीवया चाप्यपेतोऽसावुच्चैर्वृद्धापसद्द्वयः ॥ ६३ ॥
एतद्धनगजस्यास्य शारीरं लक्षणं भवेत् ॥
वनस्थस्यैव वक्ष्यामि तस्य सत्त्वाश्रयं पुनः ॥ ६४ ॥
निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः ॥
रूपादिभयशङ्की च नित्यमेवानवस्थितः ॥ १६५ ॥
इत्युक्तं वनवासस्य चर्यामपि तु वक्ष्यते ॥
सत्त्वस्य लक्षणं तस्य निश्चयेन विनिश्चितम् ॥ ६६ ॥
चर्यां वनमनुचरन्निपिनष्टि करं भुवि ॥
हस्तश्रवणलाङ्गूलो दीर्घं विभ्रमते क्रमैः ॥ ६७ ॥
भिन्नमूत्रपुरीषः समुद्विग्नः संप्रधावति ॥
पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत् ॥ ६८ ॥
समुन्नम्य शिरो याति यूथान्तं चोपदेशते ॥
चर्यां निर्गन्तुकामस्य द्वारमप्राप्य तिष्ठति ॥ ६९ ॥
कर्मण्युत्तानवेदी तु चण्डो दुर्विनयश्च यः ॥
शोकालुश्चाप्यसोढुश्च दुर्मना गुरुमक्षिकः ॥ १७० ॥
बह्वाशी बहुलापश्चेदृशीलो विषमाशनः ॥
रंभसो दुर्भगश्चैव दन्तपातेषु चाक्षमः ॥ ७१ ॥
१ क. °समगादान्तुरः । २ क. संवृतः । ३ क. स्थूलकृष्णोविक्र° । ४ क.
निर्मिलि°। ५ क. °प्यवपा°। ६ क. वनसंस्थस्य । ७ क. त्वस्य । ८ ख. विक्रमते ।
९ क. °मप्यवति° । १० क. दुर्विर्जयश्च । ११ क. नमसो ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४१९
पुरोधिसंपराये च विपरार्मशदुर्वलः ॥
जवे प्रकृष्टवेगश्च भारं प्राप्यावसीदति ॥ ७२ ॥
रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः ॥
प्रकृत्या पैत्तिको ह्येष जात्या वाऽपि मृगो मतः ॥ ७३ ॥
कृच्छ्राच्चाऽऽप्यायते नागः क्षिप्रं च परिहीयते ॥
विधाः स्नेहाश्च तद्योगास्तृणानि विविधानि च ॥ ७४ ॥
लवणं प्रतिपानं च कवलान्कुवलानि च ॥
नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना ॥ १७५ ॥
विशिष्टबलयोगो हि तस्य तज्ज्ञैः प्रशस्यते ॥
तिक्तैः कषायमधुरैः स्निग्धैश्चाऽऽप्यायते हि सः ॥ ७६ ॥
कट्वम्ललवणैश्चैव रूक्षैश्चाऽऽतुरतां व्रजेत् ॥
तस्माद्योगविभागज्ञो भिषक्शास्त्रविशारदः ॥ ७७ ॥
प्रकृतेरविरोधेन बल्यमाहारमादिशेत् ॥
बलं ज्ञात्वा च तद्योग्यं भिषक्कर्म समादिशेत् ॥ ७८ ॥
नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ॥
सोढुं स हि न शक्नोति तीक्ष्णदण्डावचारणम् ॥ ७९ ॥
तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम् ॥
पिण्डोदकप्रदानं तु सान्त्वपूर्वं प्रशस्यते ॥ १८० ॥
तृणकूर्चोपचारेण ततश्चैनमुपाचरेत् ॥
कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत् ॥ ८१ ॥
अङ्कुशप्राजनैश्चैनं विशुद्धमवमार्जयेत् ॥
असंतापक्षमं चैनं वाचं न कटुकां वदेत् ॥ ८२ ॥
एवं हि सान्त्वतः कर्म सुखेन प्रतिपद्यते ॥
कर्माथश्चायमारम्भः कर्म चैवं प्रसिध्यते ॥ ८३ ॥
—:०:—
अथ मन्दस्तु हेमन्ते मासयोः पौषमाघयोः ॥
नागानां शीतसात्म्यानां मांसं मेदश्च वर्धते ॥ ८४ ॥
तुषारवातपरुषे प्रभूतयवसोदके ॥
स्वाद्वम्ललवणानां च रसानामुद्भवात्मके ॥ १८५ ॥
इन्द्रियोद्रेकजनने मेदो मांसं विवर्धते ॥
अम्ला मधुरवीर्याश्च भवन्त्योषधयस्तदा ॥ ८६ ॥
१ क. जीवे । २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. ॰नके मे० ।