सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 435, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 435

११६ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने—
धमन्यश्चेति नागानां विज्ञेया मातृजा शुभाः ॥
आत्मजानि निर्वृतिश्च स्वकर्मफलसङ्गजाः ॥ ३१ ॥
शरीरं बलवृद्धिश्च गर्भस्य रसजाः स्मृताः ॥
रसस्य प्रोणनं कर्म जीवनं शोणितस्य च ॥ ३२ ॥
प्रलेपनं च मांसस्य स्नेहो वर्ष्म च मेदसः ॥
देहधारणमस्थां च मज्जश्चैवास्थिपूरणम् ॥ ३३ ॥
संभूतमथ गर्भस्थं वायुर्जीवयति द्विपम् ॥
शरीरे चान्तरिक्षे च दिव्यो राजन् महाबलः ॥ ३४ ॥
भगवान्जीव इत्येष सर्वप्राणभृदीश्वरः ॥
शरीरस्थोऽप्यदृश्यश्च वायुरित्युच्यते बुधैः ॥ १३५ ॥
(*यदा शिशुविंचरति जातमात्रो गर्भाशयाद्गर्भनिरोधमुक्तः ॥
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥
तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता) ॥३७॥
—:०:—
पूर्वं तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥
जनयेत्तत्र मातङ्गमत्र मे नास्ति संशयः ॥ ३८ ॥
संगमे तु यदा राजनरक्तं मुञ्चति धेनुका ॥
जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥
ऋतौ नित्यं यदा राजन्धेनुकां प्लुवते गजः ॥
ततः शुक्लं प्रथमतॊ वारणस्य प्रसिच्यते ॥ ४० ॥
तच्चेत्प्रणिहितं शुक्लं करोति पवनो द्विधा ॥
जायेते यमकौ पोतौ तत्र मे नास्ति संशयः ॥ ४१ ॥
ऋतौ यदि समुत्पन्ने धेनुकां प्लुवते गजः ॥
धेनुकायाः प्रथमतस्तत्र रक्तं प्रसिच्यते ॥ ४२ ॥
द्विधा करोति तद्वायुश्चेत्प्रणिहितं यदि ॥
भवतः पोतिके तत्र अत्र नास्ति विचारणा ॥ ४३ ॥

  • धनुराकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिखितौ
    केवलं खपुस्तके पुनरुक्तौ । कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयो-
    गाभावेन व्यर्थत्वाद्गमेन न लिखितौ ॥
    १ ख. प्रीणनं । २ ख. धेनुकम् । ३ क. ॰मकोपेतो । ४ क. चात्र ।