सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 436, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 436

६ गर्भावक्रान्त्याध्य्यायः ] हस्त्यायुर्वेदः । ११७
यदा तु प्लवते नागो वशामृतुमतीं नृप ॥
ततस्तु युगपच्छुक्रं प्रसिच्येत यदृच्छया ॥ ४४ ॥
करोति मारुतस्तच्छेच्छुक्रं प्रणिहितं द्विधा ॥
यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥
रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतङ्गजः ॥
कटुकं च कषायं च रूक्षं, चैव महीपते ॥ ४६ ॥
मृंदा १ सेमुपदिग्धं च प्रावृङ्काले च वारणः ॥
असंजातरसं खादेद्गर्भं यवसं यदा ॥ ४७ ॥
यथेष्टं हस्तिनी वाऽपि रसाँनेतान्निषेवते ॥
यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥
नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥
शुक्ररक्तसमायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥
दौर्बल्याच्चापि शुक्रस्य रसहीनतयाऽथवा ॥
यदि प्रादुर्भवॆद्गर्भस्तस्मिन्काले यदृच्छया ॥ १५० ॥
षण्ढः संजायते तेन वातोपहतपौरुषः ॥
षण्ढा वाऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥
─:०:─
बलीसंतानभक्षाणां पित्तधातुर्विवर्धते ॥
कट्वम्ललवणप्राये काले कफेविघातने ॥ ५२ ॥
रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः ॥
वृष्टेरुपरमाद्वाऽपि शुक्लोर्दैकबलाहके ॥ ५३ ॥
शरत्काले निदाघे वा तत्समानगुणे ऋतौ ॥
मध्याह्ने मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्वयोः ॥ ५४ ॥
वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा ॥
शुद्धः संजायते जात्या मृगनामा मतङ्गजः ॥ १५५ ॥
तस्यैव संप्रवक्ष्यामि सत्त्वाकारमसंशयम् ॥
वनचर्याक्रियाणां च लक्षणं प्रविभज्यते ॥ ५६ ॥
तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः ॥
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥
१ क. मृदु । २ ख. समुपदग्धं । ३ क. खादेद्द्रभं यवसकं य० । ४ क.
ख. ॰सान्नेता॰ । ५ क. ॰यः ॥ बली॰ । ६ ख. ॰फनिघातनैः ॥ २ ॰ । ७ क. ॰नैः ॥
दृष्टेरुपरमे वाऽपि । ८ क. ॰दरख॰ ।
५३