सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 432, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 432

८ गर्भावक्रान्त्याध्यायः ] हस्त्यायुर्वेदः। ४१३
भूतान्येतानि कथ्यन्ते पञ्चैव खलु देहिनाम् ॥
समवायः पुनस्तेषां योन्यां कललसंज्ञितः ॥ ९० ॥
कललस्य परिणामात्स्वरत्वमुपजायते ॥
खरीभवति तद्राजन्विदाहेन स्वतेजसा ॥ ९१ ॥
खरस्य च परिणामादर्बुदं नाम जायते ॥
अर्बुदस्य परिणामात्पेशी स्यादिति निश्चयः ॥ ९२ ॥
ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप ॥
गर्भस्थेहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥
यथा मधुच्छिष्टकृतं रूपमन्वेति विग्रहः ॥
स्त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ ९४ ॥
*पर्वभिस्तु यथा सर्वैर्वेणुरुत्पद्यते नृप ॥
सर्वैरङ्गैस्तथा सूक्ष्मैर्जातर्गर्भो विवर्धते ॥ ९५ ॥
शुक्लं रजो मलश्चैव गर्भस्थस्य न जायते ॥
चतुर्थे मासि जायन्ते स्नाव्यस्थीनि सिरास्तथा ॥ ९६ ॥
जायते तस्य निर्वृत्तिरङ्गानां तु महीपते ॥
निर्वृत्तिरनुपूर्वेण यथावच्छ्रोतुमर्हसि ॥ ९७ ॥
शिरो ग्रीवा च पृष्ठं च कर्णौ चाऽस्यं करस्तथा ॥
गात्रापरमथो बालस्तथा निष्कोश एव च ॥ ९८ ॥
उरस्तथाऽऽयामकाण्डमानुपूर्व्यान्नराधिप ॥
छवी च पञ्चमे मासि यथावत्प्रविभज्य च ॥ ९९ ॥
चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च ॥
वृक्कौ नखानि रोमाणि यकृदन्त्राणि पुप्फुसम् ॥ १०० ॥
व्यज्यते हृदयं चैव षष्ठे मासि नराधिप ॥
संभवन्ति महीपाल गर्भस्थस्येह दन्तिनः ॥ १०१ ॥

  • ‘गर्भस्य हि संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रि-
    याणाम् । हृदयमिति कृतवीर्यो बुद्धेर्मनसश्च स्थानत्वात् । नाभिरिति पाराशर्यः, ततो
    हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यश-
    रीरमिति सुभूतिर्गौतमस्तन्निबन्धनत्वात्सर्वगात्रसंभवस्य । तत्तु न सम्यक् । सर्वाङ्गप्रत्य-
    ङ्गानि संभवन्तीत्याह धन्वन्तरिः । गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च ।
    तथथा—चूतफले परिपके केशरमांसास्थिमज्जानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव
    तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति ।
    एतेनैव वंशाङ्कुरोऽपि व्याख्यातः’ इति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दर्शितः ॥