हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 433, कुल 742 में से
संदर्भ में पढ़ें२१४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने
जीवोपजीवमाश्रित्य गर्भे भवति कालतः ॥
रसेन प्रीणितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥
जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते ॥
वायोर्गतिनिरोधाच्च गर्भस्थो न प्ररोदिति ॥ ३ ॥
मलाल्पत्वादपयोगाच्च वायोः पक्वाशयस्य च ॥
वातमूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥
सूक्ष्मत्वाद्विशदत्वाच्च नात्र किट्टं प्रशस्यते ॥
नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ॥ १०५ ॥
मात्रोपयुक्तान्देहस्थो गर्भो वहति वै रसान् ॥
चतुर्भागेन चांशेन गर्भं प्रीणाति हस्तिनी ॥ ६ ॥
†नाडी रसवहा ज्ञेया तया गर्भः स जीवति ॥
ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ॥ ७ ॥
ज्ञानं$^२$ च रसवीर्याभ्यां$^३$ संभूयाऽऽशु विवर्धते ॥
बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ॥
अष्टमे स्थिरसर्वाङ्गः संधिस्नायुसमन्वितः ॥
त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥
नवमे दशमे चैव भवेदेकादशेऽपि वा ॥
द्वादशे वा गजो राजञ्जायते नात्र संशयः ॥ ११० ॥
नृप या द्वादशे मासि गर्भिणी न प्रसूयते ॥
इदं तु कारणं तस्या विज्ञेयं नरसत्तम$^४$ ॥ ११ ॥
क्षीणशोणितमांसाया रूक्षशुष्काशनाद्भवेत् ॥
अध्वनो गमनाद्भारान्बन्धनाच्च श्रमाद्भयात् ॥ १२ ॥
गर्भो मुह्यति हस्तिन्या वायुना परिशोषितः ॥
न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥
न गच्छांत विनाशं च न च काले प्रसूयते ॥
अल्पप्राणा निरुत्साहा गर्भशय्यां न मुञ्चति ॥ १४
सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि ॥
धेनुर्वन्धाकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥
†‘अयमर्धश्लोकः ‘नाभ्यां’—इत्यर्धतः परं पाठ्यः’ इति प्रतिभाति ॥
१ क. ॰र्भागो नवांशे॰ । २ क. ॰नं सर॰ । ३ क. ॰भ्यां स भूयान्सुविव॰ ।
४ क. राजसत्तम ।