सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१२८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
समभागानि पयसा पाचयेदितियुक्तितः ।
परिस्राव्य च तत्क्वाथं शर्कराचूर्णसंयुतम् ॥
पाययेद्वारणं राजन्संगुक्तं मधुकेन च ।
श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम् ॥
आरग्वधं मधूकानि काश्मर्यं च शतावरीम् ।
पयस्यां पृश्निपर्णीं च मूलमिक्षुरकस्य च ॥
गर्भोतिक( मुंतं च ) समञ्जिष्ठं भव्यं पारावतानि च ।
काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत् ॥
सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम् ।
चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते ॥
व्यामिश्रलक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः ।
उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते ॥
स्वकं चिकित्सितं तस्य यथायोगं विधीयते ।
रोगाणामथ तुल्यत्वात्कर्म कार्यं तु भेषजे ॥
संनिपातसमुत्थेऽपि शिरोरोगस्तथैव च ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुल्मो
नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥
अथैकोनसप्ततितमोऽध्यायः ।
'अथातो हृद्रोगचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा-
लकाप्यः ॥
इह खलु भो हृद्रोगास्त्रिभिर्दोषैः संभवन्ति वातपित्तकफैः। तत्राऽऽदौ वातिकं
हृद्रोगं वक्ष्यामः—तत्र व्यायामाद्व्यायापरूक्षकटुकषायभोजनादत्यशनाच्च वातः
प्रकुपितः प्राप्य हृदयमनुपीय तिष्ठति हृद्रोगं जनयति ॥
ततो विजृम्भति भूमौ परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहार-
मभिलषति ॥
तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्य चिकित्सितमुपक्रमेत—सामुद्रविडसु-
वर्चिकायवक्षारोद्भिदरोमकसैन्धवघटीलवणसौवर्चलानि च प्रसन्नया सह संयोज्य
१ क. ॰दनियु॰ । २ क. ख. परिश्राव्य । ३ क. पृष्टिप॰ । ४ क. ख. कर्मकार्यस्तु ।

७० गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३२९
पाययेत् । अथवा — त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्यांश्च संक्षुद्य प्रसन्ना सह
संयोज्य पाययेत् । पायितो विमुक्तहृदयो भवति । अथवा — त्रिकटुरसोनरज-
नीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पाययेत् । कर्कटकरसं वा पाययेत् ।
सुखी भवति ॥
इति वातिकहृद्रोगः ॥
अथ पैत्तिकः — कटुतीक्ष्णोष्णाम्ललवणक्षारभोजनैः पित्तमुदीर्णं हृद्रोगं जन-
यति ॥
स भवति भक्ष्यभोज्यद्वेषी विमना विकीर्णहस्तः परिमूत्री, विण्मति
ध्यायति । संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छायाभिकाङ्क्षी ॥
तस्य भैषज्यम् — शिशिरमधुरस्निग्धक्रिया । शर्करया घृतमण्डेन वा
गात्रयोः परिषेकं कुर्यात्* । .... .... .... .... .... .... .... .... .... .... .... .... ।
.... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... ॥ अर्हिं-
स्तामधुशिग्रुकरवीरकरीतर्कीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्च समभा-
गान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत् । घृततैलवसाभिः सिद्धमह्य(माहृ)त्य सुखो-
ष्णेन गात्राणि मलेपयेत् । द्विपञ्चमूलानि माषांस्संक्षुद्य यमकस्नेहे साधयित्वा सीधुं
दधि च, तेनापि सुखोष्णेन गात्राणि प्रलेपयेत् । आढकीमधुशिग्रुशणमूलकैर-
ण्डांनां बीजानि विश्वभेषजपृथ्वीकाबलातसीतिलसर्षपयवतण्डुलकुलत्थबदर-
बिल्वचूर्णानि समभागानि पाचयित्वा घृततैलवसाभिर्दध्ना सौवीरसुरामण्डैः सह
संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्त्वा संक्षुद्य स्थापयेत् । पञ्च-
रात्रमासुतं महास्थाल्यां ततस्तमासवं पाचयित्वाऽवतार्य तस्योष्णेन गात्रा [णि]-
प्रलेपयेत् । रालारास्त्रागोक्षुरकवासाकण्टकारिकर्चूररोबूकाग्निमन्थपृश्निपर्ण्यंशुमती
पाषाणभेदिकाबिल्वपाटलीपवातसीमधुककोलकुलत्थान्पाचयित्वा ततस्तं नि-
ष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भं पाययेद्वार णम् । सर्पिस्तैलदधीनि
सुखोष्णानि पृथक्समस्तानि वा, पाययेत् । द्विपञ्चमूलं गृहीतं चैनं स्निग्धेन
मातुलुङ्गरसयुक्तेन रसेन भोजयेत् । स्नेहदानोक्तेनान्यतमेन वातप्रशमनेन स्नेहो-
पक्रमेणोपचरेत् । शशतिकेन(?) चास्य विधिना बस्तिकर्म कुर्यात् । यथोक्तब-
स्तिसिद्धिविधानेन वा बस्तिं दद्यात् । अथोदकपरिषेकोऽभ्यक्तप्रदित्य(?)लेपन-

  • इतः परं द्वयोरप्यादर्शयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा
    त्यक्ता(त्रुटिता) । ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं त्यक्तम्(त्रुटितम्)” इति
    लिखितं दृश्यते ॥
    १ ख. ०वा-र० ।
    ४२

३३० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
संकरभागपिण्डोत्करिकोपनाहफालपाषाणकारीषाग्निमांसस्वेदादिभिर्विविधैर्वन्मर्द-
नोपेतस्य स्नेहपानभोजनबस्तिनस्यकर्मप्रयोगरसभोजनलशुनगुग्गुलुविधानोपयो-
गादिभिश्च न शान्तिरस्ति । भययुर्वेदमा लिङ्गविशेषाणां प्रोतसंभजान्बहुवेक-
ह्यमस्करांसगदेशादीनां च सततमुपलभ्यते । ततश्चास्य कर्म विधेयं भवति ।
तस्य सुयन्त्रितस्य(स्तर)रक्षारक्षितस्य . संनिहितस्थानशयनपानाशनोपपन्नस्य
यथाविधि गजस्य रणजयतोपेतस्य सर्वसंभृतसंस्कारस्य कुलपरिकरपरिवारि-
तस्य सदशपत्रविधानेन विज्ञातशरीरविध्येन(धानेन) दृष्ट्वाऽग्निप्रणिधानेनासम्मू-
ढहस्तस्यायुर्वेदविदा ज्ञातेन विपश्चिता भिषजाऽग्निप्रणिधानं क्रियमाणं यथातु-
रकालमप्रदोषं भवति । अग्निहिं दुष्प्रयुक्तो महता तापेन प्राणभिदा हस्तिनमाप्र-
सादं प्रतियुनक्ति । स चेवं प्रज्ञावता तेन परीक्ष्यकारिणा प्रणिहितवता प्रयुक्ता-
न्तरावगाहपङ्कपूटलादापूरयति । शोकस्तम्भकम्पपरिसर्वास्मरणस्नायुक्षेपणसंको-
चननमसोषणसूयेन स्थिरकठिनत्वादीनि वो परिचति । तत्राग्निदाहोपकरणा-
न्येवंविधानि भवन्ति—अर्धचन्द्राकृतीनि जन्ताभिमण्डलानि(?) वृत्तानि सूक्ष्मा-
ङ्गुष्ठपरिणाहानि । हस्तिनः समीपे ✳कर्णारावेसनं कुर्यात् । अस्प पूजां कृत्वा
निरग्निं च साग्निप्रणिधानं कुर्यात् । सर्पिषाऽभ्यज्य गात्रं श्वेतवर्णैरभिलाञ्छितैः
सम्यग्दहति । भवन्ति चात्र श्लोकाः—
पत्तिनपादे(?) पत्तिनहस्ते(?) नन्द्यावर्ताकृतिं दहेत् ।
वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत् ॥
प्रोहे पत्राकृतिं कुर्याद्रसं(?)रोधजमालिग्येत (दिशेत्) ।
प्रतीकासांसफलकबाहुदेशेषु शक्तयः ॥
उत्कृष्टाशीव्यापस्कारभागे चक्राकृतिर्भवेत् ।
अग्निमार्गे भिषक्कुर्यात्परासु ˙˙˙˙ ˙˙˙˙गात्रवत् ॥
पञ्चाङ्गुलप्रमाणात्तु कार्यमेवातिसंभवात् ॥
अथैवै ˙˙˙˙मुरोरोधरेषादूर्ध्वव्यवस्थितम् (?) ।
करणीयानि रायाजानुगो पञ्चाङ्गुलान्तरा ।
निःसंशयो निराबाधा भवन्ति निरुपद्रवाः ।
शिरास्नाव्यस्थिधमनीसंधीनां नपने अपि ।
सम्यग्दहेन्न पिशितात्परतोऽग्निं न कारयेत् ॥
✳ 'कर्मारावेशनं' इति भवेत् ॥
१ क. ॰स्य सं॰। २ क. विज्ञातेन । ३ क. न । ४ क. ख. ॰या निराशाया नि॰ । ५ क. ॰हेन्मयि पि॰।

७० गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३३१
कालमत्वरवैदेहवर्णप्रकृतिकारणम् ।
वेदनादोषाद्भूतज्ञाव्याख्यायचतुराणि च ॥
विपश्चिदृष्टांकं क•••••••• •••• •••• •••• ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• त्रिकर्म ज्ञात्वाऽग्निं प्रतिचारयेत् ।
सम्येगामातिदग्धानाम्पलिङ्गान्यतः परम् ॥
ततः म्रौयोरवतुश्चैत्र(?)कपोतागरुडममम् ।
समं रूक्षं संकुचितं निष्परिस्राववेदनम् ॥
विलीनश्वयथुप्रायं सम्यग्दग्धं विनिर्दिशेत् ।
स्फोटोद्गमपरिस्रावं तथा प्रक्लेदमार्दवम् ॥
तथैव वेदना शोफमामदग्धस्य लक्षणम् ।
स्रस्तगात्रापरकरकर्णमेहनवालधिः ॥
दुर्मना ध्यायति परा•••• •••• नाभिनन्दति ।
वृज•••• •••• मूर्छा वातरक्तमूत्री भवत्यपि ॥
भ्रमीनिदानं लभते शीकरी जातप्रतिप्रणाम् (?) ।
मुखे शोषो ज्वरो ग्लानिः सीदनं जृम्भणान्वितम् ॥
छायाभिलाषी सततमत्यर्थमुदकप्रियः ।
स्थाने न लभते शर्म सर्वतः प्रतिदुःखितः ॥
अतिरिष्टेव कुतभू (?) व्रणपाकश्च दारुणः ।
उपद्रवाश्च बहवो भवन्तीति यतस्ततः ॥
निवर्ता(वृत्ता) ये वा सुशीतैः प्रदेहैरवगाहनैः ।
सशर्करैः पयःपानैर्दधिमस्तुसुरासवैः ॥
शतधौतघृतालेपैर्दाहवेगस्याऽऽर्तिं हरेत् ।
अथ शीतप्रवातावास्थितं चैनं कुशकाशरक्तोत्पलकह्लारनलनलिनबिशमृणा-
लकुमुदकुन्दपद्मकोशीरनलमूलमञ्जिष्ठासारिवारक्तचन्दनप्रपौण्डरीकमधुकमधुर-
क्षीरत्वग्रजनीमुनिषण्णकवञ्जुलादिभिः प्रकाममालिम्पेत् । इक्षुक्षीवनीलिकापो-
टगलदूर्वामृणालेन्दीवराम्बुष्ठकादेर्घृतसामोदकं मत्स्यपिण्डकागर्भमुपाहरेत्। मन्द-
दग्धं पुनर्देहेत् । सम्यग्दग्धं पयसा परिषेचयेत् । सुरया वा शालितन्दुलपि-
१ क. ख. ॰म्यग्वामा॰ । २ क. प्रायाव॰ । ३ क. ख. ॰रिश्रावं ।

३३२ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थानम्]
ष्टेन दुग्धालोडितेन पुनः पुनः प्रदेहयेत् । निवृत्तेदेहेवेदनाच्चैवं त्र्यहं पञ्चाहं
वा सिद्धार्थकासीसविकंहन्त(?)नागरमधुपष्टिकाडोभचूर्णेन व्रणानवचूर्णयेत् ।
ऊर्ध्वं वा सप्तरात्रं तु सततं तैलेन सर्पिषा वा परिषेचयेत् । त्रिसप्तरा-
त्रादूर्ध्वं द्विव्रणीयोक्तेन विधानेनोपचरेत् । तैलसेकश्चात्राव्रणारोहणात्सर्वमग्नि-
दग्ध···· ···· ····षिच्यमानं स्नेहेन प्रवे(द्दे)शो कोऽप्यमलेपविमामनात् । अङ्गो-
द्वेष्टनप्रसुप्तिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्जयतीत्येनशमशूलत्रयरूढव्रणमपि
परिषेचयेत् । सूपचण्डव्रणव(त्)वातघ्नोत्कारिकायाक्षाहाज्य(?) च पूर्वं पाणिना
मर्दयेत् । ततो लङ्गुष्ठानविधानेर्यथायोगं

५० गात्ररोगाध्यायः] हस्त्यायुर्वेदः। १३३
कनासामधुकविदारीतुषसारिवाभिः पयसा च घृतं मध्यमपाकं कारयित्वा पाय-
येत् । सर्पिषा सुस्निग्धं मुद्गोदनं भोजनमुपहरेदिति ॥
तत्र श्लोकः—
प्रदेहः शीतलैः स्निग्धैर्मधुरैः पानभोजनैः ।
पैत्तिको गात्ररोगस्तु प्रशान्तिमुपगच्छति ॥
(इति) पैत्तिकगात्ररोगः ॥
असाम्ये त्वन्ते मिथोऽपचारान्मधुरस्निग्धभोजनाद्यायामाध्वनोरप्रयोगा-
च्छ्लेष्मा प्रकोपमुपगच्छति । स वारणस्योपसृत्य गात्राणि विष्टभ्य तिष्ठति ।
ततोऽतत्व(?) गात्राणां कारयेत् ॥
अतसीतिलसर्षपमाषविडङ्गानां चूर्णानि सक्तुभिः संयोज्य तैलदधिसुरालव-
णघृतसौवीरकयुक्तेन सुखोष्णेन गणेन प्रलिप्य गात्राणि, अजगोमहिषाश्वाश्व-
तरकरिकरभाणां मूत्रपुरीषाणि प्रभूतलवणेन सुस्निग्धानि पाचयेत् । तेनास्य
सुखोष्णेन संकरेण बहलेन गात्राणि प्रलेपयेत् । श्लेष्मोऽसाध्यय (?) जाङ्गलं
पौष्णवीर्यं च संप्रदापयेत् । यवान्नं चैव पिप्पलीशृङ्गवेरं सतैलं चूर्णं पाचयेत् ।
समरिचं भोजयेद्व्याधिप्रशमनं च सपञ्चलवणां मधुमिश्रां पाययेत् ॥
तत्र श्लोकः—
तिक्तं च कटुकं चास्मै भक्ष्यं लघु तथैव च ।
भोजनं दापयेद्वैद्यः श्लेष्मरोगं(गः) प्रशाम्यति ॥
(इति) श्लेष्मजो गात्ररोगः ॥
अथ विषमापरगात्रानासामाकर्षणात्सहसाऽतिस्नेहातिरौक्ष्याति .... .... .... सर्व-
धातुप्रकोपो भवति । प्रकृत्या चास्य धातवो दोषाश्चान्योन्यमभिवर्धयन्ति । (त)-
तः सांनिपातिकश्च जायते गात्ररोगः । ततः श्वयथुरत्यर्थं ग्रथितेषु स्थानेषु
प्रभिद्यते । असृक्स्रवति प्रभिन्नश्च पुनराध्मायते । पुनश्च सहसैव प्रं(भिद्यते ।
सर्वधातुलिङ्गानां चात्र संप्लवो दृश्यते । तेनाभिभूतो वारणो दैन्यमत्यर्थं प्राण-
मांसक्षयं च लभते ततः सांनिपातिकेनाभिभूतस्य चिकित्सितमुपदेक्ष्यामः। याव-
दसृक्स्रवति तावत्पित्तशोफोक्तैः प्रदेहैरुपक्रमेत । उपक्रमो नेकूतय(?) योग-
वसातैलघृतैः सदा गात्रसेकः प्रशस्यते । खदिरकदम्बाश्वकर्णश्लेष्मातक-
कन्द(द)रमलवंशवञ्जुलशिशुविल्बपित्तगर्दभल्लातकानां पत्रभङ्गान्समानीय
महास्थाल्यामावाप्य सलिले पाचयेत् । सहासविषातर्कारीगूमूतिकापत्रभ-
ङ्गान गोमूत्रेण निष्क्वाथ्य ततोऽस्य गात्राणां नाडीस्वेदं कुर्यात् । तेनास्य श्वे (स्वे)-
१ क. ॰रीकुशसा॰ । २ क. ॰षोऽतिप्र॰ । ३ क. प्रतिभि॰ ।

३३४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
दसेको गात्राणां कुर्यात् पाठातिविषांहींस्रावचामधुकलाङ्गलीमूलानि लोध्रल-
शुनप्रपौण्डरीकशुकनासामञ्जिष्ठाहरीतकीद्विहरिद्राप्रियङ्गुतण्डुललवणकिण्ववातसी

  • .... .... .... त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम् । प्रणश्य-
    तोऽनेनास्य गात्रस्तम्भवेपथू( †नश्यति ) भोजनं चास्मै रक्तशालीनां जाङ्गल-
    रसविदधां दापयेदिति ॥
    तत्र श्लोकौ भवतः—
    इति दोषसमुत्थानां कीर्तिता भेषजक्रिया ।
    चतुर्णां गात्ररोगाणामुत्पत्तिश्च सलक्षणा ॥
    स (य) एतान्साधयेद्वैद्यो गात्ररोगान्यथाविधि ।
    स पूज्यः सततं राज्ञा दानमानपरिग्रहैः ॥
    इति सांनिपातिकः ॥
    इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
    गात्ररोगो नाम सप्ततितमोऽध्यायः ॥ ७० ॥
    अथैकसप्ततितमोऽध्यायः ।
    अथाङ्गपतिरव्यहितमनाः समासीनमग्निकल्पमुवाच पालकाप्यम्—"भगवन्,
    वनेष्वधिकबलसत्त्वगुणयुक्ता दन्तिनः" इत्येवमवन(ग)तोऽस्मि। तत्र तेषां विह-
    सानरणगमने रोगमुपलक्षयेद्गात्राणाम् । स कथमुत्पद्यते व्याधिः । कतिविधा-
    बाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भग्नव्या(?)वेवति विच्यु-
    तिविश्लिष्टपरिस्रस्तानि जानीयात् । इति । कश्चित्सद्यत उत्पद्यते, कश्चित्तलेन,
    कश्चित्मोहे, कश्चिदपस्कारेण, कश्चिद्दुरसा, कश्चिद्दंसे, कश्चित्सर्वदुःखिता,(?)
    इति । तेषां तत्त्वतो ज्ञानं साध्ययाप्यप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्च
    २व्याधीन्यदि सतपर्त्तित्तो(?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्तं भगवता (?) !
  • अथ विनपादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्—दन्तिनां
    खलु महाराज द्विविधो गात्ररोगो भवति—आगन्तुर्देहजश्चेति* । षडाबाधो
  • अत्र किंचित्त्रुटितमिव प्रतिभाति । † प्रक्षिप्तमिह प्रतीयते । * अत्रैव
    'द्वादशविधोत्पत्तिः' इति त्रुटितं प्रतिभाति 'स द्वादशविधोत्पत्तिरिति यदुक्तम्' इत्य-
    ग्रिमग्रन्थानुरोधात् ।
    १ क. भग्नव्यावेवतिविश्लि० । २ क. ०धीन्स यदि । ३ क. ०त्तित्त्वो हि० ।

९ आगन्तुगात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३३५
विप्रतिक्रियश्च। कफपवनपित्तसंनिपातातंको देहजः पूर्वमेवोक्तः । तत्राऽऽगन्तो-
लक्षणमुपदेक्ष्यामः । स द्वादशविधोत्प(*त्तिरिति य)दुक्तम्, तद्वक्ष्यामः । पैतन-
भ्रंशनस्खलनविनिखातवधबन्धनाभिघातप्ररोषप्लुवनलङ्घनगुरुहरणभारोद्वहन-
दुःस्थानशयनानीति । तत्र गिरिकूलोच्चपातो विषमगमनात्पतनम् । पिच्छि-
लशिथिलपातनाद्भ्रंशनम् । स्थाण्वश्मश्लेष्टाविषयान्धकपानास्त्वेवम्(?) । विनि-
खातनं विश्रान्तगमनात् । गुर्वेतिमात्रचिरप्राप्तवसनाद्वधबन्धनापत्तिः । प्रति-
गजविषाणास्यध्वनमस्खलम्(?)मधुध्वा शरशक्त्यृष्टितोमरप्राजनादभिघातापत्तिः ।
प्ररोषो द्विविधः—कर्माध्वगमनं चेति । तत्राभि(गमनप्रति)गमनादपकर्षणयो-
गान्नाम साधूपक्रमाङ्गो मूत्रमण्डलानुकारिवीथीनां चातिमात्रगमनादखिलचरण-
देशेष्ववसी(सा)दनाच्च कर्मप्ररोधापत्तिर्भवति । ....
शतिमात्रादध्वगमनापत्तिः ।
दानाध्वप्ररोषापत्तिः । गात्राणां युगपदुत्पतनं प्लुवनम् । ममिल(?)विज्ञेयमेकै-
कशो लङ्घनम् । वारिपरिखासंक्रमणादिभिर्वृक्षप्राकारकपाटस्तम्भाभिघातादे-
वादाम्लरिनागमर्दनाद्विचित्प्रभृतीनां मर्दनम् । ^†गुरुहरणानाम् .... .... अतिप्रमाण-
(*भारतवेव संविहता) भारोद्वहनम् । विषमेऽश्मस्थाणुसंबाधादुःस्थानशयनम् ।
आपत्तिर्हेतुरुत्पत्तिरित्यनर्थान्तरम् ॥
षडाबाध इति यदुक्तं, तदनुव्याख्यास्यामः—आधावनमेतद्रव्याविधविच्च्यु-
तपरिम्लानंविशेषसङ्गाः (?) ॥
गात्रसङ्गो द्विविधोऽभिविज्ञेयः संधावसंधौ वा । तत्र संधिगो द्विधा—निर्भुग्नः
सवृत्तश्चेति । एवमन्यत्रापि । तत्र निर्भुग्ने +मत्तियैर्वसश्चासपर्वतेसङ्गे(?) संहरणग-
मननिर्वृन्तिमरणं च । मपि(?) रक्तपवनसंध्यावेधो द्विविधो ^†वाभ्योद्योत्तरश्च ।
व्यवापि (?) रक्तपर्वसंभवं द्विविधमभिज्ञेयम् । तत्र रक्तमन्त्रस्खलनात्मकं भवति ।
पतनप्रभ्रंशनप्लवनविहरणानामेकम् । तस्य खलु लक्षणानि श्वयथुवेदनादाहप-
रिशोषदौर्मनस्यानि । रक्तजे स्तम्भगतिवेदनोवैकल्पानि । यद्योपरिम्लानं नाम
प्रवृद्धे वा शस्त्रकर्मणि वा सिरा यदा विच्छिन्ना स्यादोपेतं मा(?)शोणितमाव-
हति गात्रेषु, तदा शोणितक्षयाद्वायुर्गात्राणि शोषयतीति तं गात्रम्लानं विद्यात् ।
विश्लेषणं नाम विशिष्टं नामास्यामसंवरणसंधावोत्पद्यते ॥

  • धनुश्चिह्नत्रयगता वर्णा भ्रष्टाः कपुस्तकात् । ^† 'गुरुहरणं नाम' इति भवेत् ॥
  • 'विश्लेषण' इति भवेदुत्तरग्रन्थानुरोधात् । + 'मत्तैयैर्व' इति स्यात् । * 'निवृत्ति'
    इति स्यात् । ^† 'बाह्योऽन्तरङ्गश्च' इति स्यात् ।
    १ क. पूर्वोक्तः । २ क. पवन° । ३ क. °मनोत्प° । ४ ख. °धिष्ठगो ।
    ५ ख. पवन° । ६ ख. °नाविकल्पानि ।

३३६ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
सङ्गा इति यदुक्तम्, तद्वक्ष्यामः—संभवति सर्वगात्रेण चेति । पाषाणश-
र्करोपमर्दनवम्राक्रमणवंशादिस्फोटनशैथिल्यशूलसङ्गो भवति । तत्रोङ्गुष्टदग्ध-
स्फुटितशिथिलतलविप्रकीर्णप्रविरलगतिरल्सः कर्कट बद्धर्तिं भजते । प्राप्य
वाश्मलोष्टशरधानवर्ती महीं मन्दगतिरगतिर्वा भवति । शर्करोन्मथितैर्नतविन-
तसंधिपार्ष्णिपुरोनखान्तर्नखतलपर्यन्तगतिर्भवतीति तलसङ्गः । प्रस्तब्धमोहह-
रणं कृच्छ्रादवनमनं र्वा तस्य मोहस्येति मोहसङ्गः । अपस्कारकक्षविक्षोभ-
स्तम्भः कृच्छ्रादुपवेशनमनुपवेशनं वा निहरणगमनमित्यपस्कारसङ्गः । उरोन्त-
र्मणिविक्षोभावशेषोत्सङ्गगुहाभागप्रत्यङ्गानामंसदेशानामुद्धरणं गमनप्रवेशनं च
स्यादित्युरःसङ्गलक्षणम् । प्रत्यङ्गसांकर्यमुखशिरःशिरोधराणां कृच्छ्रादुद्वहनमि-
त्यंससङ्गः । सर्वलिङ्गं दर्शयन्तो(तः) सर्वसङ्ग इति । सर्वसङ्गे सर्वश्वपथुर्वेदनस्त-
म्भगतिवैकल्यानि नियतानि भवन्ति। स च त्रिविधः-साध्यो याप्यः प्रत्याख्ये-
यश्चेति। तत्र निर्भुग्नजः सर्व•••• ••••सर्वापर्वभङ्गस्वमध्यव्याधेर्वद्धनपरिग्ला•••• ••••
••••••••†संवत्सरोपलक्षणाचाप्यनि भवन्ति। शेषाश्च भिषक्सात्म्यौषधकालसंपदा
सिध्यन्ति । सीष्टाव(?)द्विविधा प्रतिक्रिया तस्य च ॥
तत्र श्लोकः—
इत्युद्दिष्टः समुद्देशः पदाबाधे यथाक्रमः ।
चिकित्सितमप(त)स्तस्य विस्तरेण प्रवक्ष्यते ॥
अथाऽऽसनस्थं महर्षिमभिवाद्याङ्ग उवाच रोमपादो भगवान्—'यदुक्तं भगवता
आगन्तोगार्त्ररोगस्य महाबाधस्य लक्षणम्, तच्छ्रुत्वा महन्मे विकल्पं मनसः ।
संवृत्तस्य चिकित्सितमुपदेष्टुमर्हसि भगवन्' इति ॥
अथोवाच पालकाप्यः—उक्तं मया स्वादेहसमु(त्थ)स्योत्पत्तिर्लक्षणं चिकि-
त्सितं च प्राणवर्तोर्लक्षणं च । आगन्तोरिदानीं चिकित्सितं वक्ष्यामः । तस्या-
ङ्गानि बहुशः पानीयेन शीतेन सेचयेत् । कुड्यां च रक्तमृत्तिकया लिप्यते ।
ततः सुरसार्जुने कदम्बकेसरकेतकसप्तच्छदबाणासननीपकुटजपुंनागतिलका-
म्रातकपाटलकुवर(रुव)काङ्कोल्लधवधन्वन्तरक्तोत्पलकह्लारसौगन्धिककुमुदैर्विप्र-
कीर्णभूमिभागरथैश्च (?) पुष्पजातिभिरार्तवैर्यथोपपध्याशोभितसाध्या गावः (?)

  • 'कशा' इति स्यात् । + स्तल्सङ्ग' इति स्यात् । † 'संवत्सरोपेक्षणात्' इति स्यात् ।
    १ क. ॰त्रोष्टदग्धस्य स्फु॰ । २ ख. ॰तविन॰ । ३ क. ख. ॰पार्थिपु॰ ।
    ४ क. ख. वातवातस्य । ५ क. ॰धेववृद्धद्ध॰ । ६ ख. ॰ट्यां श्वरक्त॰ । ७ क.
    ॰वलध॰ । ८ क. ॰थैकपु॰ ।

...[कृ]त्वा परिषेकमस्य शीतलेन वारिणा (द्वि)पस्यावकारयेत् । ततो गुन्द्रामूलको-
ष्टक्षीरेण पेषयेत् । .... .... त्वाघृतैरवैश्च पुष्पन्मध्य(?) कारयेत् । प्रलेपं प्लक्ष-
न्यग्रोधाश्वत्थोदुम्बरमधूकरजोह्रनार्जुनकदम्बतवग्भिः क्षीरपिष्टाभिः प्रलेपयेद्गा-
त्राणि । नैलवञ्जुलवेतसेक्षुमालिनां मूलानि यवतिलकसेरुककल्कनमिश्राणि सर्पिः-
क्षीरेण संयोज्य गात्राणां लेपनं कुर्यात् । कुमुदोत्पलपद्मबिसमृणालशृङ्गाटक-
कसेरुकाकल्कपिष्टाः क्षीरघृतसंयुक्ताः प्रलेपः । यवतिलचूर्णानि पद्मककसे-
रुककल्कनमिश्राणि घृतेन पयसा वाऽऽलोड्य गात्रलेपं कुर्यात् । यवगोधूमतिल-
चूर्णानि पद्मककसेरुकमिश्राणि श्लक्ष्णपिष्टानि घृतसंयुक्तप्रलेपः । पोटलगु-
न्द्राणां मूलानि, इक्षुवालिकानां(?) बस्तमूत्रयुतानि पिष्ट्वा क्षीरेण घृतेन च लेपं
गात्राणां कुर्यात् । ततश्च प्रदेहान्यथाक्रमं युञ्जीत। अनेन प्रयोगेणाऽऽगन्तुर्गा-
त्ररोगः प्रशान्तिमुपगच्छति । अथ बलातिबलयोः पलशतं तोयविंशतिप्रस्थे
जर्जरीकृत्य प्रक्षालितं तच्च पादावशिष्टमवस्थापितं समवर्तितनिष्कार्थ
कृत्वाऽवतारयेत् । पयसश्चत्वारः प्रस्था यष्टिमधुकदेवदारूणां द्विपलं पेष्यम-
धिश्रयेत् । तत्र तैः पञ्चतैलप्रस्थांन्समालोड्य साधयेत् । सिद्धमप्रतिस्राव्याव-
तार्याभ्यङ्गपाननस्तकमेसु प्रयोजयेत् । तथैनं यवबदरसंयुक्तं सशर्करं शीतलं
सपानं पाययेत् । ततश्चैनं शतधौतेन घृतेनाभ्यज्य चन्दनोशीरसारिवाहरिवेर-
पद्मकमधुकप्रपौण्डरीकफलैः सघृतैरैभिः प्रलेपयेद्गात्राणि । अजावराहमहिषगो-
मेदांसि कुक्कुटीशिशुमारौद्यैः सह विपाचयेत् । गात्राणि चास्याभ्यञ्जयेत् ।
एतद्ग्रमविच्युतचलितं विशिष्टानां चलिसंधानं भवति । काकोलीक्षीरकाकोली-
जीवकर्षर्षिमुद्गपर्णीसारिवानन्तामेदामहामेदायष्टीमधुकससादनत्वग्भिः क्षीरं
विपाच्य शीतीभूतं शर्करायुक्तं पाययेत् । सर्पिषा वाऽस्याभ्यञ्जयेद्गात्राणि ।
अहिंस्राजम्बूत्वचं चूर्णीकृत्य यवकुलमाषनि(मि)श्रेण येनेमे .... साऽप्यपाचयित्वा
शीतलेन गात्राणि लेपयेत् । बिसमृणालशृङ्गाटककसेरुकाभिः कल्कपिष्टाभिर्घृ-
तसंयुक्ताभिर्गात्राणि प्रलेपयेत् । शाकोंदुम्बराणां त्वचं मतवेतस(?) मूले पयसा
च सिद्धाभवतारयेत् । एतदभ्यङ्गपानवस्तिनस्यकर्मसूपयोजयेत् । तथाऽऽसां
गोमहिषाजोवीनां मूत्रपुरीषाणि दधिघृतदुग्धैः संयोज्य काथयेत् । तत्र वापे
वाछी(हली)कंमानीय पत्राणि यवतिलपिष्टलवणानि पाचयित्वा ( तेनास्य मुखो-

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ॥

१ ख. पीषयेत् । २ क. °तैरवैश्वपु° । ३ ख. °त्वद्भिः क्षी°। ४ क. °नव°।
५ क. °क्षुमीलि° । ६ क. °वतारितं । ७ क. °रादेः स° । ८ क. °ष्टानि घृतसं-
युक्तानि गात्रा° । ९ क. °जातीनां । १० क. °कमपनी° ।
४३

ष्णेन संकरेण गात्राणि प्रस्वेदयेत् । ततोऽस्य गात्राणां मार्दवमुपजायते ।
व्याधिश्च नश्यति । प्लवका दशवारेण घृतेन भोजयित्वा) रसमधुपानं दद्यात् ।
एतदेव तु दानस्रुतवयःक्षीणनिर्यातम्रणशोषिणां गात्ररोमावित्रस्तानां मोदय(?)
मेतेनैव सर्वे शाम्यन्ति । बलवीर्याणि •••• ••••वतिप्रमुच्यते ॥
तत्र श्लोकः—
इत्यागन्तोः क्रियाः प्रोक्ता मया पार्थिवसत्तम ।
गात्ररोगस्य नागानां यथावदनुपूर्वशः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने, आगन्तु-
गात्ररोगो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥
अथ द्वासप्ततितमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
गात्ररोगाः कतिविधा दन्तिनां संप्रकीर्तिताः ॥
विज्ञानं च कथं तेषां किंच तेषां चिकित्सितम् ।
तन्मे त्वं पृच्छतो ब्रूहि गात्ररोगान्पृथग्विधान् ।
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
रूपतः षोडशविधा गात्ररोगा हि दन्तिनाम् ।
स्तब्धं *निपातं †निपिष्ठं ‡विहितमाहतं तथा ॥
शूनं संकुचितं भग्नं *ग्लानमावेक्षितं च यत् ।
निर्वेष्टितं च विज्ञेयं मोटितं मथितं तथा ॥
*एकाङ्गशाफेमपृष्टच्छिद्रं *विच्युतमेव च ।
इति षोडश संस्थाना दन्तिनां गात्रसंश्रयाः ॥
व्याधयस्ते समुद्दिष्टाः शृणु विस्तरलक्षणम् ।
तत्राऽऽदौ स्तब्धगात्रस्य लक्षणं संप्रवक्ष्यते ॥

  • ‘निघातम्’ इति पाठो भवेत्, अग्रे ‘संनिहन्यते’ इति वक्ष्यमाणत्वात् ।
    † ‘निपिष्टं’ इति त्वग्रिमग्रन्थानुरोधात् । ‡ ‘विनतम्’ इति युक्तम् ‘विनतस्य चिकि-
    त्सितम्’ इत्यग्रिमग्रन्थानुरोधात् । * ‘म्लानम्’ इति त्वग्रिमग्रन्थानुरोधात् । + ‘आवे-
    ष्टितम्’ इति त्वग्रे वक्ष्यते । * ‘एकाङ्गशोष’ इति त्वग्रिमग्रन्थानुरोधात् । § अपृष्टच्छि-
    द्रस्य निदानलक्षणानि त्वग्रे नोपलभ्यन्ते पुस्तकद्वये । * भ्रष्टशब्देनाग्रे वक्ष्यते ।
    १ क. °हितं मोहितं । २ क. °क्षितं तथा ॥ नि° । ख. °क्षिते च ।

यतो निमित्तं मातङ्गाश्चरणस्तम्भमृच्छति ।
विषमस्थानशयनादजीर्ण्यव्यसनादपि ॥
गुरुबन्धप्रयोगाद्वा लङ्घनप्लवनादपि ।
स्तब्धो भवति गात्रेषु ततस्तिष्ठति वारणः ॥
गात्रेणापरया वाऽपि तेनातीव च दुर्मनाः ।
तिष्ठत्यालानमाश्रित्य न च पादेन तिष्ठति ॥
इति स्तब्धं समुद्दिष्टं चिकित्सा तस्य वक्ष्यते ।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् ॥
ततः कुर्यादिमं सम्यग्विधिं शास्त्रविनिश्चितम् ।
तस्यायोगुडतप्तेन जलेन परिषेचनम् ॥
कम्बलावृतगात्रस्य कारयेत्सततं भिषक् ।
अथवा शिग्रुवेणूनामुरुबूकार्कयोरपि ॥
वासन्त्याः शीतकल्पस्य तर्कार्याः सुरसस्य च ।
भङ्गानादाय विधिवत्स्थाल्यामाधाय पाचयेत् ॥
अथास्याः कारयेन्नाडीं यथा संप्रति सिद्धये ।
मध्ये वितस्तिविस्तीर्णा मूले चारत्निर्मिता ॥
मुखे षडङ्गुला कार्या नाडी तस्या महीपते ।
.... .... ....१नाहतसंस्थानवृत्ता गोपुच्छसंस्थिता ॥
तथा स्वभ्यक्तगात्रस्य निवातस्थस्य दन्तिनः ।
हस्तैश्चापि भवेत्कार्यं सर्वतः परिमर्दनम् ।
कुटजस्याग्निमन्थस्य मेषशृङ्गीकपित्थयोः ॥
वरुणभूधककस्य पत्रण्यारग्वधस्य च ।
आनु(ढ)र्कीं सप्तपर्णं च तथा सैरेयकावुभौ ॥
स्थाल्यामाधाय कर्तव्यो नाडीश्वे(स्वे)दः पुनः पुनः ।
श्वि(स्वि)न्नस्य च भवेत्कार्यं मर्दनं लघुडाधवनैः (?) ॥
अयमन्यो विधिः कार्यो राजन्मार्दवकारणम् ।
महिषस्य वराहस्य मार्जाराणां गवामपि ॥
खरोष्ट्राणां च मांसाानि ग्राह्याण्यस्थीनि चाप्यथ ।
छेदयित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत् ॥
१ ख. ०णील्पस्य० ।

३४० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
यथोक्तेनैव विधिना मर्दनं तस्य कारयेत् ।
कुलत्थानाढकीबीजं बदराणि यवांस्तिलान् ॥
पयसा पञ्चमूलं च स्थाल्यामाधाय पाचयेत् ।
ततोऽस्य कारयेत्स्वेदं नाड्यैव सततं भिषक् ॥
स्विन्नस्य च पुनः कार्यं मर्दनं पूर्वकीर्तितम् ।
न चेदनेन विधिना गात्रं गच्छति मार्दवम् ॥
ततोऽस्य विधिवत्कार्यः फालस्वेदो ह्यनन्तरः ।
समीपे तस्य नागस्य कर्म(र्मा)रावेस(श)नं भवेत् ॥
( *ततोऽस्य पातयेत्फालानग्निवर्णान्भिषक्तथा ।
पटावनद्धगात्रस्य तथा स्निग्धस्य दन्तिनः ॥
तिलसर्षपचूर्णैश्च यवैश्चाऽऽलेपनं भवेत् ) ।
ततः संचारयेत्फालं यथायोगं विचक्षणः ॥
स्विन्ने च विधिवत्कार्यं मर्दनं तस्य हस्तिनः ।
भवेन्न चेत्प्रकृतिमान्पुनस्तस्य समाचरेत् ॥
विधिर्व्यस्तस्य गात्राणां स्तनानां च निवर्तनम् ।
स(श)णवीर्या(जा)कयोर्मूलमतसीसर्षपानपि ॥
तिलानि बीजनिचये यवान्कृष्णा च मृत्तिका ।
सम्यक्षीरेण सिद्धेन सुखोष्णेनाथ सर्वशः ।
कल्केनैतेन नागस्य पिण्डस्वेदं प्रकल्पयेत् ॥
स्विन्नस्य च पुनः कार्यं मुहूर्तंमवगाहनम् ।
सलिलेनैव नागानां पुनश्चोत्तार्य कारयेत् ॥
एष एव विधिः कार्यः पिण्डस्वेदे यथाक्रमम् ।
मर्दनं चास्य पूर्वोक्तं नाडीस्वेदं च कारयेत् ॥
अयमन्यो विधिः कार्यः स्तब्धगात्रेषु हस्तिनः ।
प्रसुप्ते येन गात्राणां सर्वतौ^३ऽप्युपशाम्यति ॥
देवदारु हरिद्रां च सह दारुहरिद्रया ।
कुष्ठं रास्नां च कालां च सरलं च पुनर्नवा ॥
एवं संभृत्य संभारं पिण्डस्वेदं प्रकल्पयेत् ।
पूर्वोक्तेन विधानेन मर्दनं च विचक्षणः ॥

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ।
    १ क. °मूलानि स्या° । २ क. °तो यः प्रशा° । ३ क. प्रकल्पयेत् ।

७२ गात्ररोगभेदाध्यायः ] हस्त्यायुर्वेदः । ३४१
निवातस्थस्य चाभ्यङ्गं मर्दनं तत्र कारयेत् ।
सर्वस्वेदेन नागस्य स्विन्नस्यैव विगाहनम् ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
स्नेहाभ्यङ्गः प्रयोक्तव्यः पृथक्स्विन्नेषु दन्तिनाम् ॥
अथवैतेन कल्पेन विशेषो नोपलभ्यते ।
अथैनं स्नेहयेत्सम्यगेतेन विधिना भिषक् ॥
यवकोलकुलत्थानां निष्क्वाथं साधु कारयेत् ।
प्रक्षिपेदुच्चकैस्तेन निष्क्वाथे पञ्चमूलयोः ॥
तत्र तैलं समाश्रित्य ततो मृद्वग्निना पचेत् ।
पच्यमाने ततस्तस्मिन्निमं गर्भं प्रदापयेत् ॥
अनन्ताचन्दनोशीरमशोकं सारिवा घृतम् ।
तथाच क्षीरकाकोली जीवकर्षभकावुभौ ॥
काकोली मधुकं रास्नां सरलं देवदारु च ।
हरेणुकं छिन्नरुहां बलां चात्र प्रदापयेत् ॥
तं स्नेहं पाययेन्नागं भक्तं वा स्नेहसंमितम् ।
एतेन स्निग्धकोष्ठस्य भवेन्मार्दवलाघवम् ॥
गात्राणामुरसश्चास्य प्रमा(सा)दश्चोपलभ्यते ।
विश्रान्तगमनं गात्रं हस्तिनः संनिहन्यते ॥
वेदना शूनभावश्च तस्य संधिषु लभ्यते ।
न च तिष्ठति गात्राणां न च वेल्ल्यति द्विपः ।
एवं तस्य तु लिङ्गानि अत ऊर्ध्वं चिकित्सितम् ॥
सेचनं घृतमिश्रेण पानमस्य महीपते ।
अथो निपिष्टगात्रस्य लक्षणं संप्रचक्षते ।
यतो निमित्तं गात्रेषु गजः स्तम्भमवाप्नुयात् ॥
सहसाऽतिप्रसक्तं च योऽध्वानं नीयते गजः ।
रूपाण्यभिद्रवति वा योऽतिक्रुद्धो मतङ्गजः ॥
संनिपिनष्टि सहसा भूमौ गात्राणि वारणः ॥
१ क. °नं च विचक्षणः । स° । २ क. शून्यभा° । ३ क. °थोऽतिपि° ।
४ क. °पिष्टि स° ।

३४४ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने]
तस्य निषेवणाद्गात्रे रुधिरं संप्रदुष्यति ।
श्वयथुस्तस्य गात्रेषु वेदना चोपजायते ॥
प्रोहयोः पादपार्श्वेषु पश्चात्पादतलेषु च ।
प्राहुस्तं विनिपिष्टं तु गात्ररोगं चिकित्सकाः ॥
सेचनं पूर्वगात्राणां सर्पिषा तस्य कारयेत् ।
(※गम्भीरसलीले चैनं नागं तमवगाहयेत् ।
उत्तीर्य च ततस्तस्य घृतमिश्रैश्च सक्तुभिः ।
प्रलेपं सर्वगात्राणां तलानां चैव कारयेत्) ॥
एवं मृत्तिका(क)पा चास्य कार्यं शीतलपा नृप ।
कुक्कुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥
सुरां चिरस्थितां चास्मै दद्यात्फाणितसंयुताम् ।
अपरेद्युः पर्युषितां वारुणीं च महीपते ॥
अतः प्रलेपः शीतोऽयं गात्राणां पूजितो भवेत् ।
कुक्कुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥
मञ्जिष्ठां चैव मृद्वीकां पेषयेत्सह सर्पिषा ।
तेनास्य लेपं गात्राणां बहलेन समाचरेत् ॥
पानं चैव यथायोगं पाययेत विचक्षणः ।
विनिपिष्टस्य विज्ञानं चिकित्सा च प्रकीर्तिता ॥
अथ त(य)स्य भवेद्गात्रं ²†चिन्तितं वारणस्य च ।
तस्योत्पत्तिं निदानं च चिकित्सा च ³प्रवक्ष्यते ॥
स्खलनैर्भ्रंशनैर्वन्धैः(वैधैः)पतनैर्लङ्घनैरपि ।
प्रास्तं प्रत्यस्तमत्यस्तं सहसा निघ्नतोऽपि च ॥
क्रौञ्चर्यञ्चापि(?) सहसा परिणीतस्य दन्तिनः ।
व्यस्तं वा सहसा वध्यं गात्रेणाभिहतस्तथा ॥
तरणाद्वाऽपि सलिले शिरास्नाव्यभिघाततः ।
प्रस्तम्भितं ततो गात्रं सरुजं दन्तिनो भवेत् ॥
※ धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके । † 'विनतं' इति युक्तम् 'विन-
तस्य' इत्यग्रिमग्रन्थानुरोधात् । 'विहितं' इति तु प्रागुपलभ्यते ।
१ ख. ०टीसीसुमा० । २ क. विंनितं । ३ क. प्रचक्ष्यते ।

७२ गात्ररोगभेदाध्यायः ]' हस्त्यायुर्वेदः ।' ३४३
प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽशु जायते ।
कुल्माषतिलकिण्वानि क्षीरेण सह ^२पेषयेत् ॥
कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः ।
पाचयेद्धृतसंसृष्टं चक्रतैलं मतङ्गजः ॥
हस्तेन तस्य गात्राणां मर्द्दनं चापि कारयेत् ।
क्रमव्यायामवृद्धिं च विनतस्य चिकित्सितम् ॥

आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च ।
यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति ॥
मिथ्या च सहसा चैव यो गजः परिणीयते ।
ततस्तस्य भवेद्गात्रं भ्रमणात्सरुजं भृशम् ॥
स गच्छति समुत्प्लुत्य गात्रमुद्ध्राम्य वा नृप ।
सहसा जायते चास्य श्वयथुर्गात्रसंधिषु ।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् ।
सुखोष्णेन भवेच्चास्य निवृत्तिस्तस्य कर्मणाम् ॥
तर्कार्या उरुबूकाणां शिग्रो रक्तस्य कारयेत् ।
कण्टकारिकयोश्चैव कपित्थस्य तथैव च ॥
पत्रभङ्गान्समादाय निष्काथ्य पञ्चमूलयोः ।
नाडीस्वेदं यथाप्रोक्तं सस्नेहं चैव मर्दनम् ॥
यवचूर्णं च किण्वं च तथा कृष्णां च मृत्तिकाम् ।
अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत् ॥
तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत् ।
तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत् ॥
मूत्रं वेणिकया चास्य गात्रयोर्वेष्ट्य बन्धयेत् ।
विसृष्टे च ततः कार्यं सेचनं मर्दनानि च ॥

(*गात्रं यस्य भवेच्छूनमपरा वाऽपि दन्तिनः ॥
तस्य लिङ्गानि वक्ष्यामि चिकित्सां च पथाक्रमम् ॥
बलाबलमविज्ञाय सहसा यः प्रमुह्यति ॥ )

  • धनुश्चिह्नान्तर्गतो नास्तिपाठः कपुस्तके ।

१ ख. °ल्माल्ति° । २ ख. पीषयेत् ।

प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥
तत्र कोपाच्च शुष्यन्ति सिरा गात्रसमाश्रिताः ॥
ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते ॥
न च स्थाने न शय्यायां वारणो लभते सुखम् ॥
सुखोष्णेनाथ तैलेन सेचनं तस्य कारयेत् ॥
नाडीस्वेदं यथाप्रोक्तं सुस्विन्नस्यापि मर्दनम् ॥
जलयुक्तमथो तैलं पानार्थं तस्य युज्यते ॥
शिग्रुं वंशपलाशं च निम्बस्य कुटजस्य च ॥
हस्तिकर्णपलाशानि किणिहीं चैव पाययेत् ॥
नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम् ॥
त्वग्भिश्चापि तथा कार्यः प्रलेपो घृतसंयुतः ॥
प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः ॥
जायते स यदा भूयः स गजो नैव कार्यते ॥
तूर्णमध्वप्रयोगं वा लङ्घनप्लवनानि च ॥
✝आयुर्वैध्या मत्तकासी गोमूत्रं मण्डलानि च ॥
वंशोत्थापनकल्पं च तोपाचाहरणानि च ॥

त(य)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥
संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥
प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि ॥
कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम् ॥
सेचयेत्तस्य गात्राणि तैलेन वसया तथा ॥
कारयेत सुखोष्णेन सप्तरात्रमतन्द्रितः ॥
आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ ॥
कर्णिकारोत्तरूं ✝.... .... .... .... .... ॥
.... .... .... .... ✝सं स्थाल्यामाधाय पाचयेत् ॥
✝ आकारः खपुस्तके त्रुटितः । ✝ संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भग्नग्रन्थस्याऽऽ-
दिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति ।
१ क. ख. किणिह्वां । २ क. यथा । ३ क. प्रोक्तः । ४ क. मत्तकासं ।
५ क. गोमूलं ।

७वाँ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४५
नाडीस्वेदं ततः कुर्यात्तथाऽथ च विमर्दनम् ॥
तिलसर्षपचूर्णेन लेपनं तस्य कारयेत् ॥
अजावराहवसया सह तैलेन घृतेन च ॥
वेसवारकृतं मांसं *दद्यात्सद्यः सुदाहृतम् ॥
न संहरति गात्राणि न च वेल्लपति द्विपः ॥
प्रलेपं तस्य गात्राणां बहलेन समाचरेत् ॥
अथैनं पाययेत्पानं यथायोगं भिषग्वरः ॥
ततो विरिक्तं विज्ञाय बृंहणीयैरुपाचरेत् ॥
संजातमांसं मातङ्गं क्रमात्कर्माणि कारयेत् ॥
स्रन्ने गात्रेऽपरां वा कुर्यात्क्रमचिकित्सितम् ॥
अथ त(य)स्य भवेन्म्लानं गात्रं वा यदिवा परम् ।
तस्योत्पत्तिं प्रवक्ष्यामि सनिदानं चिकित्सितम् ॥
संग्रामे वा प्रहारैस्तु शस्त्रकर्मणि वा तथा ॥
शिरा रक्तवहा भिन्ना बहु मुञ्चति शोणितम् ॥
ततः कुप्यति गात्रेषु पवनः शोणितक्षयात् ॥
स शोषयति गात्राणि सङ्गं चास्य नियच्छति ॥
तस्य कुर्यादिदं कल्पं निखिलं गात्रशोषिणाम् ॥
सेचयेत्तस्य गात्राणि सर्पिषोष्णेन दन्तिनः ॥
निचुलं फलकल्कं च जलजम्बूस्तथैव च ॥
सघृतं पयसा मिश्रं प्रलेपं तस्य कारयेत् ॥
विधिना च यथोक्तेन स्वेदनं तस्य हस्तिनः ॥
अस्थिस्वेदं च निखिलं फालस्वेदं च कारयेत् ॥
मांसनिर्यूहपक्वं च तैलं चास्मै प्रदापयेत् ॥
सर्पिः क्षीरं वसां चैव विधिना संप्रदापयेत् ॥
म्लानं संवत्सरोत्सृष्टं व्यावेधश्च न सिध्यति ॥
इत्यब्रवीत्पालकाप्यो †म्लानं गात्रं चिकित्सितम् ॥
यस्तु निर्वेष्टितं कुर्यादावेष्टितमथापि वा ॥

  • 'दद्यात्सद्यस्तदाऽऽहृतम्' इति भवेत् । † 'म्लानगात्रचिकित्सितम्' इति भवेत् ॥
    १ क. मुदाऽऽहृतम् । २ क. ॰शोणितम् । ३ क. निचेष्टितं ।
    ४४

३४६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
गात्रं तस्य समुत्पत्तिर्निदानं च प्रवक्ष्यते ।
कर्दमं वालुकां चापि सेवते यदि वारणः ॥
गात्रान्तरश्च सहसा यदा तु परिणीयते ।
भौमकर्मणि वा राजन्गुरुवंछादिसंयुतम् ॥
यदाऽपनीतः सहसा वारणः परिणीयते ।
अतिमात्रं निबद्धं वा यातारः कर्मणे यदि ॥
नियोजयन्ति सहसा मिथ्यायोगादयं(?) हितम् ।
तस्य कुप्यति गात्रेषु मारुतः संनिरोधनात् ॥
आवेष्टयते ततो गात्रं ततो निर्वेष्टयतेऽपि वा ।
सेचनं घृततैलाभ्यां सततं तस्य कारयेत् ॥
(※नाडीस्वेदश्च कर्तव्यः कल्पेनेतेन दन्तिनः ।
तुलसीं सुरसां बिल्वमर्कमारग्वधं तथा ॥
श्योनाकं चाग्निमन्थं च स्थाल्यामाधाय पाचयेत् । )
नाडीस्वेदं ततः कुर्यात्तैलाभ्यक्तस्य दन्तिनः ॥
निर्भुग्नस्य च कर्तव्यं(:)प्रलेपं(:)तस्य हस्तिनः ।
निर्वेष्टितस्य कर्तव्यं सम्यगावेष्टनं भवेत् ॥
निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषक् ।
अभ्यक्तं स्वेदयेत्स्विन्ने सम्यगालेपयेद्भिषक् ॥
प्रलिप्तं वेष्टये....यदु(द्वे)ष्टितवेष्टितम् ।
.... .... .... .... .... .... .... लङ्घयेत् ॥
न चेत्प्रकृतिमाप्नोति तथोत्तरमथाऽऽचरेत् ।
ईमं कृत्स्नं विधिं कुर्याद्येन लाघवमाप्नुयात् ॥
यथा च स्विन्नगात्रस्य स्नेहपीतस्य दन्तिनः ।
यत्नेऽवस्थाप्य कुर्याच्च तस्य गात्रोपवेष्टनम् ॥
ततस्तं पलिहस्तस्य मध्ये यत्नेन वेष्टयेत् ।
यथायोगं ततः कुर्यात्तेन यन्त्रेण वारणम् ॥
सर्पिस्तैलं वसां चैव तं द्विपं प्रति पाययेत् ।

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥
    १ क. मिथ्योयोगादयं हि सः । त° । २ ख. अमक्तं । ३ क. न चात्रपेत् ।
    ४ ख. इदं ।

७३ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४७
स्निग्धं विर(रि)क्तं विज्ञाय बृंहणीगैरुपचरेत् ॥
सहसा वाऽपि पतनाद्ध्यावनात्प्रतिहस्तिनाम् ।
यदा संभिद्यते गात्रं भिद्यते मभ्वेतिपि (?) ।
वामाङ्कू(?)मोंटना ॰॰॰॰ ॰॰॰॰ व्याधिर्नराधिप ॥
वेदना श्वयथुः स्तम्भो गात्रे तीव्रा च वेदना ।
तस्य वक्ष्याम्यशेषेण निखिलं भेषजं विधिम् ॥
भग्नमात्रस्य यत्प्रोक्तं साधनं भक्तसंविधौ ।
तत्कार्यं मोटनस्यापि व्रणवच्च समाचरेत् ॥
अथ वोन्मथितं गात्रमपरा वाऽपि लक्ष्यते ।
तस्योत्पत्तिर्निदानं च चिकित्सा च प्रवक्ष्यते ॥
सहसा वा प्रैसक्तौ वा यदा वाँह्येत वारणः ।
गात्रापरं भ्रामयति सहसा विषमस्थितः ॥
कर्दमे वालुकायां वा संरब्धो वा न सीदति ।
तरतो वा प्रसङ्गेन सलिलेऽत्यर्थयोगतः ॥
अथवा गुरुसंरब्धः सहसा परिधावति ।
वृक्षप्राकारपरिधान्सहसा वा प्रमर्द्दतः ॥
ततोऽस्य कुपितो वायू रक्तमादाय तिष्ठति ।
करोति गतिवैकल्यं चरणस्तम्भमेव च ॥
श्वयथुं तस्य गात्रेषु मनस्तापं च दन्तिनः ।
इत्येतद्द्विविधं प्रोक्तं लिङ्गमुन्मथितस्य च ॥
सर्पिषा सेचनं तस्य सततं कारयेद्भिषक् ।
प्रलेपं शीतलं तस्य क्षीरवृक्षैः समाचरेत् ॥
वेतसस्य च मूलानि वटस्याथ नलस्य च ।
कसेरुकं समञ्जिष्ठं नलदं तर्पणं तथा ॥
श्लक्ष्णपिष्टैः समैरेभिः प्रलेपं तस्य कारयेत् ।
त्रिरात्रं पञ्चरात्रं वा ततः संपद्यते सुखी ॥
—:०:—
१ क. °वत्यिपि । २ क. °टनां व्याधियदा वाऽपि नरा° । ३ क. प्रसक्तो ।
४ क. वाहेत । ५ क. °रिवान्स° ।