सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 362, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 362

७२ गात्ररोगभेदाध्यायः ]' हस्त्यायुर्वेदः ।' ३४३
प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽशु जायते ।
कुल्माषतिलकिण्वानि क्षीरेण सह ^२पेषयेत् ॥
कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः ।
पाचयेद्धृतसंसृष्टं चक्रतैलं मतङ्गजः ॥
हस्तेन तस्य गात्राणां मर्द्दनं चापि कारयेत् ।
क्रमव्यायामवृद्धिं च विनतस्य चिकित्सितम् ॥

आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च ।
यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति ॥
मिथ्या च सहसा चैव यो गजः परिणीयते ।
ततस्तस्य भवेद्गात्रं भ्रमणात्सरुजं भृशम् ॥
स गच्छति समुत्प्लुत्य गात्रमुद्ध्राम्य वा नृप ।
सहसा जायते चास्य श्वयथुर्गात्रसंधिषु ।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् ।
सुखोष्णेन भवेच्चास्य निवृत्तिस्तस्य कर्मणाम् ॥
तर्कार्या उरुबूकाणां शिग्रो रक्तस्य कारयेत् ।
कण्टकारिकयोश्चैव कपित्थस्य तथैव च ॥
पत्रभङ्गान्समादाय निष्काथ्य पञ्चमूलयोः ।
नाडीस्वेदं यथाप्रोक्तं सस्नेहं चैव मर्दनम् ॥
यवचूर्णं च किण्वं च तथा कृष्णां च मृत्तिकाम् ।
अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत् ॥
तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत् ।
तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत् ॥
मूत्रं वेणिकया चास्य गात्रयोर्वेष्ट्य बन्धयेत् ।
विसृष्टे च ततः कार्यं सेचनं मर्दनानि च ॥

(*गात्रं यस्य भवेच्छूनमपरा वाऽपि दन्तिनः ॥
तस्य लिङ्गानि वक्ष्यामि चिकित्सां च पथाक्रमम् ॥
बलाबलमविज्ञाय सहसा यः प्रमुह्यति ॥ )

  • धनुश्चिह्नान्तर्गतो नास्तिपाठः कपुस्तके ।

१ ख. °ल्माल्ति° । २ ख. पीषयेत् ।