सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 363, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 363

प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥
तत्र कोपाच्च शुष्यन्ति सिरा गात्रसमाश्रिताः ॥
ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते ॥
न च स्थाने न शय्यायां वारणो लभते सुखम् ॥
सुखोष्णेनाथ तैलेन सेचनं तस्य कारयेत् ॥
नाडीस्वेदं यथाप्रोक्तं सुस्विन्नस्यापि मर्दनम् ॥
जलयुक्तमथो तैलं पानार्थं तस्य युज्यते ॥
शिग्रुं वंशपलाशं च निम्बस्य कुटजस्य च ॥
हस्तिकर्णपलाशानि किणिहीं चैव पाययेत् ॥
नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम् ॥
त्वग्भिश्चापि तथा कार्यः प्रलेपो घृतसंयुतः ॥
प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः ॥
जायते स यदा भूयः स गजो नैव कार्यते ॥
तूर्णमध्वप्रयोगं वा लङ्घनप्लवनानि च ॥
✝आयुर्वैध्या मत्तकासी गोमूत्रं मण्डलानि च ॥
वंशोत्थापनकल्पं च तोपाचाहरणानि च ॥

त(य)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥
संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥
प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि ॥
कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम् ॥
सेचयेत्तस्य गात्राणि तैलेन वसया तथा ॥
कारयेत सुखोष्णेन सप्तरात्रमतन्द्रितः ॥
आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ ॥
कर्णिकारोत्तरूं ✝.... .... .... .... .... ॥
.... .... .... .... ✝सं स्थाल्यामाधाय पाचयेत् ॥
✝ आकारः खपुस्तके त्रुटितः । ✝ संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भग्नग्रन्थस्याऽऽ-
दिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति ।
१ क. ख. किणिह्वां । २ क. यथा । ३ क. प्रोक्तः । ४ क. मत्तकासं ।
५ क. गोमूलं ।