सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 364, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 364

७वाँ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४५
नाडीस्वेदं ततः कुर्यात्तथाऽथ च विमर्दनम् ॥
तिलसर्षपचूर्णेन लेपनं तस्य कारयेत् ॥
अजावराहवसया सह तैलेन घृतेन च ॥
वेसवारकृतं मांसं *दद्यात्सद्यः सुदाहृतम् ॥
न संहरति गात्राणि न च वेल्लपति द्विपः ॥
प्रलेपं तस्य गात्राणां बहलेन समाचरेत् ॥
अथैनं पाययेत्पानं यथायोगं भिषग्वरः ॥
ततो विरिक्तं विज्ञाय बृंहणीयैरुपाचरेत् ॥
संजातमांसं मातङ्गं क्रमात्कर्माणि कारयेत् ॥
स्रन्ने गात्रेऽपरां वा कुर्यात्क्रमचिकित्सितम् ॥
अथ त(य)स्य भवेन्म्लानं गात्रं वा यदिवा परम् ।
तस्योत्पत्तिं प्रवक्ष्यामि सनिदानं चिकित्सितम् ॥
संग्रामे वा प्रहारैस्तु शस्त्रकर्मणि वा तथा ॥
शिरा रक्तवहा भिन्ना बहु मुञ्चति शोणितम् ॥
ततः कुप्यति गात्रेषु पवनः शोणितक्षयात् ॥
स शोषयति गात्राणि सङ्गं चास्य नियच्छति ॥
तस्य कुर्यादिदं कल्पं निखिलं गात्रशोषिणाम् ॥
सेचयेत्तस्य गात्राणि सर्पिषोष्णेन दन्तिनः ॥
निचुलं फलकल्कं च जलजम्बूस्तथैव च ॥
सघृतं पयसा मिश्रं प्रलेपं तस्य कारयेत् ॥
विधिना च यथोक्तेन स्वेदनं तस्य हस्तिनः ॥
अस्थिस्वेदं च निखिलं फालस्वेदं च कारयेत् ॥
मांसनिर्यूहपक्वं च तैलं चास्मै प्रदापयेत् ॥
सर्पिः क्षीरं वसां चैव विधिना संप्रदापयेत् ॥
म्लानं संवत्सरोत्सृष्टं व्यावेधश्च न सिध्यति ॥
इत्यब्रवीत्पालकाप्यो †म्लानं गात्रं चिकित्सितम् ॥
यस्तु निर्वेष्टितं कुर्यादावेष्टितमथापि वा ॥

  • 'दद्यात्सद्यस्तदाऽऽहृतम्' इति भवेत् । † 'म्लानगात्रचिकित्सितम्' इति भवेत् ॥
    १ क. मुदाऽऽहृतम् । २ क. ॰शोणितम् । ३ क. निचेष्टितं ।
    ४४