सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 358, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 358

यतो निमित्तं मातङ्गाश्चरणस्तम्भमृच्छति ।
विषमस्थानशयनादजीर्ण्यव्यसनादपि ॥
गुरुबन्धप्रयोगाद्वा लङ्घनप्लवनादपि ।
स्तब्धो भवति गात्रेषु ततस्तिष्ठति वारणः ॥
गात्रेणापरया वाऽपि तेनातीव च दुर्मनाः ।
तिष्ठत्यालानमाश्रित्य न च पादेन तिष्ठति ॥
इति स्तब्धं समुद्दिष्टं चिकित्सा तस्य वक्ष्यते ।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् ॥
ततः कुर्यादिमं सम्यग्विधिं शास्त्रविनिश्चितम् ।
तस्यायोगुडतप्तेन जलेन परिषेचनम् ॥
कम्बलावृतगात्रस्य कारयेत्सततं भिषक् ।
अथवा शिग्रुवेणूनामुरुबूकार्कयोरपि ॥
वासन्त्याः शीतकल्पस्य तर्कार्याः सुरसस्य च ।
भङ्गानादाय विधिवत्स्थाल्यामाधाय पाचयेत् ॥
अथास्याः कारयेन्नाडीं यथा संप्रति सिद्धये ।
मध्ये वितस्तिविस्तीर्णा मूले चारत्निर्मिता ॥
मुखे षडङ्गुला कार्या नाडी तस्या महीपते ।
.... .... ....१नाहतसंस्थानवृत्ता गोपुच्छसंस्थिता ॥
तथा स्वभ्यक्तगात्रस्य निवातस्थस्य दन्तिनः ।
हस्तैश्चापि भवेत्कार्यं सर्वतः परिमर्दनम् ।
कुटजस्याग्निमन्थस्य मेषशृङ्गीकपित्थयोः ॥
वरुणभूधककस्य पत्रण्यारग्वधस्य च ।
आनु(ढ)र्कीं सप्तपर्णं च तथा सैरेयकावुभौ ॥
स्थाल्यामाधाय कर्तव्यो नाडीश्वे(स्वे)दः पुनः पुनः ।
श्वि(स्वि)न्नस्य च भवेत्कार्यं मर्दनं लघुडाधवनैः (?) ॥
अयमन्यो विधिः कार्यो राजन्मार्दवकारणम् ।
महिषस्य वराहस्य मार्जाराणां गवामपि ॥
खरोष्ट्राणां च मांसाानि ग्राह्याण्यस्थीनि चाप्यथ ।
छेदयित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत् ॥
१ ख. ०णील्पस्य० ।