हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 357, कुल 742 में से
संदर्भ में पढ़ेंष्णेन संकरेण गात्राणि प्रस्वेदयेत् । ततोऽस्य गात्राणां मार्दवमुपजायते ।
व्याधिश्च नश्यति । प्लवका दशवारेण घृतेन भोजयित्वा) रसमधुपानं दद्यात् ।
एतदेव तु दानस्रुतवयःक्षीणनिर्यातम्रणशोषिणां गात्ररोमावित्रस्तानां मोदय(?)
मेतेनैव सर्वे शाम्यन्ति । बलवीर्याणि •••• ••••वतिप्रमुच्यते ॥
तत्र श्लोकः—
इत्यागन्तोः क्रियाः प्रोक्ता मया पार्थिवसत्तम ।
गात्ररोगस्य नागानां यथावदनुपूर्वशः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने, आगन्तु-
गात्ररोगो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥
अथ द्वासप्ततितमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
गात्ररोगाः कतिविधा दन्तिनां संप्रकीर्तिताः ॥
विज्ञानं च कथं तेषां किंच तेषां चिकित्सितम् ।
तन्मे त्वं पृच्छतो ब्रूहि गात्ररोगान्पृथग्विधान् ।
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
रूपतः षोडशविधा गात्ररोगा हि दन्तिनाम् ।
स्तब्धं *निपातं †निपिष्ठं ‡विहितमाहतं तथा ॥
शूनं संकुचितं भग्नं *ग्लानमावेक्षितं च यत् ।
निर्वेष्टितं च विज्ञेयं मोटितं मथितं तथा ॥
*एकाङ्गशाफेमपृष्टच्छिद्रं *विच्युतमेव च ।
इति षोडश संस्थाना दन्तिनां गात्रसंश्रयाः ॥
व्याधयस्ते समुद्दिष्टाः शृणु विस्तरलक्षणम् ।
तत्राऽऽदौ स्तब्धगात्रस्य लक्षणं संप्रवक्ष्यते ॥
- ‘निघातम्’ इति पाठो भवेत्, अग्रे ‘संनिहन्यते’ इति वक्ष्यमाणत्वात् ।
† ‘निपिष्टं’ इति त्वग्रिमग्रन्थानुरोधात् । ‡ ‘विनतम्’ इति युक्तम् ‘विनतस्य चिकि-
त्सितम्’ इत्यग्रिमग्रन्थानुरोधात् । * ‘म्लानम्’ इति त्वग्रिमग्रन्थानुरोधात् । + ‘आवे-
ष्टितम्’ इति त्वग्रे वक्ष्यते । * ‘एकाङ्गशोष’ इति त्वग्रिमग्रन्थानुरोधात् । § अपृष्टच्छि-
द्रस्य निदानलक्षणानि त्वग्रे नोपलभ्यन्ते पुस्तकद्वये । * भ्रष्टशब्देनाग्रे वक्ष्यते ।
१ क. °हितं मोहितं । २ क. °क्षितं तथा ॥ नि° । ख. °क्षिते च ।