सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

२९४ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगस्थाने-
कथं तेषां प्रतीकारः कर्तव्यो भगवन्वदा ॥
ततः प्रोवाच भगवान्प्रश्रमाङ्गनिवेदितम् ॥ ४ ॥
पालकाप्यो महाबुद्धिः पृच्छन्तं च नृपोत्तमम् ॥
रसशोणितमांसानां मेदोमज्जास्थिरेतसाम् ॥ ५ ॥
गुणान्सम्यक्प्रवृत्तानां दोषाणां चैव पार्थिव ॥
पुष्टिः सम्यक्प्रवृत्तेषु बलतो मांसतोऽपि च ॥ ६ ॥
एतेषां च वि† .... .... .... .... .... .... .... ॥
तेषां शृणु पृथक्त्वेन लक्षणं ब्रुवतो मम ॥ ७ ॥
तत्र क्षीणश्च विज्ञेयो दुर्बलश्चापि वारणः ॥
चतुष्प्रकारं दौर्बल्यं क्षयश्च दशधा नृप ॥ ८ ॥
दुर्बलः (‡क्षीणधातुत्वा)द्दोषधातुक्षयात्क्षयी ॥
तत्र तावत्प्रवक्ष्यामि दौर्बल्यस्याऽऽगमं नृप ॥ ९ ॥
वयःक्षयाद्व्याधिना वा प्रकृत्या चौषधैस्तथा ॥
पृथक्त्वेनेव वक्ष्यामि एतेषां वाऽपि लक्षणम् ॥ १० ॥
वयसो विक्रमान्भागो धातुदोषगुणक्षयः ॥
वातश्लेष्मोपसर्गेण दुर्बलः संप्रकीर्तितः ॥ ११ ॥
( †व्याधिना वक्ष्यते त्वन्यद्दौर्बल्यं वारणे नृप ॥
दीर्घकालं भवेत्कष्टो व्याधिना यो मतङ्गजः ॥ १२ ॥
असम्यक्प्रधनाद्वाऽपि दुर्बलो वारणो नृप ॥
वक्ष्यते तूपधानेन दौर्बल्यं वारणो नृप) ॥ १३ ॥
उपधानेऽतिमात्रेण पिण्डेन कवलेन च ॥
व्यत्यासेनापि दत्तेन क्लिष्टो यदि मतङ्गजः ॥ १४ ॥
सोऽपि दौर्बल्यमाप्नोति वारणः पृथिवीपते ॥
यः प्रकृत्या भवेद्राजन्दुर्वलश्चापि वक्ष्यते ॥ १५ ॥
दुर्बलायास्तु संजातो दुर्बलादेव धारणात् ॥
स क्लिष्टो देवशयने भवेत्प्रकृतिदुर्बलः ॥ १६ ॥


† आदर्शद्वयेऽपीतः परं ‘षासान्समुपलाह्ये’ इत्येवोपलभ्यते । ‡धनु० खपुस्तके
त्रुटितः । † धनुराकारमध्यस्थपाठो नास्ति कपुस्तके ।
१ क. ०याश्च सं० ।

१०४थाध्यायः ] हस्त्यायुर्वेदः । २९५
इति (*प्रकृति)दौर्बल्यं हेतुभिः सह कीर्तितम् ॥
अतः परं प्रवक्ष्यामि धातूनां हेतु•••• •••• •••• ॥ १७ ॥
••••करेण्वनियोगाद्वा वधबन्धाच्च दारुणात् ॥
अध्वनोऽतिमयोगाद्वा गमनाच्छोणितस्य वा ॥ १८ ॥
रौक्ष्यादुष्णाभिघाताद्वा विरोधाद्भोजनस्य वा ॥
मनस्तापैस्तु विविधैरनेकैरपि वारणैः ॥ १९ ॥
कलुषोदकपानाद्वा अनिष्टेन तृणेन वा ॥
भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा ॥ २० ॥
इमानि चापि लिङ्गानि दृश्यन्ते क्षीणधातुषु ॥
तृष्णालुर्वरसास्यश्च से हि शून्यः सवेदनः ॥ २१ ॥
मन्दाग्निर्दुर्बलश्चैव वारणो रससंक्षयात् ॥
हृदयं यस्य••••सदोम्ल•••• •••••व यो भवेत् ॥ २२ ॥
शीताभिलाषी पुरुषस्तृष्णालुश्चैव यो भवेत् ॥
अत्यर्थं पीतवर्णश्च प्रस्तब्धः परुषच्छविः ॥ २३ ॥
रक्तक्षीणश्च विज्ञेयो लिङ्गैरेतैर्मतङ्गजः ॥
कम्पते च शरीरेण विवृतश्वासिसंधिषु ॥ २४ ॥
अपराभ्यां व्रजेच्चापि कर्षन्निव महीतलम् ॥
वं•••• ••••••••कासनाङ्गेषु च्छिद्रस्रस्ताङ्ग एव च ॥ २५ ॥
•••• •••• •••• •••• ••••शनैर्गच्छति धावति ॥
•••• •••• •••• •••• ••••प्रस्तब्धनयनो द्विपः ॥ २६ ॥
स क्षीणमांसो विज्ञेयः प्रव्यक्तकटपार्श्वकः ॥
जघनं म्लायते यस्य दुर्बलश्चैव यो भवेत् ॥ २७ ॥
न च वेदयते स्पर्शं स्रस्तगात्रस्तथैव च ॥
अनवस्थितचित्तैश्च तथा स्निग्धप्रियैस्तु यः ॥ २८ ॥
वितविल (?) भिन्नतनुर्निर्योणैर्विवृतोऽपि च ॥
स क्षीणमेदो विज्ञेयो गजशास्त्रविशारदैः ॥ २९ ॥
दन्तरोमनखास्थीनि वृद्धिर्देहे न जायते ॥
दन्ताश्च परिहार्यन्ते सगदा यस्य दन्तिनः ॥ ३० ॥


* धनुराकारमध्यस्थस्य खपुस्तकेऽभावः ॥


१ क. ॰धा••••भोजनात् ॥ म॰ । २ क. सदि स्तन्यः । ३ क. वर्णमुक्ताङ्ग
एवाङ्गे॰ । ४ क. ख. ॰त्तस्य त॰ । ५ क. ख. ॰यस्त्वयः ।

२९६ पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने-
निषीदति न शक्नोति तथोत्थातुं च वारणः ॥
शोचमानः शनैर्गच्छेन्मन्दं च परिवीजति ॥ ३१ ॥
मन्दं भोजनमश्नाति तथैवास्य न जीवति ॥
भ्रष्टग्रीवस्त्वनि•••• •••• ••••ध्यानशीलश्च वारणः ॥ ३२ ॥
अस्थिक्षीणस्य नागस्य लिङ्गमेतत्प्रकीर्तितम् ॥
मज्जोपा अपि नागानां वक्ष्यते लक्षणं क्षये ॥ ३३ ॥
आध्मातकुक्षिर्योऽत्यर्थं व्रजन्गात्राणि कर्षति ॥
शूयन्ते यस्य गात्राणि नेत्राणि च विशेषतः ॥ ३४ ॥
आलानवाही विमनाः शय्याकामो जलप्रियः ॥
शुषिराणि विवर्णानि यस्य चास्थीनि दन्तिनः ॥ ३५ ॥
अभीक्ष्णं वातरोगो यस्तस्य मज्जक्षयो भवेत् ॥
शुक्रहीनस्य नागस्य लक्षणं संप्रवक्ष्यते ॥ ३६ ॥
पीड्यते वृषणं म्लानं शूपते चाऽऽशु मेहनम् ॥
न च व्यवायं प्राप्नोति चिरोत्सेकस्य जायते ॥ ३७ ॥
गात्राणि चास्य सीदन्ति मुखशोषी भवेद्भृशम् ॥
अप्रहर्षश्च मेण्ढ्रस्य रेतसः संक्षयो भवेत् ॥ ३८ ॥
धातूनामिति निर्दिष्टं लक्षणं संक्षये मया ॥
दोषाणां संक्षये तस्य लक्षणं संप्रवक्ष्यते ॥ ३९ ॥
कफसंक्षणिपितस्ये लिङ्गमेतत्प्रकीर्तितम् ॥
मारुतः पित्तसहितः कफहीनस्य दन्तिनः ॥ ४० ॥
करोत्यङ्गविमर्दं च बाढमुद्वेष्टनं भ्रमम् ॥
वेपनं परिवेषं च नौदनं स्फोटनं तथा ॥ ४१ ॥
दूयनं शीतसेवित्वं पुनश्चोष्णाभिनन्दनम् ॥
शिरःप्रकम्पनं चापि संघयः शिथिला वृता ॥ ४२ ॥
हृदि पीडा च भवति श्लेष्मक्षीणस्य दन्तिनः ॥
कफपित्ते बहुपित्ते क्षीणे नागस्य मारुते ॥ ४३ ॥
शीताभिलाषो भवति पुनरुष्णाभिनन्दनम् ॥
सादनं मुखशोषश्च शिरसो गौरवं तथा ॥ ४४ ॥


१ क. ख. ॰रिजीवति । २ क. ॰जानामपि । ३ क. आलीनो । ४ क. संप्र-
चक्षते । ५ क. ख. कफः सं° । ६ ख. ॰स्य नागस्य लि° । ७ क. मोदनं ।

१० क्षयाध्यायः ] हस्त्यायुर्वेदः । २९७
सशब्दा मरुतश्चास्य कुक्षौ विपरिवर्तनम् ॥
छर्दिश्वाङ्गे व च बे(?)…………हनं मोहनं तथा ॥ ४५ ॥
अल्पहर्षोऽल्पचेष्टश्च वातक्षी णो भवेद्गजः ॥
दोषाणामपि निर्दिष्टं क्षयलिङ्गं नराधिप ॥ ४६ ॥
संज्ञा प्रणश्यते राजन्कस्माद्धेतोश्च दन्तिनः ॥
धातुक्षये महीपाल यदा वायुः प्रकुप्यति ॥ ४७ ॥
वैकल्यं प्रणयेन्नागं प्राणैर्वाऽपि वियोजयेत् ॥
राज्ञश्चन्द्रमसो यस्मादभूदेष किलाऽऽमयः ॥ ४८ ॥
तस्मात्तं राजयक्ष्मेति प्राहुर्वेदविदो जनाः ॥
शोषणात्तु रसादीनां शोष इत्यभिधीयते ॥ ४९ ॥
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते यतः ॥
यस्माद्दक्षस्य वचनादुत्पन्नो दारुणः क्षयः ॥ ५० ॥
तस्मात्क्षीणगजा राजन् रक्षितव्या विशेषतः ॥
राजेति सोमो भगवान्व्यधायि व्यर्थवादिभिः ॥ ५१ ॥
स दक्षेण पुरा शम्भो दुराचारो निरास्तिकः ॥
भार्यां सम्यक्प्रवृत्तस्तु रोहिणीं तद्वशे स्थितः ॥ ५२ ॥
सेवमानस्ततः शप्तो राजा दक्षेण धीमता ॥
अहन्यहनि ते*………………… ॥ ५३ ॥
……………………………………… ॥
स्थानं यथर्तु कर्तव्यं मृदुशय्यां च नित्यशः ॥
व्याघातं मनसश्चास्य कदाचिन्नैव कारयेत् ॥ ५४ ॥
अवग्राहप्रचारेषु कूलाघातेषु चैव हि ॥
शब्दयेत्सततं नागं कर्दमस्य च सेवने ॥ ५५ ॥
शय्याभागे ततः स्थाने वीथीनां गमनेषु च ॥
विसर्गं कारयेत्तस्य न च हन्यादकारणम् ॥ ५६ ॥
न वाचं कटुकां ब्रूयात्सान्त्वयेच्च पुनः पुनः ॥
निर्याणे शयने चैव भोजने च न दूषयेत् ॥ ५७ ॥
भोजयेत सदा नागं चित्रैश्च मधुरैः फलैः ॥
श्रीपर्णी च मधूकानि यष्टीमधुकमेव च ॥ ५८ ॥

  • इतः परं कपुस्तके तु द्वित्राक्षरलेखनावकाशस्त्यक्तः । खपुस्तके तु चतुर्द-
    शपङ्क्तिस्थानमलिखितमेव रक्षितमस्ति ।
    ३८

२९६ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
शृङ्गवेरं पयस्यां च बिल्वं द्वे कण्टकारिके ॥
पृश्निपर्णींशुमत्यौ च तथा गन्धर्वहस्तकम् ॥ ५९ ॥
क्वाथयेत्सलिले सर्वं निष्क्वाथं कारयेत्ततः ॥
निष्क्वाथसमभागं च क्षीरं तत्र प्रदापयेत् ॥ ६० ॥
एकस्थं कारयित्वा तु शीतलं पाययेद्द्विपम् ॥
प्रातस्तथाऽपराह्नेषु शालीनामोदनं मृदुम् ॥ ६१ ॥
रसैस्तैस्तैस्तु पूर्वोक्तैर्दाडिमाम्लैश्च भोजयेत् ॥
इक्षून्वृक्षसमूलानि शृङ्गाटककसेरुकान् ॥ ६२ ॥
खर्जूरं मस्तकं चैव दापये(※त्पायसे)र्युतम् ॥
उदकानि विचित्राणि यवसानि मृदूनि च ॥ ६३ ॥
फाणितेनैव संयोज्य वारणाय प्रदापयेत् ॥
संजातप्राणमांसस्तु यदा भवति वारणः ॥ ६४ ॥
क्षीरं मधुरकैः पक्वं ससर्पिष्कं प्रदापयेत् ॥
चक्रवाकैर्बकैर्हंसै राटिभिः प्लवमद्गुभिः ॥ ६५ ॥
कदम्बैर्बर्हिणैश्चापि तित्तिरेस्तु कपिञ्जलैः ॥
श्वाविच्छल्यकगोधाभिः शूकरैर्महिषैस्तथा ॥ ६६ ॥
अजाविकुकुटैश्चैव तथैवेणादिभिर्मृगैः ॥
भोजनार्थं रसं चास्य वेसवारं च कारयेत् ॥ ६७ ॥
ततः शाल्योदनं तेन भोजयेत्सततं गजम् ॥
स्नेहां च माषपर्णी च पयसा सह पाययेत् ॥ ६९ ॥
एतत्सुरया युक्तं च घृतेन सह पाचितम् ॥
प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वर्धते ॥ ६९ ॥
शकृत्फाणितसंयुक्तं क्षीरेण सह पाचितम् ॥
दापयेद्भोजनं तेन बलशुक्रविवर्धनम् ॥ ७० ॥
करीरं शलिपादं च तथैव च विभक्तिकम् ॥
श्यामाकंकुरुविन्दं च हस्तिश्यामाकमेव च ॥ ७१ ॥
महाहस्तितृणं चैव प्रमोदो वेणुपत्रिका ॥
गवेधुकं मृणालानि लवलीकं बिशानि च ॥ ७२ ॥
* धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥
१ ख. ०जूरमस्त० । २ क. क्षारं । ३ क. मदां । ख. सदां । ४ क. वैणप-
त्रिका । ख. वेणुपत्रिकाम् ।

दापयेत्सततं नागे पयसानि विचक्षणः ॥
मधुफाणितसंयुक्तं तीक्ष्णगण्डानि दापयेत् ॥ ७३ ॥
धेनुकोनिःसृतं नागं गात्ररोगेण चाऽऽतुरम् ॥
वयःक्षीणकृशं चैव मदवेगाच्च निःसृतम् ॥ ७४ ॥
धातुक्षीणश्च यो नागो व्रणदोषेण वाऽन्वितः ॥
प्रभग्नस्त्वध्वगमने यश्च क्षीणबलो गजः ॥ ७५ ॥
येषां चौऽऽगन्तुजा राजन्रोगाः समुद्भवन्ति हि ॥
तेषामाहारयोगेन सर्वनेतान्प्रसाधयेत् ॥ ७६ ॥
सास्रयान्नित्य मतिमान्यथाऽग्निः सततोत्थितः ॥
माषाणां कूलनिद्रोणं तण्डुलद्रोणमेव च ॥ ७७ ॥
प्रतिपानं च देयं स्यात्सपञ्चलवणां सुराम् ॥
विडङ्गैश्च समायुक्तां तथा त्रिकटुकेन च ॥ ७८ ॥
मोदकास्त्वपि ये देयाः शृणु तेषां विधिं रुताम् ॥
दद्यात्सैवाक्षकं द्रोणमाढकं बिल्वमेव च ॥ ७९ ॥
उदूखले क्षोदयित्वा पञ्चाहं सुरया स्थितम् ॥
देयस्तैलेन संयुक्तः श्लेष्मकृमिविनाशनम् ॥ ८० ॥
अष्टकं तण्डुलानां च माषद्रोणयुतं स्थितम् ॥
किण्वस्य वाऽऽढके स्थाप्यं सर्वमेतत्समुंयुतम् ॥ ८१ ॥
चतुर्थेऽहनि दातव्यो मोदकः किण्वसंज्ञितः ॥
ग्रहणीदीपको ह्येष स्थूलानां कर्षणो हितः ॥ ८२ ॥
देयस्तैलेन संयुक्त्तो मोदकोक्षकसंयुतः ॥
प्रवेयः सारदानां च सूक्ष्मवातार्दितास्तु ये ॥ ८३ ॥
करीषाणां प्रयोगं तु शृणु कीर्तयतो मम ॥
गवां कटुक(※मूखीक)मुष्णवीर्यमजाशकृत् ॥ ८४ ॥
ग्रहणीं दीपयत्याशु श्लेष्मकृमिविनाशनम् ॥
लवणेन समायुक्तं वातप्रशमनं हितम् ॥ ८५ ॥
ये च क्षीणबला नागा ये चैव दुर्बलाग्नयः ॥
त्वग्दोषैरभिभूताश्च पाण्डुरोगा॑र्दिताश्च ये ॥ ८६ ॥

※ धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके ।
१ क. ०कामिः शृतं । २ क. ०भग्नेष्वध्व० । ३ क. चाङ्गे रुजा । ४ क.
५ ख. कर्षणे । ६ ख. ०ताश्रये । ७ क. ०ग्दोषैरै० ।

३०० पालकाप्यमुनिविरचितो— [ ९ क्षुद्ररोगस्थाने ]
विषोपयुक्तदेहाश्च हृद्रोगा गुल्मिनश्च ये ॥
एवंप्रकारा ये चान्ये तेषां पेथ्यवरं स्मृतम् ॥ ८७ ॥
अजाकरीषस्यैवेते गुणाः सम्यक्प्रकीर्तिताः ॥
वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान् ॥ ८८ ॥
कटुकं चोष्णवीर्यं च रूक्षमूष्णाम्लपाचिकम् ॥
वातानुलोमनं चैव तथा पित्तप्रकोपनम् ॥ ८९ ॥
क्षारतुल्यतरं ज्ञेयं लवणोदकशोधनम् ॥
गुणान्कीर्तयतश्चापि मूत्राणामपि मे शृणु ॥ ९० ॥
एतेषामेव मूत्राणि सर्वाण्येव च बुद्धिमान् ॥
उष्णवीर्याणि जानीयात्कटुकानि विशेषतः ॥ ९१ ॥
निरूहेषु प्रशंसन्ति कृमिकोष्ठे च दन्तिनाम् ॥
त्वग्दोषेषु प्रशस्यापि पानोष्श्वेतेषु (?) भूपते ॥ ९२ ॥
आस्फोता वैजयन्ती च स्फूर्जको निम्ब एव च ॥
अङ्कोल्लसहिता ह्येते भङ्गा वै साटरूषकाः ॥ ९३ ॥
आसवेषु प्रशस्यन्ते शृणु चान्येऽपि ये हिताः ॥
कुटजो मधुशिग्रुश्च पूतिका दीर्घवृन्तका ॥ ९४ ॥
सप्तपर्णश्च निम्बश्च षडेते प्रत्तिकीर्तिताः ॥
यथालाभं यथासात्म्यं यथाकालं च बुद्धिमान् ॥ ९५ ॥
एषामन्यतमं योगमासवेष्वथ दापयेत् ॥
त्वग्दोषशमना ह्येते कृमिकोष्ठप्रणाशनाः ॥ ९६ ॥
अत्रैव हि प्रशंसन्ति ये च— स्युर्बलाग्रयः ॥
सरक्तानां तु दातव्याः स्निग्धानां चैव दन्तिनाम् ॥ ९७ ॥
रूक्षाणां न प्रदातव्या ये च पित्तविकारिणः ॥
²त्रिंशत्पलस्तु (प्रथमो मध्यमः पञ्चविंशकः ॥ ९८ ॥
जघन्यो विंशकश्चैव कवलस्तु सदा हितः ॥
ग्रहणीदीपना ह्येते बलवर्णप्रसादनाः ॥ ९९ ॥
सिद्धानौषधयोगांश्च प्रवक्ष्याम्यत उत्तरम् ॥ १०० ॥
स्वयंगुप्ता गुडूची च मुद्गपर्णी हरेणुकम् ॥
विदारी माषपर्णी च काकोलीद्वयमेव च ॥ १०१ ॥
† धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ।
१ क. पुष्पतरं । २ क. त्रिंशतश्चैव ।

शाल्मली पारिभद्रं च वैजयन्ती करञ्जिका ॥
अश्वगन्धासमायुक्तानकवलांत्संप्रदापयेत् ॥ १०२ ॥
ग्रहणीदीपनाऽञ्छेष्ठांछ्छवीवर्णप्रसादन न् ॥
एतान्संभृत्य संभारान्दीपयेत्क्षीणधातुषु ॥ १०३ ॥
एरण्डा वैजयन्ती च आद्रकीमूलमेव च ॥
श्रीपर्णी दधिपर्णी च त्वचमेषामुपाहरेत् ॥ १०४ ॥
अश्वगन्धासमायुक्तानकवलान्संप्रदापयेत् ॥
ग्रहणी दीप्यते चास्य यवसं चाभिनन्दति ॥ १०५ ॥
श्रीपर्णीदधिपर्णीनां त्वचो मूलं नलस्य च ॥
आढक्यास्त्वेव मूलानि दद्याच्चैव करञ्जकम् ॥ १०६ ॥
एतेन वर्धते मांसं सौमनस्योप(स्यं च) जायते ॥
द्वे कण्टकारिके दद्यान्मूलं मधु च शिग्रुजम् ॥ १०७ ॥
दीप्यते ग्रहणी यस्य यवसं चाभिनन्दति ॥
गण्डीरं कन्दकं चैव शिग्रुरपवनांजिका ॥ १०८ ॥
पिप्पलीशृङ्गवेराभ्यां नलिकानालिका पृथक् ॥
घटी विडाख्यलवणं नलिकानालिका भवेत् ॥ १०९ ॥
एतान्संभृत्य) संभारान्क्षोदयित्वा हुदूखले ॥
मर्दितान्गोमयेनास्य कवलान्दापयेद्बुधः ॥ ११० ॥
कृमिकोष्ठी विशुध्येत्तु मृत्तिकां च न खादति ॥
द्वे कण्टकारिके दद्यात्किणिह्या मूलमेव च ॥ १११ ॥
आवर्ता मधुशिग्रोश्च कवलो मांसवर्धनः ॥
योवन्ती मधुमाण्डूकी हरिपिण्डीतकानि च ॥ ११२ ॥
बिल्वं करीरगण्डीरकवलो मांसवर्धनः ॥
दाडिमं चमनीं भद्रामुत्तमां गिरिकर्णिकाम् ॥ ११३ ॥
वेतसामृतवल्ल्यौ च दीपयेत्क्षीणधातुषु ॥
शिरीष—त्वचपलं च मोरटं सिन्दुवारितम् ॥ ११४ ॥
सदाभद्रामपामार्गं कवलांस्तु प्रदापयेत् ॥
कच्छुरा यूथिकामूलमुत्पलं नवमालिकाम् ॥ ११५ ॥


१ ख. °प्रदीप° । २ क. पाचन्तीं । ३ क. °ण्डीरीक° । ४ क. °मारिकम् ।

३०२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
करञ्जशशिमम्वश्च कवलो ह्यग्निवर्धनः ॥
(*शङ्खफी दाडिमं गुञ्जां बलां पाषाणभेदकम् ॥ ११६ ॥
शशविन्दु शेलुं(?)•••• •••• •••• ••••दीर्घवृन्तकम् ॥ ११७ ॥
•••• •••• •••• •••• ••••कं चैव कवलो मांसवर्धनः ॥ )
अरलुत्वचमाहृत्य पूतिकं, बृहतीं तथा ॥ ११८ ॥
अमृतां च पयस्यां च मदक्षीनाय दापयेत् ॥
पूतीकत्वगरलुत्वक्कृमीन्निघ्नन्ति दन्तिनः ॥ ११९ ॥
पयस्या च गुडूची च प्रदेया क्षीणधातुके ॥
कदम्बमेषशृङ्गीणां पुंनागं त्वचमेव च ॥ १२० ॥
भागानैतान्समान्कृत्वा निशि मूत्रेण वासयेत् ॥
पुरीषं गोश्च नागस्य कवलान्संमदापयेत् ॥ १२१ ॥
इत्येते कीर्तिता राजन्कवलाः क्षीणधातुषु ॥
चूर्णारिष्टं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १२२ ॥
शृङ्गवेरं विडं बिल्वं पिप्पली मधुशिग्रु च ॥
एतेषामेव चूर्णानां प्रस्थः प्रस्थः समो भवेत् ॥ १२३ ॥
समुद्रलवणप्रस्थो गोमयप्रस्थयोजितः ॥
† •••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ॥ १२४ ॥
१ •••• •••• •••• •••• •••• ••••सद्यो नागो निरूहति ॥
दधित्थनक्तमालांनां••••••••चोरिष्टकश्च कान् (?) ॥ १२५ ॥
भिल्लोट••••••••मेषीणां •••• ••••विलाडोदरकस्य च ॥
अर्जुनस्य ( च ) निचुलस्य ( च )••••••••वञ्जुलस्य ( च ) ॥
त्वचो मूलं च पत्रं च शिग्रोश्चोदुम्बरस्य च ॥ १२६ ॥
जपासर्जास्रकर्पासीतुवरी.च(श्व) समाहरेत् ॥
एष संवर्तनो वर्गो ह्यतीसारातिवर्तकः ॥ १२७ ॥
विरूक्षणीयान्कवलानतिस्निग्धाय दापयेत् ॥
मूलं शिग्रोस्त्वचं ज•••• ••••पोठल्या स्तथा ॥ १२८ ॥

  • धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । † खपुस्तके 'इतः पङ्क्तित्रयमितं
    त्यक्तमस्ति' इति लिखितमुपलभ्यते ॥
    १ क. स तस्मात्सम्प्रकैव स०। ख. सत••••म्यका चैव स०। २ ख. °डोक०।
    ३ क. पाटस्खास्तथा तथा ।

६० ऽध्यायः ] हस्त्यायुर्वेदः । ३०३
बिल्वाम्रमेषशृङ्गीणां त्वचस्तथाऽर्जुनस्य च ॥
विरूक्षयेद्रजं क्षिप्रं न च दोषमवाप्नुयात् ॥ १२९ ॥
पालाशनक्तमालानां त्वचमिङ्गुदवृक्षयोः ॥
(*त्वच)मर्जुनजम्ब्वोश्चं विडुलारिष्टमेव च ॥ १३० ॥
कुटजत्वग्विषङ्गाणि क्षोदयित्वा ह्युलूखले ॥
कवलो दीपनीयः स्यात्प्रसादयति तं छविम् ॥ १३१ ॥
महौषधं वातशूले त्वञ्जनं दन्तिनां हितम् ॥
पूयः प्रदेयः श्रोत्रेषु..................... ॥ १३२ ॥
वाताध्मातस्य नागस्य बन्धाय कवलो हितैः ॥
अङ्गामु(?)˙˙˙˙˙˙˙˙कं च तर्कारी क्षीरिणी तथा ॥ १३३ ॥
दद्याद्वातहरं त्वेतच्छोभाञ्जनकमेव च ॥
वाताध्माते कुलिङ्गाक्षीं वारणस्य महीपते ॥ १३४ ॥
उरुबूकोऽथ तर्कारी काकोली क्षीरमेव च ॥
भिल्लोटश्च प्रदातव्यो वाताध्मातस्य दन्तिनः ॥ १३५ ॥
अथ क्षॉरं प्रवक्ष्यामि पानकायाग्निदीपनम् ॥
कुम्भीकस्याऽऽढकं दद्यात्पलानां तु स्रुही(हीं) तथा ॥ १३६ ॥
बिल्वार्कनक्तमालानां त्वचं पत्राणि पेषयेत् ॥
अर्कस्य दाहयेन्नालं कौपे तोये विनिस्रुतम् ॥ १३७ ॥
द्रोणं द्रोणे प्रदातव्यं त्रिपक्षस्य नराधिपम् ॥
चूतवृक्षाम्रकुम्भानां त्वचः संयोजिताः समाः ॥ १३८ ॥
फणिज्जकस्य मूलानि तथैवार्ककरञ्जयोः ॥
श्ववेचरेतैश्च(?)˙˙˙˙˙˙˙˙क्षारे कूपोदके कृतः ॥ १३९ ॥
पूर्वमुक्तेन विधिनां क्षारमेवं प्रदापयेत् ॥
कुम्भीकपानसंस्कारः सुमनाभङ्ग एव च ॥ १४० ॥
इत्येते पानयोगाः स्युर्व्यारुपाता द्विपदां वर ॥
चूर्णारिष्टानि वक्ष्यामि गजानामग्निदीपनात् ॥ १४१ ॥

  • खपुस्तके नोपलभ्यते ॥
    १ क. °श्च विंदु° । २ क. °तः॥ तथा अ° । ३ क. वाताध्मातो । ४ क.
    रं । ५ क. कौपतो° । ६ क. शूचेद्यरेतैश्च क्षारः कूपोदके समीकृ° । ७ क. °न्त
    र° । ८ क. °पनम् ॥

द्वे बृहत्यौ करञ्जौ च पारिभद्रकमेव च ॥
हरिद्रे द्वे विडङ्गानि दद्यादिन्द्रयवानपि ॥ १४२ ॥
शतावरीं च शोणं च त्वचो निचुलबिल्वयोः ॥
गोमूत्रे वासयेद्रात्रौ दिवा सूर्ये च शोषयेत् ॥ १४३ ॥
त्रिरात्रमेवं कृत्वा तु सुसूक्ष्मं क्षोदयेत्ततः ॥
त्रिफलां हिङ्गुसंयुक्तां पञ्चभिर्लवणैर्युताम् ॥ १४४ ॥
लवणस्य च योगेन चूर्णारिष्टस्य षट्पलम् ॥
द्वे बृहत्यौ करञ्जौ द्वौ अश्वगन्धा सुवर्चला ॥ १४५ ॥
उभे हरिद्रे पाठी च करीषे गजवाजिनोः ॥ १
एतत्सर्वं समाहृत्य समं कृत्वा सुदूखले ॥ १४६ ॥
नित्यं लवणयोगेन षट्पलं वाऽस्य दापयेत् ॥
द्वौ कालौ दन्तिनां दद्याच्चूर्णयोगमतन्द्रितः ॥ १४७ ॥
मनःप्रसादं जनयेच्चूर्णं च नृपदन्तिनाम् ॥
निम्बस्याथ करञ्जस्य त्वचो वरुणकस्य च ॥ १४८ ॥
मेषशृङ्ग्याश्च पाटल्या विदुलस्य च संहरेत् ॥
क्रिया उग्रास्ततः सर्वाः समभागाः प्रकल्पयेत् ॥ १४९ ॥
उत्तमं त्वै(त्वे)व ताः क्षुण्णा गोमूत्रे वासयेत्त्र्यहम् ॥
मन्दाग्निशमनार्थं च द्विपस्य तु प्रदापयेत् ॥ १५० ॥
एरण्डपूतकिारिष्टैः समांशैः कवलं भिषक् ॥
निवृत्तस्य च पूर्वाह्ने दापयेद्रोगनाशनम् ॥ १५१ ॥
सुवर्चलां गुडूचीं च अपामार्गे.... .... .... .... कम् ॥
वैजयन्तीं च भूनिम्बे तथा वै साटषूपकम् ॥ १५२ ॥
एतान्भुक्त्वा गजः कल्पो रोगात्क्षिप्रं प्रमुच्यते ॥
बलं मांसं च वृद्धिं च प्राप्नोति सुमनाः सदा ॥ १५३ ॥
इत्येवं तु महीपाल विधानं क्षीणधातुषु ॥
य एवं योजयेद्वैद्यः स शोभां जनयिष्यति* ॥ १५४ ॥
(पालकाप्योऽब्रवी)दित्थं राज्ञाऽङ्गेन प्रचोदितः ॥
। श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
षष्ठितमः क्षयाध्यायः ॥ ६० ॥
पुस्तके तु, इतः परं '+' त्रुटिचिह्नं दृश्यते । † धनुश्चिह्नान्तर्गतस्तु पाठो भ्रष्टः खपुस्तकात् ॥
१ क. °जिनौ ॥ ए° । २ क. °र्गद्विभाकरम् । ३ ख. दानं राज्ञा° ।

` (sg)

  • जृम्भते (sg)
  • वेपते (sg)
  • स्तनयत्यपि (sg)
  • अभिनमति (sg)
  • उन्नमत्यपि (sg)
    So the verb is उन्नमत्यपि!
    Then what is before उन्नमत्यपि?
    विनमन् (present participle, masculine singular, nominative: विनमन् = while bending down)!
    विनमन् + उन्नमत्यपि -> in Sanskrit sandhi:
    विनमन् + उन्नमत्यपि = विनमन्नुन्नमत्यपि!
    Wait! But that has 8 syllables only if विनमन् is 3 and उन्नमत्यपि is 5:
    वि-न-मन्-नुन्-न-म-त्य-पि:
    1: वि
    2: न
    3: मन्
    4: नुन्
    5: न
    6: म
    7: त्य
    8: पि
    YES! THAT IS EXACTLY 8 SYLLABLES!
    1: वि (laghu)
    2: न (laghu)
    3: मन् (guru)
    4: नुन् (guru)
    5: न (laghu) <---

३०६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
इति वातात्मकं प्रोक्तं गजानां मदलक्षणम् ॥
पैत्तिकस्यापि नृपते विज्ञानमुपदेक्ष्यते ।
तेजस्वी कोपनश्चैव संतापी च भवेद्द्विपः ॥
प्रायेण शीतलां छायां सलिलं चाभिकाङ्क्षति ।
विजृम्भते नमति च तथ प्रतिनमत्यपि ॥
कपोलौ चाण्डकोशश्च पच्यन्ते च नराधिप ।
पीताभमथ रक्तं वा कटाद्दानं प्रसिच्यते ॥
सुगन्धं चूतपुष्पाणामेलामुस्तसुगन्धिकाम् ।
शोरदे पैत्तिकः काले मंदः क्षरति वारणे ॥
कटुकाम्लान्सलवणान्रसानाति निषेवते ।
इत्येतल्लक्षणं प्रोक्तं पित्तात्प्रकुपिते मदे ॥
प्रकृत्या श्लैष्मिकं राजन्मदं वक्ष्यामि तत्त्वतः ।
बलवाञ्शीलसंपन्नस्तेजस्वी धेनुकामतः ॥
स्वप्रशीलश्च भवति मन्दक्रमविचेष्टितः ।
प्रसेकं कुरुते कामं गम्भीरं वेदयत्यपि ॥
पिष्टोदकप्रतीकाशं(शः) पाण्डुरः क्षरते मदः ।
सगन्धमालापुष्पाणां सिन्दुवारतरोरपि ॥
तथा मुक्तकपुंनागबकुलानां च गन्धतः ।
शीतलं सुरभि हृद्यं हेमन्ते संश्रयेन्मदम् ॥
मधुराम्लानि सर्वाणि लवणानि च सेवयेत् ।
त्वग्दोषाश्चापि जायन्ते मेहत्यपि च सौद्रयम् (?) ॥
इत्येवं श्लैष्मिकं राजंल्लक्षणं समुदाहृतम् ।
शोणितात्संप्रवृद्धे तु मदे वक्ष्यामि लक्षणम् ॥
मध्याह्ने संश्र(?)मासृत्य(?)रक्तनि ॰॰॰ लोचनम् ।
न चैवोद्विजते हस्ती हस्तिन्यै नापि कुप्यति ॥
विमुक्तैरिति सर्वाङ्गैर्रगजः संधिषु कृच्छ्रगः ।
शीतलानि च सर्वाणि च्छायां चैवाभिनन्दति ॥
शय्यायां सुखमाप्नोति (*न चैव कवलं भजेत् ) ।
पाण्डुता सर्वगात्राणां स्निग्धमाहारमिच्छति ॥

  • धनुराकारमध्यस्थो नास्ति पाठः स्वपुस्तके ।
    १ ख. शरदि । २ ख. °ति न सेव°। ३ ख. °ञ्शीतसंपन्नास्ते°। ४ क. °रिव स°।

६१ प्रभिन्नाध्यायः ] हस्त्यायुर्वेदः । ३०७
पुरीषं वमथुर्धानं रक्तमेवोपजायते ।
कटाभ्यां भिद्यते पूर्वं निदाघे चापि माद्यति ॥
पैत्तिकस्य तु लिङ्गानि सर्वाणि कुरुते गजः ।
इत्येतल्लक्षणं प्रोक्तं मदे वै शोणितात्मके ॥
अत ऊर्ध्वं प्रवक्ष्यामि संनिपातात्मकं नृप ।
पूर्वोक्तानां मदानां तु लक्षणं सांनिपातिकम् ॥
क्षुत्पिपासोष्णशीतानां सहिष्णुर्भवति द्विपः ।
दुःस्थानमथ दुःशय्यां सततं सहते गजः ॥
प्रतिनम्याभिनमति विनमत्युन्नमत्यपि ।
नाभिनन्दति चाऽऽहार(†मिश्रं च) स्वादुमेव च ॥
व्यामिश्रमेतं जानीयान्मिश्रगन्धं मदं नृप ।
इत्येतत्संनिपातेन प्रभिन्नस्य तु लक्षणम् ॥
मत्तेन जनितायां तु यस्तु मत्तेन जायते ।
पौर्णमास्यां प्रपद्येत मन्दमन्दगुणैर्युतः ॥
जानीयात्तं तु राजेन्द्र मदं ह्यभिजनाभिधम् ॥
बहुपुष्पसमृद्धानि कोकिलाभिरुतानि च ।
मत्तबर्हिणपुष्टानि वनानि समवेक्ष्य च ॥
हंससारसगीतानि चक्रवाकरुतानि च ।
सतामरसकह्लारसुगन्धिपवनानि च ॥
मनोहराणि रम्याणि पल्लवानि सरांसि च ।
पद्मोत्पलविचित्राणि भ्रमरैः कूजितानि च ॥
क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः ।
एष नागो महाराज हर्षादेव प्रभिद्यते ॥
क्षीणधातुशरीरश्च वयोतीतो मतङ्गजः ।
हीनवीर्यो विमांसोऽपि सर्वाङ्गाशिथिलीकृतः ॥
एतैस्तु लक्षणैर्विद्यान्मदं तं पारिणामिकम् ।
दुःस्थानमथ दुःशय्यां लब्ध्वा लब्ध्वा च मोहनम् ॥
निर्भर्त्सितं वधं बन्धं .... .... ....नितंजनवम् ।
यदा मदं स्रवति तु तं .........विद्यान्निसर्गजम् ॥
† खपुस्तके नास्ति ।
१ क. ख. ॰पासाच्च शी॰ । २ क. ॰णघृष्टा॰ ।

३०८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने ]
उष्णेत्पथो(?)श्चगमनाद्गुरुभारेण वा पुनः ।
कर्मणामतिप्रयोगाद्वा हरतो वा बृहद्द्रुमम् ॥
एतैर्निदानैर्नागस्य शरीरमुपतप्यते ।
ततः प्रसिच्यते दानं दुर्गन्धिवममुं(थुं) नृप ॥
तं तु संतापजं विद्यान्मदं वारणविक्रमम् ।
विविधैस्तु शिरोरोगैर्मूत्ररोगेण वा यदि ॥
शुद्धपाकलहेतुत्वाद्व्याधिना वारणे मदः ।
विविधाभिर्विधाभिर्यः पुष्टो माद्यति वारणः ॥
स मदः पैत्तिको राजन्निर्दिष्टः परिपाटितः ।
प्राणिता विधया नागा न वश्या बलशालिनः ॥
मदस्य जनने सम्यग्भेषजैः संप्रयोजितैः ।
उपधानात्प्रभिद्यन्ते वारणाः पृथिवीपते ॥
शौर्यजोऽपि···· ···· ···· ···· ········ ···· ···· ।
रूपं प्रार्थयमानस्य युध्यमानस्य वा युधि ॥
पश्यन्तस्तस्य सैन्यस्य विजयं दिव्यचक्षुषः ।
मदं गृह्णाति मातङ्गः स हेतुर्विजये क्षणम् ॥
इत्येते बहुधा प्रोक्ता गजानां मदहेतवः ।
कात्स्न्र्येन तु महाराज यथोक्तं ब्रह्मवादिभिः ॥
अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम् ।
वातप्रभिन्नं विज्ञाय चिकित्सां संप्रयोजयेत् ॥
पञ्चभिर्लवणैः सार्धं पाययेत् सुखोदकम् ।
तीक्ष्णांश्च कवलान्दद्याद्दारणाय महीपते ॥
वातिकात्स मदाद्राजन्मुच्यते वै न संशयः ।
दध्यम्लमथ वातानेः (?) क्रमान्मुष्णं च पाययेत् ॥
एतेनापि च योगेन मुच्यते वातिकान्मदात् ।
शुद्धकोष्ठाय दातव्यं जलपानं महीपते ॥
यवसानि विचित्राणि मृदूनि हरितानि च ।
फाणितेनोपदिग्धानि (?) कवलान्संप्रदापयेत् ॥
इति वातप्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
अथ पित्तप्रभिन्नस्य चिकित्सा संप्रवक्ष्यते ॥
१ क. ॰प्रचक्षते ।

१.१ प्रभिन्नाध्यायः ] हस्त्यायुर्वेदः । ३०५
प्रत्यूषकाले मातङ्गं ह्रदे निर्वापयेद्भिषक् ।
शालांयां मण्डलिप्रायां शीतस्थानासितस्य तु ॥
स्त्रावयेद्वारिपूर्णांश्च तस्योपरि नवान्घटान् ।
बिशं मृणालाञ्शालूकमूत्पलं नलिनान्यपि ॥
इक्षुं चेक्षुरसं चैव शृङ्गाटककसेरुकम् ।
दापयेत्कवलांस्तस्मै शर्कराचूर्णसंयुतान् ॥
परूषकाणि मृद्वीका शर्कराफाणितं मधु ।
सारिवा मधुकं चैव समांशं चोत्तरोदकम् ॥
तैतः········ये प्रति ये(?) शीतं कल्पश्रुत्यापयेत्(?) ।
प्रभेदे पैत्तिके तस्य यवसानि प्रदापयेत् ॥
तृणारण्यं पर्पटांन्द्याच्छर्कराघृतसंयुतम् ।
षष्टिकानां पुराणानां शालीनामोदनं मृदु ॥
सर्पिषा भोजयेन्नागमेवं भेदाद्विमुच्यते ।
अम्लंमुष्णं च तीक्ष्णं च लवणं च न दापयेत् ॥
पानानि सर्पिषा श्रेष्ठान्यभ्यङ्गं चैव सर्पिषा ।
नश्यत्यनेन योगेन प्रभेदः पैत्तिको नृप ॥
इति पित्तात्प्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
( *अथ श्लेष्मप्रभिन्नस्य चिकित्सां संप्रयोजयेत् ॥ )
कटुकेन तु तैलेन सर्वसेको विधीयते ।
तीक्ष्णान्कटुकषायान्कवलानस्य दापयेत् ।
अजामूत्रेण संयोज्य श्लैष्मिकस्तेन शाम्यति ॥
द्राक्षाहरिद्रामञ्जिष्ठाः सूक्ष्मचूर्णांश्च कारयेत् ।
अजामूत्रेण संयोज्य पिण्डमस्मै प्रदापयेत् ॥
अनेन क्रमयोगेन(ण) प्रभेदात्परिमुच्यते ।
आरग्वधं सोमवल्कं पटोलं काकतिन्दुकम् ॥
पयोऽपि मधुसंयुक्तं पिण्डः श्लेष्महरः स्मृतः ।
यवौदनं च तैलेन मात्रया भोजयेद्गजम् ॥

* धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. ०लायामञ्जलिप्रायां । २ क. ततः प्रति ये शीतं कल्पयेत् । ३ ख.
०टाह्वा ० ।

३१० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
पाययेन्मुद्गयूषं च योपालः(?)सह संस्कृताम् ।
काशं कुशं पोटगलं यवसार्थे प्रदापयेत् ॥
इति श्लेष्मप्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
प्रभेदे रक्तजे राजन्प्रतीकारः प्रवक्ष्यते ॥
यदुक्तं पैत्तिके स्रोवे¹ तत्सर्वं संप्रयोजयेत् ।
श्लैष्मिकस्य तु योगं हि कल्पे नागस्य कारयेत् ॥
पैत्तिकस्य तु यत्कर्म मध्याह्ने तत्समाहरेत् ।
वातिकस्य तु यत्प्रोक्तं सायाह्ने तत्प्रयोजयेत् ॥
लवणानि च सर्वाणि पिप्पल्यो मरिचानि च ।
शृङ्गवेरं च संहृत्य सूक्ष्मचूर्णानि कारयेत् ॥
संनिपातसमुत्थाने श्रेष्ठमेतच्चिकित्सितम् ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
प्रभिन्नो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥
अथ द्विषष्टितमोऽध्यायः ।
'अथातः कर्णवालजानां कृमीणां निदानं चिकित्सितं च व्याख्यास्यामः'
इति ह स्माऽऽह भगवान्पालकाप्यः—
इह खलु भो हस्तिनां केशाग्रसूक्ष्माः कण्टकेमुखा.....ष्णन्पूर्वाः(?)² त्वग्मां-
सशोणितं भक्षयन्ति । श्यामा रूक्षाः श्वेता रक्ता राजीव(म)न्तश्चित्राः शबलाः
कर्णजा वालजाश्च कृमयः संभवन्ति ।
तेषां कृमिभिरुपसृष्टानां लक्षणम्—परिशीर्यन्ते कर्णाग्राणि । *तेः परिमूला-
ग्रेषु वंला³ भक्षयन्ति⁴ । परिशीर्यन्ते वालाः । तत्र साध्या ये परिस्रवन्ति† । शेषा-
स्त्वसाध्याः ॥
अथैषां चिकित्सितमुपदेक्ष्यामः—अङ्गराजोत्तम....¶कर्णीविडङ्गकिण्ववचैौ§भा-
र्गीमार्द्रं कुष्ठनिम्बसुरसकाकादनीकाकतिन्दु कीकाकमाचीकरवीरसर्पपपर्णाजि-
* 'ते' इति स्यात् । † अत्र '' इति त्रुटिचिह्नं खपुस्तके । ¶ 'अङ्गराजोत्तमकर्णी'
इत्थं त्रुटिचिह्नं खपुस्तके । § खपुस्तके किण्व ~ वच इत्थं त्रुटिचिह्नं दृश्यते ।
१ क. ख. श्रावे । २ क. °कमुखाष्णान्पू° । ३ क. ख. वला । ४ क.
ख. भक्ष्यन्ति ।
४

६३ कर्णरोगाध्यायः ] हस्त्यायुर्वेदः । ३११
कासैन्धवलवणयवक्षारतिन्तिडीकशिरीषकर्णिकारबर्बरफणिज्जकशङ्खिनीदारुह-
रिद्राश्चैकतः कृत्वा समभागैरुपक्रमेत । एतेषां कषायैः प्रक्षाल्य कल्कैः प्रलेपनं
कुर्यात् । चूर्णैस्तु प्रतिसारयेत् । एतेषामेव विकेशिकावर्ती च यथायोगं विद-
ध्यात् । ततश्चाभ्यन्तरं रुधिरं विसर्पवत्परिस्रावयेत् । (* ग्रन्थिं चेत्कुरुते
कृमिः पशूनामिव कुकुटकं सस्रे(शस्त्रे)ण विद्ध्वा निष्कृष्य कृमिघ्नैश्च कषायैः
प्रक्षाल्य प्रलेपयेत् । ) † कृमिकोष्ठप्रयुक्तं सकवलान्दद्यात् ॥
तत्र श्लोकाः—
कषायैः कटुकैस्तिक्तैर्लवणैः पानभोजनैः ।
कर्णजान्वालजांश्चैव चिकित्सेत्तु कृमीन्भिषक् ॥
प्रायेण श्लेष्मप्रभवा गजानां ज्ञेयास्तु रोमेकृमयः शरीरे ।
कार्यः प्रयत्नः प्रशमार्थमेषामुपक्षिताः प्राणहरा भवन्ति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
कर्णवालकृमिर्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
अथ त्रिषष्टितमोऽध्यायः ।
अङ्गेन पृष्टो भगवान्कर्णरोगमुवाच ह ।
अस्य रोगस्य विज्ञानं चिकित्सां च यथाक्रमात् ।
ने सूतः सहसाऽऽदत्ते तथा शीर्षविरेचने ॥
कर्णौ वा मृद्यतेऽत्यर्थं श्रोतसोः कीटवेशनात् ॥
जलं वा(त्र)प्रविशति हन्यते चातिमात्रतः ॥
अभिघातेन शिरसः कर्णरोगः प्रवर्तते ॥
ऊर्ध्वं प्रकुपितो वायुः श्रोतसि प्रतिपद्यते ॥
श्लेष्मशोणितमादाय कर्णौ नागस्य पीडयेत् ॥
शरैरागन्तुजैर्दोषैर्यदा कर्णोऽस्य दुष्यति ॥
तेनास्य तुमुलॊ व्याधिः कर्णजः संप्रवर्तते ॥
तस्येमानि तु रूपाणि वारणस्य निबोध मे ॥
संजिघ्रति प्रवमति कर्णस्रोतःस्वभीक्ष्णशः ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । † 'कृमिकोष्ठोपयुक्तान्' इति स्यात् ।
    १ क. ख. ॰मक्रूम॰ । २ क. ख. नस्ततः । ३ क. वाममृते॰ । ४ क. अतिश॰ ।

३१२ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
अङ्गुल्या वाऽल्पकाष्ठेन कवलेने च घर्षति ॥
पूयं स्रवति कर्णाभ्यां दुर्गन्धिः फेनिलं भृशम् ॥
श्लेष्ममारुतसंसर्गात्कृमयः संभवन्ति हि ॥
रुधिरं कृमिसंसृष्टं दृश्यते यस्य हस्तिनः ॥
कर्णरोगः स विज्ञेयः कफशोणितवातजः ॥
इत्येवं कर्णयोर्व्याधीन्दृष्ट्वा भेषज्यमाचरेत् ॥
शृङ्गवेरं च भार्गीं च विडङ्गानि च पेषयेत् ॥
देवदारु च कुष्ठं च सूक्ष्मं पिष्ट्वा विचक्षणः ।
रसेनानेन नागस्य कर्णयोश्च निषेचयेत् ॥
ततोऽस्य वेदनाशान्तिरेतन्न स्यान्महीपते ।
काली मधुकनिर्गुण्डी हरिद्रे देवदारु च ॥
सर्वमेतद्द्विडङ्गैस्तु कुष्ठेन च समं भवेत् ।
एतत्सम्भारमम्लो च सूक्ष्मकल्कं प्रदापयेत् ॥
ततो रसं परिस्राव्य क्षौद्रेण सह संयुतम् ।
ततोऽस्य कर्णयोर्दद्यात्कर्णरोगात्प्रमुच्यते ॥
मधुशिग्रुं च बिल्वं च सरलं देवदारु च ॥
अङ्कोठफलसारं च मांसी कुष्ठमवेल्गुजम् ॥
मयूरपित्तं मज्जां च बिल्वानि वर्तुलानि च ॥
विडङ्गतुम्बीबीजं च तथा निम्बफलानि च ॥
देवदारु तथोशीरं पिष्ट्वा तानि समानि च ॥
सर्वमेतत्समालोड्य तैलं धीरो विपाचयेत् ॥
ततोऽस्य सेचयेत्कर्णावेतेन लभते सुखम् ॥
गण्डीरमूलं समधुपष्टिकं च सकुङ्कुमम् ॥
क्षौद्रेण सह संयोज्य कर्णयोः पूरणं हितम् ॥
प्रपौण्डरीकं मञ्जिष्ठां कुष्ठं मधुकमेव च ॥
उशीरं पद्मकं चैव देवदारु च पेषयेत् ॥
कल्केनैतेन संयुक्तं तैलं धीरो विपाचयेत् ॥
ततोऽस्य कर्णयोर्दद्यात्तन्नस्यकर्म च कारयेत् ॥
शैलेयं सर्जरसरसं देवदारुं तथाऽगुरुम् ॥


१ क. °र्णशो व्याधी° । २ ख. पीपयेत् । ३ क. काष्ठं । ४ क. ख.
°वस्यज° । ५ क. °स्य कर्णयोः सेकस्तेन वै लभते सुखम् । ६ ख. पीषयेत् ।

६४ अभक्तच्छन्द्याध्यायः ] हस्त्यायुर्वेदः । ३१३
घृतमण्डेन संयुक्तं धूपयेत ततः पिबेत् ॥
भार्गीमूलं च मधुकं षष्टिकाभं कुटन्नटम् ॥
शुद्धाभ्रामलकैः सिद्धान्मधुसर्पिःसमन्वितम् ॥
पिप्पलीशृङ्गवेराभ्यां भुक्त्वा संपद्यते सुखी ॥
अङ्कोल्लचिरिबिल्वाभ्यां रसो वैशेषिको भवेत् ॥
अवगाहविषेकं च वर्जयेच्च विशेषतः ॥
इत्येतत्कर्णरोगस्य सनिदानं चिकित्सितम् ॥
(*पृच्छते रोमपादाय पालकाप्येन कीर्तितम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
कर्णरोगो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
अथ चतुःषष्टितमोऽध्यायः ।
अभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्) ॥
नागस्य संप्रवक्ष्यामि तन्मे निगदतः शृणु ॥
वातेन सहितः श्लेष्मा हृदये संप्रधावति ॥
आमाशयं †च मन्यन्ते पूरयित्वाऽवतिष्ठते ॥
कफेन बद्धहृदयः कुवलं पल्लवं तृणम् ॥
अरोचमानं कृच्छ्रेण किंचिदश्नाति वारणः ॥
तस्य तेनाभिभूतस्य चिकित्सा संप्रवक्ष्यते ॥
तस्याऽऽसवं प्रसन्नां वा मैरेयं चापि पाययेत् ॥
हिङ्गुना पञ्चलवणैर्युक्तं त्रिकटुकेन वा ॥
वचां हरिद्रे लशुनं पिप्पल्यौ मरिचानि च ॥
सपञ्चलवणांस्तस्मै कवलान्संप्रदापयेत् ॥
तेजोवतीं त्रिकटुकं तथैव कटुरोहिणीम् ॥
मधुना सह संयोज्य कवलान्प्रतिभोजयेत् ॥
चित्रकं सर्षपं हिङ्गु त्रिफला बदराणि च ॥
हरिद्रे शिग्रुबीजं च करञ्जबीजमेव च ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ † 'धमन्यन्तं' इति स्यात् ।
    १ क. धूपयेत । २ क. ख. ०गाहाविसेकं । ३ क. ०प्रचक्षते ।
    ४०