सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 317, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 317

२९६ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
शृङ्गवेरं पयस्यां च बिल्वं द्वे कण्टकारिके ॥
पृश्निपर्णींशुमत्यौ च तथा गन्धर्वहस्तकम् ॥ ५९ ॥
क्वाथयेत्सलिले सर्वं निष्क्वाथं कारयेत्ततः ॥
निष्क्वाथसमभागं च क्षीरं तत्र प्रदापयेत् ॥ ६० ॥
एकस्थं कारयित्वा तु शीतलं पाययेद्द्विपम् ॥
प्रातस्तथाऽपराह्नेषु शालीनामोदनं मृदुम् ॥ ६१ ॥
रसैस्तैस्तैस्तु पूर्वोक्तैर्दाडिमाम्लैश्च भोजयेत् ॥
इक्षून्वृक्षसमूलानि शृङ्गाटककसेरुकान् ॥ ६२ ॥
खर्जूरं मस्तकं चैव दापये(※त्पायसे)र्युतम् ॥
उदकानि विचित्राणि यवसानि मृदूनि च ॥ ६३ ॥
फाणितेनैव संयोज्य वारणाय प्रदापयेत् ॥
संजातप्राणमांसस्तु यदा भवति वारणः ॥ ६४ ॥
क्षीरं मधुरकैः पक्वं ससर्पिष्कं प्रदापयेत् ॥
चक्रवाकैर्बकैर्हंसै राटिभिः प्लवमद्गुभिः ॥ ६५ ॥
कदम्बैर्बर्हिणैश्चापि तित्तिरेस्तु कपिञ्जलैः ॥
श्वाविच्छल्यकगोधाभिः शूकरैर्महिषैस्तथा ॥ ६६ ॥
अजाविकुकुटैश्चैव तथैवेणादिभिर्मृगैः ॥
भोजनार्थं रसं चास्य वेसवारं च कारयेत् ॥ ६७ ॥
ततः शाल्योदनं तेन भोजयेत्सततं गजम् ॥
स्नेहां च माषपर्णी च पयसा सह पाययेत् ॥ ६९ ॥
एतत्सुरया युक्तं च घृतेन सह पाचितम् ॥
प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वर्धते ॥ ६९ ॥
शकृत्फाणितसंयुक्तं क्षीरेण सह पाचितम् ॥
दापयेद्भोजनं तेन बलशुक्रविवर्धनम् ॥ ७० ॥
करीरं शलिपादं च तथैव च विभक्तिकम् ॥
श्यामाकंकुरुविन्दं च हस्तिश्यामाकमेव च ॥ ७१ ॥
महाहस्तितृणं चैव प्रमोदो वेणुपत्रिका ॥
गवेधुकं मृणालानि लवलीकं बिशानि च ॥ ७२ ॥
* धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥
१ ख. ०जूरमस्त० । २ क. क्षारं । ३ क. मदां । ख. सदां । ४ क. वैणप-
त्रिका । ख. वेणुपत्रिकाम् ।