हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 315, कुल 742 में से
संदर्भ में पढ़ें२९६ पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने-
निषीदति न शक्नोति तथोत्थातुं च वारणः ॥
शोचमानः शनैर्गच्छेन्मन्दं च परिवीजति ॥ ३१ ॥
मन्दं भोजनमश्नाति तथैवास्य न जीवति ॥
भ्रष्टग्रीवस्त्वनि•••• •••• ••••ध्यानशीलश्च वारणः ॥ ३२ ॥
अस्थिक्षीणस्य नागस्य लिङ्गमेतत्प्रकीर्तितम् ॥
मज्जोपा अपि नागानां वक्ष्यते लक्षणं क्षये ॥ ३३ ॥
आध्मातकुक्षिर्योऽत्यर्थं व्रजन्गात्राणि कर्षति ॥
शूयन्ते यस्य गात्राणि नेत्राणि च विशेषतः ॥ ३४ ॥
आलानवाही विमनाः शय्याकामो जलप्रियः ॥
शुषिराणि विवर्णानि यस्य चास्थीनि दन्तिनः ॥ ३५ ॥
अभीक्ष्णं वातरोगो यस्तस्य मज्जक्षयो भवेत् ॥
शुक्रहीनस्य नागस्य लक्षणं संप्रवक्ष्यते ॥ ३६ ॥
पीड्यते वृषणं म्लानं शूपते चाऽऽशु मेहनम् ॥
न च व्यवायं प्राप्नोति चिरोत्सेकस्य जायते ॥ ३७ ॥
गात्राणि चास्य सीदन्ति मुखशोषी भवेद्भृशम् ॥
अप्रहर्षश्च मेण्ढ्रस्य रेतसः संक्षयो भवेत् ॥ ३८ ॥
धातूनामिति निर्दिष्टं लक्षणं संक्षये मया ॥
दोषाणां संक्षये तस्य लक्षणं संप्रवक्ष्यते ॥ ३९ ॥
कफसंक्षणिपितस्ये लिङ्गमेतत्प्रकीर्तितम् ॥
मारुतः पित्तसहितः कफहीनस्य दन्तिनः ॥ ४० ॥
करोत्यङ्गविमर्दं च बाढमुद्वेष्टनं भ्रमम् ॥
वेपनं परिवेषं च नौदनं स्फोटनं तथा ॥ ४१ ॥
दूयनं शीतसेवित्वं पुनश्चोष्णाभिनन्दनम् ॥
शिरःप्रकम्पनं चापि संघयः शिथिला वृता ॥ ४२ ॥
हृदि पीडा च भवति श्लेष्मक्षीणस्य दन्तिनः ॥
कफपित्ते बहुपित्ते क्षीणे नागस्य मारुते ॥ ४३ ॥
शीताभिलाषो भवति पुनरुष्णाभिनन्दनम् ॥
सादनं मुखशोषश्च शिरसो गौरवं तथा ॥ ४४ ॥
१ क. ख. ॰रिजीवति । २ क. ॰जानामपि । ३ क. आलीनो । ४ क. संप्र-
चक्षते । ५ क. ख. कफः सं° । ६ ख. ॰स्य नागस्य लि° । ७ क. मोदनं ।