सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 327, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 327

३०८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने ]
उष्णेत्पथो(?)श्चगमनाद्गुरुभारेण वा पुनः ।
कर्मणामतिप्रयोगाद्वा हरतो वा बृहद्द्रुमम् ॥
एतैर्निदानैर्नागस्य शरीरमुपतप्यते ।
ततः प्रसिच्यते दानं दुर्गन्धिवममुं(थुं) नृप ॥
तं तु संतापजं विद्यान्मदं वारणविक्रमम् ।
विविधैस्तु शिरोरोगैर्मूत्ररोगेण वा यदि ॥
शुद्धपाकलहेतुत्वाद्व्याधिना वारणे मदः ।
विविधाभिर्विधाभिर्यः पुष्टो माद्यति वारणः ॥
स मदः पैत्तिको राजन्निर्दिष्टः परिपाटितः ।
प्राणिता विधया नागा न वश्या बलशालिनः ॥
मदस्य जनने सम्यग्भेषजैः संप्रयोजितैः ।
उपधानात्प्रभिद्यन्ते वारणाः पृथिवीपते ॥
शौर्यजोऽपि···· ···· ···· ···· ········ ···· ···· ।
रूपं प्रार्थयमानस्य युध्यमानस्य वा युधि ॥
पश्यन्तस्तस्य सैन्यस्य विजयं दिव्यचक्षुषः ।
मदं गृह्णाति मातङ्गः स हेतुर्विजये क्षणम् ॥
इत्येते बहुधा प्रोक्ता गजानां मदहेतवः ।
कात्स्न्र्येन तु महाराज यथोक्तं ब्रह्मवादिभिः ॥
अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम् ।
वातप्रभिन्नं विज्ञाय चिकित्सां संप्रयोजयेत् ॥
पञ्चभिर्लवणैः सार्धं पाययेत् सुखोदकम् ।
तीक्ष्णांश्च कवलान्दद्याद्दारणाय महीपते ॥
वातिकात्स मदाद्राजन्मुच्यते वै न संशयः ।
दध्यम्लमथ वातानेः (?) क्रमान्मुष्णं च पाययेत् ॥
एतेनापि च योगेन मुच्यते वातिकान्मदात् ।
शुद्धकोष्ठाय दातव्यं जलपानं महीपते ॥
यवसानि विचित्राणि मृदूनि हरितानि च ।
फाणितेनोपदिग्धानि (?) कवलान्संप्रदापयेत् ॥
इति वातप्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
अथ पित्तप्रभिन्नस्य चिकित्सा संप्रवक्ष्यते ॥
१ क. ॰प्रचक्षते ।