सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 319, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 319

३०० पालकाप्यमुनिविरचितो— [ ९ क्षुद्ररोगस्थाने ]
विषोपयुक्तदेहाश्च हृद्रोगा गुल्मिनश्च ये ॥
एवंप्रकारा ये चान्ये तेषां पेथ्यवरं स्मृतम् ॥ ८७ ॥
अजाकरीषस्यैवेते गुणाः सम्यक्प्रकीर्तिताः ॥
वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान् ॥ ८८ ॥
कटुकं चोष्णवीर्यं च रूक्षमूष्णाम्लपाचिकम् ॥
वातानुलोमनं चैव तथा पित्तप्रकोपनम् ॥ ८९ ॥
क्षारतुल्यतरं ज्ञेयं लवणोदकशोधनम् ॥
गुणान्कीर्तयतश्चापि मूत्राणामपि मे शृणु ॥ ९० ॥
एतेषामेव मूत्राणि सर्वाण्येव च बुद्धिमान् ॥
उष्णवीर्याणि जानीयात्कटुकानि विशेषतः ॥ ९१ ॥
निरूहेषु प्रशंसन्ति कृमिकोष्ठे च दन्तिनाम् ॥
त्वग्दोषेषु प्रशस्यापि पानोष्श्वेतेषु (?) भूपते ॥ ९२ ॥
आस्फोता वैजयन्ती च स्फूर्जको निम्ब एव च ॥
अङ्कोल्लसहिता ह्येते भङ्गा वै साटरूषकाः ॥ ९३ ॥
आसवेषु प्रशस्यन्ते शृणु चान्येऽपि ये हिताः ॥
कुटजो मधुशिग्रुश्च पूतिका दीर्घवृन्तका ॥ ९४ ॥
सप्तपर्णश्च निम्बश्च षडेते प्रत्तिकीर्तिताः ॥
यथालाभं यथासात्म्यं यथाकालं च बुद्धिमान् ॥ ९५ ॥
एषामन्यतमं योगमासवेष्वथ दापयेत् ॥
त्वग्दोषशमना ह्येते कृमिकोष्ठप्रणाशनाः ॥ ९६ ॥
अत्रैव हि प्रशंसन्ति ये च— स्युर्बलाग्रयः ॥
सरक्तानां तु दातव्याः स्निग्धानां चैव दन्तिनाम् ॥ ९७ ॥
रूक्षाणां न प्रदातव्या ये च पित्तविकारिणः ॥
²त्रिंशत्पलस्तु (प्रथमो मध्यमः पञ्चविंशकः ॥ ९८ ॥
जघन्यो विंशकश्चैव कवलस्तु सदा हितः ॥
ग्रहणीदीपना ह्येते बलवर्णप्रसादनाः ॥ ९९ ॥
सिद्धानौषधयोगांश्च प्रवक्ष्याम्यत उत्तरम् ॥ १०० ॥
स्वयंगुप्ता गुडूची च मुद्गपर्णी हरेणुकम् ॥
विदारी माषपर्णी च काकोलीद्वयमेव च ॥ १०१ ॥
† धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ।
१ क. पुष्पतरं । २ क. त्रिंशतश्चैव ।