सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 318, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 318

दापयेत्सततं नागे पयसानि विचक्षणः ॥
मधुफाणितसंयुक्तं तीक्ष्णगण्डानि दापयेत् ॥ ७३ ॥
धेनुकोनिःसृतं नागं गात्ररोगेण चाऽऽतुरम् ॥
वयःक्षीणकृशं चैव मदवेगाच्च निःसृतम् ॥ ७४ ॥
धातुक्षीणश्च यो नागो व्रणदोषेण वाऽन्वितः ॥
प्रभग्नस्त्वध्वगमने यश्च क्षीणबलो गजः ॥ ७५ ॥
येषां चौऽऽगन्तुजा राजन्रोगाः समुद्भवन्ति हि ॥
तेषामाहारयोगेन सर्वनेतान्प्रसाधयेत् ॥ ७६ ॥
सास्रयान्नित्य मतिमान्यथाऽग्निः सततोत्थितः ॥
माषाणां कूलनिद्रोणं तण्डुलद्रोणमेव च ॥ ७७ ॥
प्रतिपानं च देयं स्यात्सपञ्चलवणां सुराम् ॥
विडङ्गैश्च समायुक्तां तथा त्रिकटुकेन च ॥ ७८ ॥
मोदकास्त्वपि ये देयाः शृणु तेषां विधिं रुताम् ॥
दद्यात्सैवाक्षकं द्रोणमाढकं बिल्वमेव च ॥ ७९ ॥
उदूखले क्षोदयित्वा पञ्चाहं सुरया स्थितम् ॥
देयस्तैलेन संयुक्तः श्लेष्मकृमिविनाशनम् ॥ ८० ॥
अष्टकं तण्डुलानां च माषद्रोणयुतं स्थितम् ॥
किण्वस्य वाऽऽढके स्थाप्यं सर्वमेतत्समुंयुतम् ॥ ८१ ॥
चतुर्थेऽहनि दातव्यो मोदकः किण्वसंज्ञितः ॥
ग्रहणीदीपको ह्येष स्थूलानां कर्षणो हितः ॥ ८२ ॥
देयस्तैलेन संयुक्त्तो मोदकोक्षकसंयुतः ॥
प्रवेयः सारदानां च सूक्ष्मवातार्दितास्तु ये ॥ ८३ ॥
करीषाणां प्रयोगं तु शृणु कीर्तयतो मम ॥
गवां कटुक(※मूखीक)मुष्णवीर्यमजाशकृत् ॥ ८४ ॥
ग्रहणीं दीपयत्याशु श्लेष्मकृमिविनाशनम् ॥
लवणेन समायुक्तं वातप्रशमनं हितम् ॥ ८५ ॥
ये च क्षीणबला नागा ये चैव दुर्बलाग्नयः ॥
त्वग्दोषैरभिभूताश्च पाण्डुरोगा॑र्दिताश्च ये ॥ ८६ ॥

※ धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके ।
१ क. ०कामिः शृतं । २ क. ०भग्नेष्वध्व० । ३ क. चाङ्गे रुजा । ४ क.
५ ख. कर्षणे । ६ ख. ०ताश्रये । ७ क. ०ग्दोषैरै० ।