सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 320, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 320

शाल्मली पारिभद्रं च वैजयन्ती करञ्जिका ॥
अश्वगन्धासमायुक्तानकवलांत्संप्रदापयेत् ॥ १०२ ॥
ग्रहणीदीपनाऽञ्छेष्ठांछ्छवीवर्णप्रसादन न् ॥
एतान्संभृत्य संभारान्दीपयेत्क्षीणधातुषु ॥ १०३ ॥
एरण्डा वैजयन्ती च आद्रकीमूलमेव च ॥
श्रीपर्णी दधिपर्णी च त्वचमेषामुपाहरेत् ॥ १०४ ॥
अश्वगन्धासमायुक्तानकवलान्संप्रदापयेत् ॥
ग्रहणी दीप्यते चास्य यवसं चाभिनन्दति ॥ १०५ ॥
श्रीपर्णीदधिपर्णीनां त्वचो मूलं नलस्य च ॥
आढक्यास्त्वेव मूलानि दद्याच्चैव करञ्जकम् ॥ १०६ ॥
एतेन वर्धते मांसं सौमनस्योप(स्यं च) जायते ॥
द्वे कण्टकारिके दद्यान्मूलं मधु च शिग्रुजम् ॥ १०७ ॥
दीप्यते ग्रहणी यस्य यवसं चाभिनन्दति ॥
गण्डीरं कन्दकं चैव शिग्रुरपवनांजिका ॥ १०८ ॥
पिप्पलीशृङ्गवेराभ्यां नलिकानालिका पृथक् ॥
घटी विडाख्यलवणं नलिकानालिका भवेत् ॥ १०९ ॥
एतान्संभृत्य) संभारान्क्षोदयित्वा हुदूखले ॥
मर्दितान्गोमयेनास्य कवलान्दापयेद्बुधः ॥ ११० ॥
कृमिकोष्ठी विशुध्येत्तु मृत्तिकां च न खादति ॥
द्वे कण्टकारिके दद्यात्किणिह्या मूलमेव च ॥ १११ ॥
आवर्ता मधुशिग्रोश्च कवलो मांसवर्धनः ॥
योवन्ती मधुमाण्डूकी हरिपिण्डीतकानि च ॥ ११२ ॥
बिल्वं करीरगण्डीरकवलो मांसवर्धनः ॥
दाडिमं चमनीं भद्रामुत्तमां गिरिकर्णिकाम् ॥ ११३ ॥
वेतसामृतवल्ल्यौ च दीपयेत्क्षीणधातुषु ॥
शिरीष—त्वचपलं च मोरटं सिन्दुवारितम् ॥ ११४ ॥
सदाभद्रामपामार्गं कवलांस्तु प्रदापयेत् ॥
कच्छुरा यूथिकामूलमुत्पलं नवमालिकाम् ॥ ११५ ॥


१ ख. °प्रदीप° । २ क. पाचन्तीं । ३ क. °ण्डीरीक° । ४ क. °मारिकम् ।