सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 329, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 329

३१० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
पाययेन्मुद्गयूषं च योपालः(?)सह संस्कृताम् ।
काशं कुशं पोटगलं यवसार्थे प्रदापयेत् ॥
इति श्लेष्मप्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
प्रभेदे रक्तजे राजन्प्रतीकारः प्रवक्ष्यते ॥
यदुक्तं पैत्तिके स्रोवे¹ तत्सर्वं संप्रयोजयेत् ।
श्लैष्मिकस्य तु योगं हि कल्पे नागस्य कारयेत् ॥
पैत्तिकस्य तु यत्कर्म मध्याह्ने तत्समाहरेत् ।
वातिकस्य तु यत्प्रोक्तं सायाह्ने तत्प्रयोजयेत् ॥
लवणानि च सर्वाणि पिप्पल्यो मरिचानि च ।
शृङ्गवेरं च संहृत्य सूक्ष्मचूर्णानि कारयेत् ॥
संनिपातसमुत्थाने श्रेष्ठमेतच्चिकित्सितम् ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
प्रभिन्नो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥
अथ द्विषष्टितमोऽध्यायः ।
'अथातः कर्णवालजानां कृमीणां निदानं चिकित्सितं च व्याख्यास्यामः'
इति ह स्माऽऽह भगवान्पालकाप्यः—
इह खलु भो हस्तिनां केशाग्रसूक्ष्माः कण्टकेमुखा.....ष्णन्पूर्वाः(?)² त्वग्मां-
सशोणितं भक्षयन्ति । श्यामा रूक्षाः श्वेता रक्ता राजीव(म)न्तश्चित्राः शबलाः
कर्णजा वालजाश्च कृमयः संभवन्ति ।
तेषां कृमिभिरुपसृष्टानां लक्षणम्—परिशीर्यन्ते कर्णाग्राणि । *तेः परिमूला-
ग्रेषु वंला³ भक्षयन्ति⁴ । परिशीर्यन्ते वालाः । तत्र साध्या ये परिस्रवन्ति† । शेषा-
स्त्वसाध्याः ॥
अथैषां चिकित्सितमुपदेक्ष्यामः—अङ्गराजोत्तम....¶कर्णीविडङ्गकिण्ववचैौ§भा-
र्गीमार्द्रं कुष्ठनिम्बसुरसकाकादनीकाकतिन्दु कीकाकमाचीकरवीरसर्पपपर्णाजि-
* 'ते' इति स्यात् । † अत्र '' इति त्रुटिचिह्नं खपुस्तके । ¶ 'अङ्गराजोत्तमकर्णी'
इत्थं त्रुटिचिह्नं खपुस्तके । § खपुस्तके किण्व ~ वच इत्थं त्रुटिचिह्नं दृश्यते ।
१ क. ख. श्रावे । २ क. °कमुखाष्णान्पू° । ३ क. ख. वला । ४ क.
ख. भक्ष्यन्ति ।
४