सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 322, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 322

६० ऽध्यायः ] हस्त्यायुर्वेदः । ३०३
बिल्वाम्रमेषशृङ्गीणां त्वचस्तथाऽर्जुनस्य च ॥
विरूक्षयेद्रजं क्षिप्रं न च दोषमवाप्नुयात् ॥ १२९ ॥
पालाशनक्तमालानां त्वचमिङ्गुदवृक्षयोः ॥
(*त्वच)मर्जुनजम्ब्वोश्चं विडुलारिष्टमेव च ॥ १३० ॥
कुटजत्वग्विषङ्गाणि क्षोदयित्वा ह्युलूखले ॥
कवलो दीपनीयः स्यात्प्रसादयति तं छविम् ॥ १३१ ॥
महौषधं वातशूले त्वञ्जनं दन्तिनां हितम् ॥
पूयः प्रदेयः श्रोत्रेषु..................... ॥ १३२ ॥
वाताध्मातस्य नागस्य बन्धाय कवलो हितैः ॥
अङ्गामु(?)˙˙˙˙˙˙˙˙कं च तर्कारी क्षीरिणी तथा ॥ १३३ ॥
दद्याद्वातहरं त्वेतच्छोभाञ्जनकमेव च ॥
वाताध्माते कुलिङ्गाक्षीं वारणस्य महीपते ॥ १३४ ॥
उरुबूकोऽथ तर्कारी काकोली क्षीरमेव च ॥
भिल्लोटश्च प्रदातव्यो वाताध्मातस्य दन्तिनः ॥ १३५ ॥
अथ क्षॉरं प्रवक्ष्यामि पानकायाग्निदीपनम् ॥
कुम्भीकस्याऽऽढकं दद्यात्पलानां तु स्रुही(हीं) तथा ॥ १३६ ॥
बिल्वार्कनक्तमालानां त्वचं पत्राणि पेषयेत् ॥
अर्कस्य दाहयेन्नालं कौपे तोये विनिस्रुतम् ॥ १३७ ॥
द्रोणं द्रोणे प्रदातव्यं त्रिपक्षस्य नराधिपम् ॥
चूतवृक्षाम्रकुम्भानां त्वचः संयोजिताः समाः ॥ १३८ ॥
फणिज्जकस्य मूलानि तथैवार्ककरञ्जयोः ॥
श्ववेचरेतैश्च(?)˙˙˙˙˙˙˙˙क्षारे कूपोदके कृतः ॥ १३९ ॥
पूर्वमुक्तेन विधिनां क्षारमेवं प्रदापयेत् ॥
कुम्भीकपानसंस्कारः सुमनाभङ्ग एव च ॥ १४० ॥
इत्येते पानयोगाः स्युर्व्यारुपाता द्विपदां वर ॥
चूर्णारिष्टानि वक्ष्यामि गजानामग्निदीपनात् ॥ १४१ ॥

  • खपुस्तके नोपलभ्यते ॥
    १ क. °श्च विंदु° । २ क. °तः॥ तथा अ° । ३ क. वाताध्मातो । ४ क.
    रं । ५ क. कौपतो° । ६ क. शूचेद्यरेतैश्च क्षारः कूपोदके समीकृ° । ७ क. °न्त
    र° । ८ क. °पनम् ॥