सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 328, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 328

१.१ प्रभिन्नाध्यायः ] हस्त्यायुर्वेदः । ३०५
प्रत्यूषकाले मातङ्गं ह्रदे निर्वापयेद्भिषक् ।
शालांयां मण्डलिप्रायां शीतस्थानासितस्य तु ॥
स्त्रावयेद्वारिपूर्णांश्च तस्योपरि नवान्घटान् ।
बिशं मृणालाञ्शालूकमूत्पलं नलिनान्यपि ॥
इक्षुं चेक्षुरसं चैव शृङ्गाटककसेरुकम् ।
दापयेत्कवलांस्तस्मै शर्कराचूर्णसंयुतान् ॥
परूषकाणि मृद्वीका शर्कराफाणितं मधु ।
सारिवा मधुकं चैव समांशं चोत्तरोदकम् ॥
तैतः········ये प्रति ये(?) शीतं कल्पश्रुत्यापयेत्(?) ।
प्रभेदे पैत्तिके तस्य यवसानि प्रदापयेत् ॥
तृणारण्यं पर्पटांन्द्याच्छर्कराघृतसंयुतम् ।
षष्टिकानां पुराणानां शालीनामोदनं मृदु ॥
सर्पिषा भोजयेन्नागमेवं भेदाद्विमुच्यते ।
अम्लंमुष्णं च तीक्ष्णं च लवणं च न दापयेत् ॥
पानानि सर्पिषा श्रेष्ठान्यभ्यङ्गं चैव सर्पिषा ।
नश्यत्यनेन योगेन प्रभेदः पैत्तिको नृप ॥
इति पित्तात्प्रभिन्नस्य चिकित्सा संप्रकीर्तिता ।
( *अथ श्लेष्मप्रभिन्नस्य चिकित्सां संप्रयोजयेत् ॥ )
कटुकेन तु तैलेन सर्वसेको विधीयते ।
तीक्ष्णान्कटुकषायान्कवलानस्य दापयेत् ।
अजामूत्रेण संयोज्य श्लैष्मिकस्तेन शाम्यति ॥
द्राक्षाहरिद्रामञ्जिष्ठाः सूक्ष्मचूर्णांश्च कारयेत् ।
अजामूत्रेण संयोज्य पिण्डमस्मै प्रदापयेत् ॥
अनेन क्रमयोगेन(ण) प्रभेदात्परिमुच्यते ।
आरग्वधं सोमवल्कं पटोलं काकतिन्दुकम् ॥
पयोऽपि मधुसंयुक्तं पिण्डः श्लेष्महरः स्मृतः ।
यवौदनं च तैलेन मात्रया भोजयेद्गजम् ॥

* धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. ०लायामञ्जलिप्रायां । २ क. ततः प्रति ये शीतं कल्पयेत् । ३ ख.
०टाह्वा ० ।