सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 326, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 326

६१ प्रभिन्नाध्यायः ] हस्त्यायुर्वेदः । ३०७
पुरीषं वमथुर्धानं रक्तमेवोपजायते ।
कटाभ्यां भिद्यते पूर्वं निदाघे चापि माद्यति ॥
पैत्तिकस्य तु लिङ्गानि सर्वाणि कुरुते गजः ।
इत्येतल्लक्षणं प्रोक्तं मदे वै शोणितात्मके ॥
अत ऊर्ध्वं प्रवक्ष्यामि संनिपातात्मकं नृप ।
पूर्वोक्तानां मदानां तु लक्षणं सांनिपातिकम् ॥
क्षुत्पिपासोष्णशीतानां सहिष्णुर्भवति द्विपः ।
दुःस्थानमथ दुःशय्यां सततं सहते गजः ॥
प्रतिनम्याभिनमति विनमत्युन्नमत्यपि ।
नाभिनन्दति चाऽऽहार(†मिश्रं च) स्वादुमेव च ॥
व्यामिश्रमेतं जानीयान्मिश्रगन्धं मदं नृप ।
इत्येतत्संनिपातेन प्रभिन्नस्य तु लक्षणम् ॥
मत्तेन जनितायां तु यस्तु मत्तेन जायते ।
पौर्णमास्यां प्रपद्येत मन्दमन्दगुणैर्युतः ॥
जानीयात्तं तु राजेन्द्र मदं ह्यभिजनाभिधम् ॥
बहुपुष्पसमृद्धानि कोकिलाभिरुतानि च ।
मत्तबर्हिणपुष्टानि वनानि समवेक्ष्य च ॥
हंससारसगीतानि चक्रवाकरुतानि च ।
सतामरसकह्लारसुगन्धिपवनानि च ॥
मनोहराणि रम्याणि पल्लवानि सरांसि च ।
पद्मोत्पलविचित्राणि भ्रमरैः कूजितानि च ॥
क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः ।
एष नागो महाराज हर्षादेव प्रभिद्यते ॥
क्षीणधातुशरीरश्च वयोतीतो मतङ्गजः ।
हीनवीर्यो विमांसोऽपि सर्वाङ्गाशिथिलीकृतः ॥
एतैस्तु लक्षणैर्विद्यान्मदं तं पारिणामिकम् ।
दुःस्थानमथ दुःशय्यां लब्ध्वा लब्ध्वा च मोहनम् ॥
निर्भर्त्सितं वधं बन्धं .... .... ....नितंजनवम् ।
यदा मदं स्रवति तु तं .........विद्यान्निसर्गजम् ॥
† खपुस्तके नास्ति ।
१ क. ख. ॰पासाच्च शी॰ । २ क. ॰णघृष्टा॰ ।