हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 332, कुल 742 में से
संदर्भ में पढ़ें६४ अभक्तच्छन्द्याध्यायः ] हस्त्यायुर्वेदः । ३१३
घृतमण्डेन संयुक्तं धूपयेत ततः पिबेत् ॥
भार्गीमूलं च मधुकं षष्टिकाभं कुटन्नटम् ॥
शुद्धाभ्रामलकैः सिद्धान्मधुसर्पिःसमन्वितम् ॥
पिप्पलीशृङ्गवेराभ्यां भुक्त्वा संपद्यते सुखी ॥
अङ्कोल्लचिरिबिल्वाभ्यां रसो वैशेषिको भवेत् ॥
अवगाहविषेकं च वर्जयेच्च विशेषतः ॥
इत्येतत्कर्णरोगस्य सनिदानं चिकित्सितम् ॥
(*पृच्छते रोमपादाय पालकाप्येन कीर्तितम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
कर्णरोगो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
अथ चतुःषष्टितमोऽध्यायः ।
अभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्) ॥
नागस्य संप्रवक्ष्यामि तन्मे निगदतः शृणु ॥
वातेन सहितः श्लेष्मा हृदये संप्रधावति ॥
आमाशयं †च मन्यन्ते पूरयित्वाऽवतिष्ठते ॥
कफेन बद्धहृदयः कुवलं पल्लवं तृणम् ॥
अरोचमानं कृच्छ्रेण किंचिदश्नाति वारणः ॥
तस्य तेनाभिभूतस्य चिकित्सा संप्रवक्ष्यते ॥
तस्याऽऽसवं प्रसन्नां वा मैरेयं चापि पाययेत् ॥
हिङ्गुना पञ्चलवणैर्युक्तं त्रिकटुकेन वा ॥
वचां हरिद्रे लशुनं पिप्पल्यौ मरिचानि च ॥
सपञ्चलवणांस्तस्मै कवलान्संप्रदापयेत् ॥
तेजोवतीं त्रिकटुकं तथैव कटुरोहिणीम् ॥
मधुना सह संयोज्य कवलान्प्रतिभोजयेत् ॥
चित्रकं सर्षपं हिङ्गु त्रिफला बदराणि च ॥
हरिद्रे शिग्रुबीजं च करञ्जबीजमेव च ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ † 'धमन्यन्तं' इति स्यात् ।
१ क. धूपयेत । २ क. ख. ०गाहाविसेकं । ३ क. ०प्रचक्षते ।
४०