सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१७ हस्तग्रहणाध्यायः ] हस्त्यायुर्वेदः । २११
म्लानं वातेन परुषं श्यावं चात्यर्थवेदनम् ॥
संनिपातात्तु दोषाणां सर्वलिङ्गानि लक्षयेत् ॥ १६ ॥
व्यक्तानि सर्वलिङ्गानि मेढ्रस्थानगतानि च ॥
निष्क्रष्टुं तत्प्रवेष्टुं वा वेदनार्तो मतङ्गजः ॥ १७ ॥
*.... .... .... .... .... .... .... .... .... .... ।
न शक्नोति प्रवेष्टुं वा निष्क्रष्टुं शूनमेहनम् ॥
अथ कोशस्थमेढ्रो वा मूत्रं कृच्छ्रेण मेहति ।
निष्कृष्टमिव शूनं हि प्रलम्बं चास्य दृश्यते ॥
वेदनार्तश्च मातङ्गो वालुकापांशुकर्दमैः ।
जलेन चाप्यवकिरेत्सततं बहुशो गजः ॥
क्रिमयो वाऽस्य जायन्ते शीर्यन्ते वारि सर्वशः ।
काला—वर्तैनान्मेढ्रसंवादव्याधिना नृप ॥
एतैर्निदानैर्जानीयान्मेढ्रक्षाणीं गजस्य च ।
चिकित्सितमतस्त्वं च शृणु कीर्तयतो मम ॥
उत्पन्नमात्रसंबन्धे नुतकां (?) प्लावयेद्गजम् ।
अमुक्तेष्वनुमुक्तेषु लिङ्गं शूनं भवेद्यदि ॥
विमुक्तशुक्रो मातङ्गः सद्यः संपद्यते सुखी ।
अत्यङ्गं यदि शूनं स्याच्छतधौतेन सर्पिषा ॥
सर्पिर्मण्डेन वा मेढ्रं बहुशः परिषेचयेत् ।
प्रकृतेः सह्यते नास्य सर्वमेको विधीयते ॥
क्षारवृक्षत्वचोभिर्वा सिद्धं मधुरकैर्घृतम् ।
शतावर्या च निष्काथे बलाभ्यां मधुकेन च ॥
सम्यक्सिद्धं सदुग्धं च तदभ्यञ्जनमिष्यते ।
उदुम्बरत्वक्कल्केन घृतमिश्रेण लेपनम् ॥
त्वग्भिर्वा क्षीरवृक्षाणां सघृताभिः प्रलेपयेत् ।
सर्जार्जुनेंद्रवृक्षाणां सल्लकीसोमवल्कयोः ॥
धवाश्वकर्णतिनिशत्वग्भिर्वा काथयेज्जलम् ।
पादावशिष्टं संश्रा(स्रा)व्य मेढ्रक्षाणी विलीयते+ ॥
*त्रुटितमिवाऽऽभाति ॥ + इतः परं मेढ्रक्षाण्यध्याये कियान्पाठस्त्रुटितः पुस्तक-
द्वयेऽपीति ज्ञायते ।
१ क. ॰जः ॥ तत्र रेखाश्च जा॰ । २ क. ॰र्तनेना॰ । ३ ख. ॰क्ते वाऽनु॰ ।

२१२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
(?)†चणणिमूलं तृणपञ्चकं ससल्लकीबन्धं च बिल्वमूलम् ।
आदित्यवल्लीं१शिरोहिणीं च चूर्णं तिलानां च स प्रगुह्य**** ॥
लौह्वां दृढामपामथवाऽप्युखायां तस्याक्षिणी संप्रतिवार्य२ सर्वतः ।
स्वेदं च दद्याद्विरदस्य३ हस्ते स्वेदे हृते तस्य ततश्च नेत्रे ॥
सिञ्चेदजायाः पयसा च वैद्यः प्रत्यञ्जनं चेक्षुरकस्य मूलम् ।
घृतस्य मण्डेन मधुप्रयुक्तं तर्कारिवंशा**** ***पत्रभङ्गम् ॥
दुःखं सशोभाञ्जनपत्रभङ्गं पिष्टं तिलानां च विपाच्य कार्यम् ।
स्वेदा यथापूर्वमुदाहृतास्ते गोधूमसिद्धार्थककोरदूषाः ॥
व्रीहिस्तिलाः स्युर्बदरीफलानि
**** **** **** **** **** ।
अक्षस्य भङ्गं च विपाच्य दुःखे स्वेदोऽस्य नाड्या प्रविचार्य नेत्रे ।
धवस्तिलाः पाटलिपत्रभङ्गैस्तेनैव कल्पेन तथैव कार्यः ॥
स्वेदो गजस्य प्रविचार्य नेत्रमेरण्डबिल्वार्क मथाम्बुरब्दैः ।
माषास्त्वहग्वस्तलपिष्टमिष्टं स्वेदस्तथैवाक्षिनिमीलितस्य ॥
कार्यों यथा† **** **** **** ****विहितः **** **** ।
अभ्यक्तदेहस्य तु सर्वतोऽपि स्वेदो यथावत्प्रतिवार्य नेत्रे ॥
स्वेदेषु सर्वेषु तथैव कार्यं नेत्राञ्जनं स्यात्परिवेचनं च ।
( ☼कटुत्रयं स्यात्कटुरोहिणी च सव्याघ्रिकासैन्धवमित्यनेन ।
चूर्णीकृतेनाऽऽशु गजस्य कुर्यात्प्रधमापनं सम्यगतीव पथ्यम् ॥
सर्वौषधीभिः ) कटुकैश्च सर्वैर्हृद्यैश्च गन्धैरथ सर्पिषा च ।
पुनः पुनस्तस्य करं गजस्य संधूपयेत्सं प्रतिवी(वा)र्य नेत्रे ॥
घृतं पुराणं कवसैश्च(?) सैन्धवं नस्यं प्रदद्याद्विरदस्य वैद्यः ।
तथा सुरां वाऽपि चिरस्थितां तु चिरस्थितं तु वामेववाच(?) ॥
मृदूनि चित्राणि तृणानि कस्मै मुद्रोदनं चापि घृतप्रगाढम् ।
दद्यान्न कर्माणि च कारयेत स्थानं च शय्या च यथासुखं भवेत्॥१६१॥
तत्र श्लोकः—
† इतः पूर्वं पुस्तकद्वयेऽपि हस्तग्रहणाध्याये कियान्पाठस्त्रुटित इति ज्ञायते ॥

  • पुस्तकद्वयेऽपि त्रुटितम् । † पुस्तकद्वयेऽपि त्रुटितम् ॥ ☼ धनुराकारमध्यस्थो नास्ति
    पाठः खपुस्तके ।
    १ क. °रोहणं च । २ ख. प्रतिवार्य । ३ क. प्रदेयं द्विर° ।

१८ हस्तोन्मथिताध्यायः ] हस्त्यायुर्वेदः । २१३
एवं क्रियाभिर्विविधत्कृताभिर्हस्ति(स्त)ग्रहः क्षिप्रमुपैति शान्तिम् ।
तेजो वपुष्येव च वीर्यपुष्टी रोगप्रणाशात्क्रमशो भवन्ति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सप्तदशो हस्तग्रहणाध्यायः ॥ १७ ॥
अथाष्टादशोऽध्यायः ।
पालकाप्य उवाच—
संचितैर्बहुभिर्दोषैः कोष्ठे वायुः समीरतः ।
उन्मत्तानि कष्ठपनि(?) हस्तोन्मथितसंज्ञकः ॥
स ह्यसाध्यो महाराज प्रयाणं चेन्नुरुन्द्धि वै ।
निदानानि षडेव स्युर्येर्न जीवति वारणः ॥
आध्मायेत्येष मन्यास्थश्लेष्मा हस्तात्प्रसिच्यते ।
सेरको मधुरस्तीव्रो मुखाद्रच्छति हस्तिनः ॥
प्रतप्तरूपो विमनाः करेणाऽऽहन्ति मेदिनीम् ।
विलोड्घनं च बहुशः करोति च विघर्षणम् ॥
एवमेतैर्विजानीयात्सप्तरात्राद्यथा गजः ।
(?) सज्योस्वोव्यथत्यर्थं नमन्ते शङ्कुविद्धवत् ॥
(?) हस्तवालविस्तस्य † ···· ···· ···· ···· कूजति तिष्ठति ।
अष्टरात्रात्परं तस्य जीवितं नास्ति हस्तिनः ।
श्यावस्तब्धकरो रक्तं मिश्रं वमथुना स्रवेत् ॥
प्रमेहति च यः शुक्रं नवाह्नात्स विनश्यति ।
श्लेष्मा घुरुघुरान्कुर्वन्करात्स्रवति दन्तिनः ।
ऊर्ध्वं समुत्क्षिपेद्धस्तं मेहतीन्द्रिपमेव च ॥
दशरात्रात्तु प्राणांस्तु चतुर्थस्त्यजति द्विपः ।
मञ्जिष्ठाभो गजो यस्तु तथौष्ठः पिटकाश्रितः ॥
स्थौनरक्ताभनयनो व्यथते च कुतश्च यः ।
एकादशे च दिवसे पञ्चमो म्रियते गजः ॥
† पुस्तकद्वयेऽपि त्रुटितम् ।
१ ख. कोष्ठवा° । २ क. °य दोषमन्ये तु श्ले° । ३ ख. सुरक्तो । ४ क.
°ञ्जिष्ठभागजय° । ख. °ञ्जिष्ठं भागजय° । ५ ख. °स्थामर° ।

२१४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
नीलः श्यावः सितो रक्तस्तथा हस्तः सवेदनः ।
एकेन पश्यतक्षण:(?) स षष्ठो द्वादशाहिकः ॥
तत्र श्लोकः—
षडेते सनिदानाः स्युरसाध्याः कीर्तिता गजाः ।
हस्तोन्मथितसंज्ञस्य विकारस्य समासतः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररो-
गस्थाने हस्तोन्मथितो नामाष्टादशोऽध्यायः ॥ १८ ॥
अथैकोनविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
त्वया यः संग्रहाध्याय उदावर्तः प्रकीर्तितः ॥
तस्य लक्षणमुत्पत्तिं चिकित्सां च प्रचक्ष्व मे ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
रौक्ष्याच्च विविधापासाद्विषमाच्चैव भोजनात् ।
अभोजनान्मनस्तापादुत्थानाच्छयनादपि ॥
वायुः प्रकुपितः स्थानाद्धृदयं संप्रहापयेत् ।
(?)हृदयस्थलः कृपात्तमन्रगे+••••••••तथा ॥
(?)गात्राणां लघुनवैव*••••••••नेत्रेविष्टेनमदम् ।
कृच्छ्रं मूत्रं पुरीषं तु वैषम्यं जठरस्य च ॥
स संकुचितपक्षेण उरो विंजयते स्फुटम् ।
कदाचित्स्वस्थदेहः स्यादस्वस्थश्च भवेत्पुनः ॥
तस्याभ्यङ्गे तथा पाने तैलं†••••••स्वरुकस्य वा ।
एरण्डनक्तमालस्य तैलं तच्छान्तये हितम् ॥
[विष्किरैर्जाङ्गलैर्मासैः*•••• •••• •••• •••• •••• ।
बस्तयो विहितास्तस्य सनिरूहानुवासनाम् ॥
पञ्चमूलं शृतं कोष्णमाविकं वा पयः पिबेत् ।
ग्रहणीदीपनीयानि बृंहणीयानि यानि च ॥

  • पुस्तकद्वयेऽपि समाना त्रुटिः । * पुस्तकद्वयेऽपि समानं त्रुटितम् । † पुस्त-
    कद्वयेऽपि त्रुटिः समाना । * द्वयोरपि पुस्तकयोः समानमेव त्रुटितम् ।
    १ क. ख. विजयन्ति ।

२० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१५
तानि कार्याणि सर्वाणि रोगशान्तौ क्रमादिति ।
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धोपदेशे द्वितीये क्षुद्र-
रोगस्थान *उदावर्तो नामैकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
अथ भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरपृच्छत्—'भगवन् य एष-
उत्कर्णको नाम व्याधिः कथं भवति, किं चास्य विज्ञानं चिकित्सितं च
भवेत्' इति ॥
अथ स उवाच पालकाप्यः पृष्टोऽङ्गराजेन—इह खलु भो वारणानां वातपि-
त्तकफैः सर्वव्याधयः संभवन्ति । अत एव शरीरं धारयन्ति स्वेषु स्थिताः
स्थानेषु† कुपिताः, समधातुप्रविभक्ताः, कुपिताः स्वेषु स्थानेषु धाता(तून्)न्यू-
नातिरिक्तान्व्याधीञ्जनयन्ति ॥
तत्र रूक्षतालघुकटुकविषमतिक्तकषायभोजनादभिवातान्मध्याप्रयोगोद्धृतच-
त्वरि(?)क्केशाद्व्याधिविभागज्ञैः कृतैश्चोपकारैर्मनसश्चोपतापाद्दुःस्थानशयनाद्रा-
त्रिजागरणात्कुप्यति पवनः । स कुपितः कष्टं †वर्तलाङ्गूलमन्याः स्तम्भयति ।
तं कोष्ठमपानि च स्वास्यनिश्चेष्टान्यङ्गान्यभिसमीक्ष्य द्रया(?)दुत्कर्णकं नाम
व्याधिं वातजं विकारं प्राणहरं नागस्य ॥
तस्य घृतवसातैलैः सुखोष्णैः सर्वसेकः । वातहरगणसंयुक्तं स्वेदं कारयेद-
भ्यङ्गपरिमर्दनं च । तीक्ष्णोष्णाम्ललवणस्निग्धं हितं मितं भोजनं व्यायामस्य
मपथ्य(?)सुखशय्यास्थानानि मनोऽनुकूलानि यवसानि च विदध्यात् । अथास्य
श्योनाकाग्निमन्थचिरिबिल्वपाटलाश्रीपर्णीवर्षाभूपत्रभङ्गान्समानीय पयसा क्वाथ-
यित्वा घृतमण्डेन कृताभ्यङ्गस्य नाडीस्वेदं विदध्यात् । खड्गमहिषक्रौञ्चमयूरान्
सामन्यतमस्य मांसेन दधिमस्तुसंयुक्तामुष्णां यवागूं सुस्निग्धां सुव्यक्त्तलवणां
प्रातः पाययेत् । व्याधिरुत्कर्णकः पीतेन तेन विनश्यति । स्तूपस्वा(?)हिंस्रा-
गूडूचीचिरबिल्वेषु तैलं विपाच्याभ्यङ्गं कारयेत् । $नक्तक्रौञ्चकुकुटप्लवमुद्रम¶-

  • सर्वेष्वपि पुस्तकेष्वत्र 'उदावर्तनाम पञ्चत्रिंशत्तमोऽध्यायः' इति वर्तते
    तर्हि तत्पञ्चत्रिंशत्तमत्वं ग्रन्थान्तरतः, न तु द्वितीयस्थानारम्भतः । † 'स्थानेष्वकु-
    पिताः' इति भवेत् । † 'वक्त्र' इति भवेत् । $ 'नक्तं' इति स्यात् । ¶ 'मद्गु' इति
    भवेत् ।
    १ क. उदात्क° । २ क. °गाद्धत° । ३ क. कृतश्चो° ।

२१६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
यूषाणामन्यतमस्य यूषोः सर्वेषां वा यथोपपत्त्या यवागूर्दधिपिप्पलीमरिचसुर-
भीकृतान्स्नेहसस्वास्रा(?)पाययेद्धारणाम् । ततश्चैनं वाराहं वा रसं भूतैलैपयेत् ।
मात्रया जीर्णविशुद्धकोष्ठं भोजयेत् । अथास्य प्रवृत्तमूत्रस्य पुरीषयोर्हन्तुस्तम्भी
च भवति । प्रत्याख्येयः स्यादुत्पन्नारिष्टश्च वारणः । तस्मादग्निमिव वेश्मन्यु-
त्थितं सर्वयत्नैश्च शमयेत व्याधिमुक्तकर्णकम् ॥
तत्र श्लोकाः-
मेदःस्थाने स्थितः प्राणोऽपानो ॰॰॰॰ ॰॰॰॰स्थिसंस्थितः ।
समानो मांसमध्यस्थो व्यानो रेतसि संस्थितः ॥
उदानश्च भगवतु(?)मङ्कस्थाने व्यवस्थितः ।
प्राणविप्रतिपत्तौ तु दुःखोच्छ्वासो भवेद्विपः ॥
चित्तविभ्रममूर्च्छा च शीतोच्छ्वासस्तथैव च ।
लाला प्रवर्ततेऽत्यर्थं क्षयश्चैव तथा भवेत् ॥
वेदनातंश्च ॰॰॰॰ ॰॰॰॰जरे तथा श्वसिति वारणः ।
अवगण्डाश्च जायन्ते मूत्रसङ्गास्तथा परे ॥
शर्कराश्चैव जायन्ते तथा शुक्रनिरोधनम् ।
अप्रसृष्टस्य त्वस ॰॰॰॰ स्य तथा मूत्रपुरीषयोः ॥
समानस्यातिकोपेन भोजनं नाभिनन्दति ।
अग्निदुर्बलपांश्चैव वेदनातंश्च वारणः ॥
आनाहाश्चापि जायन्ते हृद्रोगाश्च महीपते ।
गुल्माश्चैव तु विज्ञेया देहवार्पि(?) तथाऽपरः ॥
कुराश्चैव तु विज्ञेया घोरा प्राणविनाशनः ।
व्यानविप्रतिपत्तौ तु धातुवैषम्यसंभवः ।
तस्याधिकं ॰॰॰॰ राश्चैव संभवन्ति क्षये तथा ॥
छवीदोषाश्च जायन्ते शोफा अपि तथा परे ।
एकाङ्गभङ्गस्तम्भश्च संकोचो भङ्ग एव वा ॥
समकं नयनं भेदः स्वेदो वमथुरेव च ।
अक्षिरोगाश्च जायन्ते ते तथोक्ता य एव च ॥
अपानश्चापि ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ससंभवस्तथा घनः ।
शूलं च गलगण्डं च ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
॰॰॰ कद्वयेऽपि कु. १ स्तर° । २ क. °द्विसंस्थितः । ३ क. °क्वविरो° । ४ क.
यथोक्ता ।
करणाश्च° । ५ क.

२० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१७
इन्द्रियाणां निरोधात्स्यादुदावर्तश्च दारुणः ।
शर्करावस्तिशूलं च सङ्गोमूत्रपुरीषयोः ।
इत्येष व्याधिनिर्देशो भेदाश्च बहवः स्मृताः ॥
अथ श्लेष्मप्रकोपेण गौरवं स्तम्भ एव च ।
श्वेताभासो भवेन्नागः कण्ठश्लेष्मस्य* जायते ॥
हृदयं पीड्यते वाऽस्य यवसं नाभिनन्दति ।
भोजनस्य विपाकश्च क्षयश्चैव तथा भवेत् ॥
अथ पित्तप्रकोपेण पीतगात्रो भवेद्विपः ।
मृदुशीताभिलाषश्च मूर्छा शोकश्च जायते ॥
शोणितस्य प्रकोपेण पाण्डुरोगश्च जायते ॥
दह्वः कृमिकोष्ठश्च वपुर्वैवर्ण्यमेव च ।
एतान्येव तु सर्वाणि वातपित्तकफासृजाम् ।
दोषाणां संनिपातेन प्राणादींश्चात्र लक्षयेत् ॥
एवमेतदधिष्ठानं चेतनाधातुसंज्ञितम् ।
अव्यक्ताश्चैव राजेन्द्र देवब्रह्मगुणोर्जनम् ॥
अधिष्ठानस्य गोप्ता तु *विज्ञतां चेन्द्रियेण तु ।
जीव एष महाराज स्वगुणासंज्ञितो भवेत् ॥
एते दात्वग्गणसंयुक्तौ(?) देहिने विप्रभोजने ।
प्राणापानौ च पश्चा वा(?) भूत्वा वायुः शरीरिणाम् ॥
•••• •••• •••• •••• •••• •••• •••• बिभर्ति भगवान्प्रभुः ।
सर्ववातात्मकं विद्याज्जगत्स्थावरजङ्गमम् ॥
मनोवाक्कायचेष्टासु विश्वरूपो हि मारुतः ॥
तस्मात्सदाविहारैः—स्नेहनैर्बृंहणैर्हितैः ।
प्राणानां रक्षणार्थं च वीते यत्नं समाचरेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
माहपाठ उत्कर्णको नाम विंशोऽध्यायः ॥ २० ॥

  • 'श्लेष्माऽपि' इति भवेत् । * 'विज्ञाता' इति स्यात् ।
    १ क. ॰प्मश्च जा॰ । २ क. ॰गार्त्तन॰ । ३ क. एव ।
    २८

२१८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
अथैकविंशोऽध्यायः ।
अयमन्यो महाराज व्याधिर्वातगतिस्तु यः ॥
प्रोच्यते वारेणेन्द्राणां कष्टः संज्ञाप्रणाशयः ॥
रूक्षैः कषायरूक्षैर्वा वोतलैरुपसेवितैः ॥
रसैर्वातगतिर्विद्यान्न्यायमेन क्षणेन च ॥
(?)मस्तुवाच्यकस्माद्द्वानं घनेनोपवनेन वा ॥
तत्र खलु भो वातगतिव्याध्युपसृष्टस्य निदानानीमानि भवन्ति । तद्यथा —
भ्रमति पतति विह्वलति *गुह्यति स्तनति न विजानाति संज्ञां, प्रत्यर्थं वेद-
यति +प्रहीत्युक्तेनापि सर्पति निषीदत्युत्तिष्ठति क्षम्यमाणः कुध्यति स्तम्भं पर्यैति
स्थूलोच्छ्वासश्वान क्षमेन(?)ते सर्वमिच्छति हन्तुमुन्मत्त इव भवति ॥
तस्यैवं वातगतिव्याध्युपसृष्टस्य प्रातरनाशितस्य *सुरा प्रसन्ना वाट्यहिवात-
या(?)मनुद्वरीसनयुक्तां दद्यात् । अथैनं *पवसा नकुलस्य माषसर्षपक्ष्वड्क-
ष्टुकमत्स्यैः सघृतैर्धूपयेत् । भूयश्च सर्जरसमरिचहिङ्गुमनःशिलाभिः सघृताभिर्धू-
पयेत् । ततश्च कर्कटककटुकालाबूनदीमत्स्यशकलैः सघृतैर्धूपयेत् । अथवा
ह्रीवेरोशीरबिल्वस्योनाकमांसीमञ्जिष्ठाकुष्ठहिङ्गुलाक्षासगरतरुणबिल्वैः सघृतैर्धू-
पयेत् । मरिचमनःशिलासूक्ष्मैलाभिः पयसा श्लक्ष्णं पिष्ट्वाऽञ्जनं कुर्यात् ।
हिङ्गुमरिचशिखिपित्तैराञ्जतस्य प्रत्यञ्जनं कुर्यात् । तक्षाया(?)ग्निमन्थनक्तमा-
लपाटलीपत्रभङ्गाञ्जले क्वाथयेत् । दद्याद्वा त्रिरण्डतर्कारीमांसीमूलानि । ततश्च
च तुषं भवता(?)परिसाध्य तेन निष्क्वाथेन विधिवद्धृतं विपाच्य कुलत्थरसेन
सह पाययेन्नागम् । उभयोः पञ्चमूलयोर्निष्क्वाथेन मुद्गयूषं सुस्नोष्णं सघृतं पाय-
येत् । भोजयेच्च । ततश्चैनं यवसानि यथोक्तानि वातप्रशमनानि दद्यात् ॥
तत्र श्लोकः—
विविधैरुपक्रमैः शेषैर्वातगतिं समीक्ष्य मेधावी ।
प्रयत्ननाणु चिकित्सितुमुपेक्षेहेति(?)मानहमिति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महापवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने वातगतिर्नामैकविंशोऽध्यायः ॥ २१ ॥

  • 'न्यामयेन' इति स्यात् । * 'मुह्यति' इति स्यात् । + 'एहीत्युक्तोऽपि न'
    इति स्यात् । * द्वितीयान्ते स्याताम् । * 'वसया' इति स्यात् ।
    १ क. कष्टं संज्ञाप्रणाशनम् । २ ख. वातैलै°। ३ क. °स्माद्दनघ°।

२२ मन्याग्रहाध्यायः ] हस्त्यायुर्वेदः । २१९
अथ द्वाविंशोऽध्यायः ।
अङ्गाधिपतिरव्यग्रं पालकाप्यं द्विजर्षभम् ।
विनयेनोपसंगम्य पप्रच्छ स कृताञ्जलिः ॥
यथा मन्याग्रहो व्याधिः प्रादुर्भवति हस्तिनाम् ।
साध्यः स च यथा वैद्यैस्तन्मे व्याचक्ष्व पृच्छतः ॥
तस्प तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ।
शृणु सर्वं विशेषेण व्याधिं मन्याग्रहं नृप ॥
सादानं च निदानं च तथैव सचिकित्सितम् ।
सहसा वा प्रसक्तं वा वर्णादानेन वाह्यते ॥
धावतः प्लवतो वाऽपि सहसाऽङ्कुशनिग्रहात् ।
वने प्रतिगजस्तम्भकलादिभिरथापि वा ॥
असम्यक्कार्यतो वाऽपि वारणस्य च वा वधम् ॥
प्रतिहस्त्यभिघाताद्वा प्रकोपादनिलस्य च ।
एवमादिभिरन्य

संयुतम्->भोजयेद्द्युषसंयुतम्orभोजयेद्द्यूषसंयुतम्! Wait, look at the letter after it: IS IT ष? Look at हvsष: In ष, it's a पwith an oblique crossbar from top-left to bottom-right! Does this letter have an oblique crossbar? NO! It is open, curving left, then right: it has the distinct shape ofह! Wait, could it be ह? Wait, what about भोजयेद् ग्रहसंयुतम्? No. Let's look at the letters very closely: भो-ज-ये-द्- [glyph] -सं-पु/यु-तं Wait, could the glyph beद्रुह? द्रूह? Let's write what is literally printed: It looks like द्द्रूहसंयुतम्orद्व्रूहसंयुतम्orद्ब्रूहसंयुतम्orद्बृहसंयुतम्. Wait, look at द्+ह्रू? द्+द्रू? Wait, could it be भोजयेद्द्रूहसंयुतम्`?
Let

२४ कृशाध्यायः ] हस्त्यायुर्वेदः । २२१
❊पश्यर्तुसुखसङ्गं च सुखस्थानं च वारणः ।
भवेत्सुखावलोनश्च यथासुखपरिक्रमः ॥
पेशलैर्मधुरैः स्निग्धैर्बृंहणीयैरुपाचरेत् ।
मदक्षीणं गजं सम्यग्यवसैः पानभोजनैः ॥
वक्ष्यते समदोषश्च मदोत्पत्तिविनिश्चयम् ॥
मनीषिभिर्मदो दृष्टः स्वस्थवृत्ते तु हस्तिनाम् ॥
सोपद्रवचिकित्सा च प्रभिन्नेषु प्रपद्यते ।
मेदे व्यप(प)गते क्षीणं तं सम्यग्बृंहयेद्गजम् ॥
इक्षुभिः शालिपादेन दूर्वया हरितैस्तृणैः ।
पल्लवैः कुवलैश्चैनं तर्पयेद्विधिवद्विपक् ॥
एवं यस्तर्पयेत्सम्यग्बृंहणीयैरुपक्रमैः ।
समुद्रवसनां कृत्वा स² राजा वसुधां जयेत् ॥
आरोग्या बलवन्तश्च वारणास्तस्य भूमिप ।
भवन्ति संधेयमदाः संग्रामे च जयावहाः ॥
योगेनैतेन राजेन्द्र यस्तु प्रक्रमते द्विपान् ।
कालाः कालेषु माद्यन्ति वयोतीता अपि द्विपाः ॥
ये च नष्टर्तुका नागा ³ये चर्तुसुनियोजिताः ।
सुपुष्टाश्चापि ते राजन्मदं गृह्णन्ति वारणाः ॥
इत्यब्रवीत्पालकाप्यो राज्ञा⁴ऽङ्गेन प्रचोदितः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने महा-
पाठे मदक्षीणे नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
अथ चतुर्विंशोऽध्यायः ।
बभूव राजा प्रथितः पृथिव्यां महाधिपः शक्रसमप्रभावः ।
हुताग्निहोत्रं परमं मुनीनां सत्सत्यवेदव्रतधर्मयुक्तम् ॥
राजा द्विपानां हितकाममूचे तं पालकाप्यं शिरसा प्रणम्य ।
यः ⁵पोष्यमाणो विविधैः प्रयोगैर्नाऽऽप्यायते क्षीयत एव नागः ॥
❊ 'पञ्चर्तु सुखशय्यं' इति भवेत् ॥
१ ख. मद्ये वय° । २ क. स च राजा वसुंधराम् । आ° । ३ ख. ये चात्र
सु° । ४ क. ख. राज्ञा । ५ क. प्रोष्पमाणो ।

३२२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
तस्य क्रमाप्यायनकारणं तु यथागमं मे भगवान्ब्रवीतु ।
स एवमुक्तस्तु नराधिपेन भृशं सुनिश्चित्य मुनिर्बभाषे ॥
महाभयाद्वायुशिराः कोपयति वृद्धा•••• •••• •••• •••• ।
तस्य प्रकोपाद्यवसानपानैर्नाऽऽप्यायते क्षीयत एव नागः ॥
यत्क्षीयते तेन कृशः स नागस्तस्यापि कार्यं कुशलेन शीघ्रम् ।
वक्ष्याम्यहं तेन तु राजसिंह कृष्णं बलं क्षीणविधिर्यथावत्‌ ❊ ॥
विरेचनं तस्य तु सर्पिषेव शुद्धे च कोष्ठे त्वथ बृंहणं स्यात् ।
मनःप्रसादं जनयेत्तदाऽस्य प्रीतिर्बलं चैव विवर्धतेऽस्य ॥
मेहांश्च दद्यात्कवलानथास्मै ❊ •••• •••• •••• •••• •••• •••• ।
काकोलितर्कार्यमृतात्मगुप्ताविदार्यपामार्गयुताश्वगन्धा ॥
एरण्डमूलं त्वथ मुद्गपर्णी प्रतिस्वभावं नयति स्वमांसम् ॥
समाषपर्णी सहिरणय ❊ •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• ˙˙कारा सपारिभद्रा त्वथ शाल्मली च ॥
आवर्तसीन्वा(?) सहितोऽग्निमन्थस्तथाऽऽटरूषं सह कच्छुराभिः ।
एवं प्रकाराणि च बृंहणानिं सांकर्षयुक्तानि यथाक्रमेण ॥
दद्याददाहीनि समीक्ष्य काले यथाग्निमात्रं कवलांस्तु मुख्यान् ।
सधन्वनां शेलुशिरीषकाभ्यां समोरटां क्षीरविदारिकां च ॥
प्राग्भोजने चोत्तरभोजने वा त्रीन्द्रौ तथैकं कवलं तु मुख्ये ।
पलानि विंशत्यल(?) संख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्च ॥
नो क्षीरपानं सघृतं च देयं प्रागुत्थितस्थानगताय दद्यात् ।
शाल्योदनं चैव घृतोदनं च तृतीयभागेऽहनि सत्त्वभोज्यम् ॥
भूपस्तथा सात्म्यविशुद्धिहेतु परीक्ष्य नागं च दृशैव काले ।
मृदुः सुसिद्धं विशदं च भोज्यं शाल्योदनं सस्फुरितं च घासम् ॥
कुलेचराणां जलचारिणां च सर्वाणि मांसानि हितानि राजन् ।
स्थाल्यां सुसिद्धानि घृतोत्तराणि भोज्यस्तथा दाडिमसाधितानि ॥
कल्पे तु दत्ते द्विरदो ❊ •••• •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• ˙˙दभोज्यः तदन्नशेषं च रसानुपानम् ॥
आनूपसत्त्वोदकजाङ्गलानां मज्जावसाभिः खलु तस्य देया ॥
❊ एकतमे खपुस्तके त्रुटिचिह्नं वर्तते ॥ ❊ पुस्तकद्वयेऽपि त्रुटिचिह्नं दृश्यते ।
१ क. ॰सीत्वा । २ ख. ॰नि सापुर्यं ।

[१ श्लेष्माभिषन्नाध्यायः ] हस्त्यायुर्वेदः । २२३
ज्ञात्वा त्ववस्थासहशं च काले कृशं विदित्वा श्रमपीडितं च ।
सदाहमूर्च्छाभ्रमयुक्तमेनं पादेषु गाढं परिगाढयेत ।
शेषं विधानं तु कृशेषु पत्स्यात्क्षेपेषु तद्वक्ष्यति विस्तरेण ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
चतुर्विंशः कृशाध्यायः ॥ २४ ॥
अथ पञ्चविंशोऽध्यायः ।
अथ बलक्षीणमध्यायं व्याख्यास्यामः ॥
इति ह स्माऽऽह भगवान्पालकाप्यः । विराट्पृच्छति मयेङ्गजयेन्नित्यम् (?)²
न चापि तैलं न घृतं न दुग्धं न चापि मांसं न रसं त्यमन्य(?)
मद्येन शुध्येत्सकणैस्तृणैश्च .... .... .... .... .... .... .... .... .... ।
अवद्रुमांसो वठरोऽतिमात्रं न च स्थिरः कर्मसु संप्रगत्तम्³ ।
स हीयते यो द्विरदो बलेन तस्माद्बलक्षीण इति प्रदिष्टः ॥
उत्साहतेजोबलविप्रयोगाद्व्याधिः स्पृशत्येवमतीव कष्टः ।
तैलं घृतं वा स तु सप्तरात्रं शुद्धं पिबेत्स्नेहविधौ यथोक्तम् ॥
मायूरवाराहरसैर्याथावदैणैश्च लावैश्च कौकुटैश्च ।
स्निग्धै रसैर्जाङ्गलजैश्च भोज्यः शाल्योदनं तांश्च रसान्पिबेत्सः ॥
सफाणितां वाऽपि पिबेत्प्रसन्नां चिरस्थितां चापि तथाऽऽसवं तु ।
शृङ्गाटकीनेक्षुविशानि¹ दूर्वा सफाणितं स्याद्यवसं विधेयम् ॥
स्निग्धैश्च पथ्यैश्च रसैर्यथावत्संवर्धयेत्तस्य बलं द्विपस्य ।
संजातवीर्यं बलसंप्रयुक्तं क्रमेण कर्माण्यपि कारयेत ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहांप्रवचने द्वितीये क्षुद्ररोगस्थाने
बलक्षीणो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
अथ षड्विंशोऽध्यायः ।
अथातः श्लेष्माभिषन्ननामाध्यायं व्याख्यास्यामः ॥
(इति ह स्माऽऽह भगवान्पालकाप्यः ।) श्लेष्माभिषण्णः संभवति स्निग्धमधुर-
गुरुघनशिशिरपेशलाहारस्य दधितिलपललगुडविविधजलचरानूपमांसरसनक्र-
१ क. ॰दशानि का॰ । २ ख. ॰येज्ञायन्ति॰ । ३ क. ॰र्म च सं॰ ।

मकरशिशुमारकुक्कुटकोरभ्रमहिषवराहमांसरसभोजनान्नित्यं सुविहितानवययवस-
कवलकुवलपल्लवोपयोगाद्व्यायामादध्वपरिसरणीं क्षीरवसामेदःसर्पिषामतिसेव-
नाद्वा श्लेष्मा प्रवृद्धः सर्वशरीरमभिव्याप्य जनयति कुष्ठकिंटिम (?) दद्रुपटलक-
ण्डूकिलासानि । तस्योष्णतीक्ष्णकटुकलवणतिक्तकषायाणि भक्ष्यभोज्यपेयले-
ह्यानि दद्यात् । अस्नेहलवणान्यवान्कोद्रवान्मुद्गकुलत्थयोरन्यतमस्य यूषेणाभो-
ज्ययवसानि चोष्णवीर्याणि यवसाद्या प्रोक्तानि दापयेत् । वद्ध्वासवकषायपा-
नानि यथायोगं दद्यात् । त्वग्दोषाणां प्रवृद्धानां प्रच्छन्नच्छेदनलेखनदहना-
हरणानि यथायोगं कुर्यात् । द्विव्रणीयोक्तेन विधिना यथाशास्त्रमुपाचरेत् ।
( *सर्षपहरितालकीसीसरात्रिकारसाञ्जनमनःशिलाभिर्

२८ तलकाशी नामाध्यायः ] हस्त्यायुर्वेदः २२६
न्दभीरुं च पनसफलशतावरीशृङ्गाटककसेरुकपद्मबीजानि वनसात्म्यानुलोमिकं
भक्ष्यं दद्यात् । यवसान्यौदकानि विचित्राणि मृदूनि हरितानि वनसात्म्यानु-
लोमिकं भक्ष्यं दद्यात् । भल्लातकमधुक्षीरकोमलकल्कं सकपोतनाद्युतं काञ्चनव-
ग्रहणां मनःसंतापंदं वा वनसात्म्यानुलौमिकं भक्ष्यं दद्यात् । कदलीभल्लातक-
पारामधूकारिवदनामूलानि नवग्रहाणां• वातगुल्मप्रशमनार्थं वनसात्म्यानुलो-
मिकं भक्ष्यं दद्यात् । अश्मन्तकप्लक्षपनसशलकीचन्दनशिरीषिकाभल्लातकम-
धूकप्रियालानां मूलानि यवगण्डासारगलग्रहवमथुवातश्लेष्मविकारप्रशमनार्थं
वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् ॥
तत्र श्लोकः—
उत्सृज्य सर्वकर्माणि मुखद्वाराणि शोधयेत् ।
अन्नायत्तं हि नागानामारोग्यं जीवितं बलम् ॥
मुखद्वारविशुद्धस्य वारणस्य महीपते ।
रोगाः सम्यक्प्रशाम्यन्ति बलं मांसं च वर्धते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
वनसात्म्यानुलो²मिकनामा सप्तविंशोऽध्यायः ॥ २७ ॥
══════════════════════
अथाष्टाविंशोऽध्यायः ।
══════════════════════
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
तलकाशीं सभैषज्यं सनिदानं प्रचक्ष्व मे ॥
तस्मै प्रोवाच भगवानङ्गाय परिपृच्छते ।
तलकाशीं सभैषज्यं सनिरुक्तं ससंभवम् ॥
रक्तपित्तकफाः कोष्ठे सवाताः कुपिता यदा ।
तले यतः प्रकाशन्ते तलकाशी ततस्तु सः ॥
स दुर्बलस्ततो नागः शरधानाश्मलोष्ट्रसु ॥
स्थाणुनाऽभिहि(ह)तो वाऽपि घृष्टो वा परिधावनात् ।
मूर्खप्रयुक्तो मुक्तो वा तथाऽतिगमनादपि ॥
नदीतटगिरीणां वा विषमाणां परिक्रमात् ।
शर्करादग्धभूमीनामूषराणां च सेवनात् ॥
──────────────────────────────────────────────────────────
१ क. काञ्चनं नवग्रहाणां । २ क. ॰मिकं ना॰ ।
२९

  • णु = क्ष्णु.
    Yes, "क्ष्णुपात्तस्य" (or "क्ष्णुपात्तस्य").
    शस्त्रेण शोध्यं बलिनस्कृतं स्फुटितमेव च ॥
    सशोणितं सपूयं च क्ष्णुपात्तस्य तत्तलम् ।
    शस्त्रकर्म क्षते कुर्यात्तलानां दहनं हितम् ॥
    मधूच्छिष्टं गुडं तैलं मज्ज मेदश्च पाचयेत् ।
    योगेनेतेन तप्तेन दाहयेत्कुशलो भिषक् ॥
    अर्जुनस्याश्वकर्णस्य निम्बस्य खदिरस्य च ।
    अङ्गारैरसनस्यापि तापयेत्कुशलः शिलाम् ॥
  • भज्यन्ते इति भवेत् ॥ * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
    १ क. ख. लङ्घ्यते ।

Everything is thoroughly verified and accurate.२२६ पालकाप्यमुनिविरचितो— [ ९ क्षुद्ररोगस्थाने-
क्षतो वाऽप्यतिघृष्टो वा पच्यते च ततस्तलः ।
स्फुटिताश्चोद्धता वाऽपि विशीर्यन्

२८ तलकाशी नामाध्यायः ] हस्त्यायुर्वेदः २२७
अपनीय ततोऽङ्गारानग्निर्व्वाणान्न्यथा शिलाम् ।
तस्यां शिलायां मेदांसि पालिं कृत्वा प्रदापयेत् ॥
वराहमहिषाजानामेकैकं स्थापयेत्तलम् ।
क्रव्यान्मेदांसि संगृह्य पादं नागस्य लेपयेत् ॥
श्वाविच्छल्यकगोधानां शूकरस्य च मेदसा ।
सफाणितं घृतं पक्वं तलनिर्वापणं हितम् ॥
कूर्मकर्कटमत्स्यानां मेदो नक्रस्य वा हितम् ।
तले निर्वापणं कार्यं पक्वमग्नौ कृतं घृतम् ॥
गुडेन सह कासीसं कांस्यनीलं विपाचयेत् ।
प्रलिप्तं तलमेतेन चर्मणा छादयेत्ततः ॥
समङ्गां धातकीपुष्पामश्वकर्णप्रियङ्गुवः ॥
तलानां शमनं कार्यं कल्कं पिष्ट्वा प्रलेपनम् ।
रोचना रोहिणीलोध्रकुष्ठं सर्जरसं तथा ॥
त्रिफलां चैव नागानां तलानां स्तम्भनं भवेत् ।
कुटजस्योदुम्बराणां किणिह्याः प्रियकस्य च ॥
ककुभां सोमवल्कस्य त्वचं संक्वाथयेज्जले ।
एतत्प्रक्षालनं कार्यं श्वयथुकृमिनाशनम् ॥
स्फुटितं नखरोमं च कण्डूशोणितनाशनम् ।
केशानां—प्रशान्त्यर्थमेतदेव प्रशस्यते ॥
(*दत्त्वैवं गजस्य) ततो घृतस्निग्धं प्रदापयेत् ।
प्रसन्नां प्रतिपानार्थे पिबेत्फाणितसंयुताम् ॥
विचित्रैर्यवसैर्नित्यं तस्य प्राणं च विचते ।
[L2

[Page Header]
२२८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-


लेपयेच्चात्र कृमयो रक्तमांसेषु ये श्रिताः ॥
तत्समीक्ष्याऽऽहरेद्वैद्यः शनैर्बडिशसूचिभिः ।
कृमयस्ते च लक्ष्यन्ते स्थूला ह्रस्वाश्च पार्थिव ॥
कृष्णाश्च श्वेतशिरसो विपरीतास्तथाऽपरे ।
उद्धृतेषु च कर्तव्यो विधिर्व्रणविधावजैः ॥
असाध्यमपि चावेक्ष्य कुर्यात्क्षारादिभिः क्रमात् ।
न *बद्धा मयकर्माणि कारयेत मतङ्गजम् ॥
स्थाने पानाशनं दद्यात्सिद्धे व्रणचिकित्सिते ।
शनैस्त्वाक्रामयेन्नागमहन्यहनि पार्थिव ।
यावन्न बलवान्नागस्तावच्च व्रणरोपणम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
तलकाशी नामाष्टाविंशोऽध्यायः ॥ २८ ॥


अथैकोनत्रिंशोऽध्यायः ।
—————
अथाङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्—भगवं(†श्रलनादिगुणविशेषा हस्ति-
नश्चरणतलाश्रयाः, अतस्तलकाशिनं ससंभवचिकित्सितं व्याख्यातुमर्हसि ॥
अथोवाच भगवा)न्पालकाप्यः—इह खलु भो रक्तपित्तकफमारुता नखरत-
लाश्रितास्तलकाशिनमापादयन्ति ॥ अथवा—कण्टकरशर्करोपेलवतां यथा मर्द-
नाङ्गनग्रहणप्रचारपर्वतनदीतटविषैदग्धभूम्यूषरप्रदेशानां सहसा सेवैनेरसद्रुला-
याक्षः(?)प्रयोगात्, अथ प्रहर्षेण स्कन्नपङ्कमार्गसेवैनेर्दृष्टवाराहत(?)स्थाणुनाऽभि-
हता वा हस्तिनस्तला विपद्यन्ते । ततस्तलतोऽप्रबलदूष्यर्थगा स्फुटानामभि-
भवन्ति । विक्षोभयोस्तव्यपन(?)स्तमाहुस्तलकाशीति ॥
चिकित्सितमतोऽस्य—चतुर्थीं दशामनुप्राप्तांस्तलकर्मणोपचरेत् । वयोती-
तबलक्षीणांश्च तलकर्मणा नोपचरेत् । तेजोजवबलसंपन्नमपि क्षततलमध्वनि न
योजयेत् । तलानां रक्षणार्थं हस्तिनं स्थानान्तरे रक्षयेत् । तस्य च गात्रा-
भ्यङ्गं भोजनं च स्नेहसंयुक्तं दद्यात् । पूर्वोक्तेषु तिथिनक्षत्रेषु तलकर्म कारयेत् ।
उद्धूतावधूतप्रतर्मासं च तलकाशिनं शस्त्रेणापह्ररेत् । गुडमधूच्छिष्टाजमेदःसं-
युक्तेन तैलेन सम्यग्विषकेन मुहुस्तलतापनं कुर्यात् । खदिरककुभनिम्बार्क-


[Footnotes]
* 'बद्ध्वा' इति स्यात् ॥ † धनुराकारमध्यस्थः पाठो न कपुस्तके ।
१ क. स्थिताः । २ क. °पलानां य° । ३ क. °षमद° । ४ क. °न्तरं नयेत्।

Here is the line-by-line transcription of the page:

२९ तल्काशचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । २२९
णारग्वधवासनानामङ्गारैः शिलां तापयित्वा महिषवराहराजमेषोष्ट्रवसैरवसेचयेत् ।
ततो वारणानामेकैकेन तलेन तत्र क्रमान्कारयेत् । वाराहगोधामार्जारविच्छल्यक-
मेषमेदःफाणितविपक्वेन घृतेन निर्वापणं कुर्यात् । अथवा—मक्रकुलीरककच्छप-
मेदोभिः सह घृतं पक्रमग्निकर्मण्युपरते निर्वापणं स्यात् । कासीसं कांस्यनीलं
च गुडेन सह निपाच्यते । तेन प्रलिप्यास्योपानहतल(र)क्षणार्थं कुर्यात् । अव-
सेचयेद्धस्तिनं मूलत्वात्(?) । तत्र धातकीपुष्पसमङ्गाश्वकर्णत्वक्प्रियङ्गुभिः कल्क-
पिष्टाभिस्तलानां स्तम्भनार्थं प्रलेपं दद्यात् । रोहिणीलोध्रसर्जरासत्रिफलासोम-
वल्कैः कल्कपिष्टैस्तलस्तम्भनार्थं प्रलेपं द

पालकाप्यमुनिविरचिते— [२ क्षुद्ररोगस्थाने]
२३०
तत्र श्लोकाः—
ततः कुर्युः क्रियाः सर्वाः पादरोगे प्रकीर्तिताः ।
यदिदं सेवते नैव तैलं कुर्यान्नराधिप ॥
न स्रवन्ति न पच्यन्ते न क्षीयन्ते स्फुटन्ति न ।
स्पृष्टास्तैलकषायेण प्रयोगेण स्थिरास्तलाः ॥
सुखमाक्रमते भूमिं समेषु विषमेषु च ।
अध्वनो गमने नित्यं जवश्चास्य न पीडयेत् ॥
अनेन विधिना राजन्यो वैद्यस्तलकाशिनम् ।
साधयेच्च महाराज स पूज्यः सततं नृपैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तल-
काशचिकित्सितनामाऽध्याय एकोनत्रिंशत्तमः ॥ २९ ॥
अथ त्रिंशत्तमोऽध्यायः ।
अथाङ्गपतिरमरपतिसदृशवपुरुडुपतिसदृशवदनः कमलसदृशनयनः, परिपू-
र्णगोवृषस्कन्धः पृथुविपुलरुचिरवक्षा आजानुदीर्घबाहुरुग्रवाञ्छितचारुगामी
जनकान्तं भगवन्तं पालकाप्यं हृतभाजमिव तपसो दास्यमानमृषिवरमभिवाद्य
कृताञ्जलिरुवाच रोमपादः—'कथं भगवन्पा(*लकाप्य वारणानां गलग्रहः
संभवति, कथं वा साध्यासाध्यः, तन्मे व्याख्यातुमर्हति । शुश्रूषुरस्मि'—इति ॥
स एवमुक्तः प्रोवाच भगवाम्पा)लकाप्यः—इह खलु भो महाराज प्रायेण
हि नवगृहीतानां नागानां यूथवियोगाद्धेनुकास्मरणात्पवनोभितापमापाद्यन्क-
ण्ठगलकपोलप्रदेशान्विष्टभ्य गलग्रहं जनयति ग्राम्याणामपि । यदा तु वारणः
स्निग्धमधुरशिशिरानूपजलजयवसकमलशैवलगुरुरूक्षभोजनः कफपवनजननभू-
यिष्ठाहारचेष्टशीतकल्लुषगुरुसलिलपानप्रायो रूक्षाभिष्यन्दिसेवी तस्य सहसा
पवनसंसृष्टः प्राणापानसमानोदानव्यानाभिप्रः कण्ठमासाद्य तिष्ठति कफः । स
जनयति गलग्रहम् । ततः स तेनाभ्यवहर्तुमाहारं यवसकवलकुवलपल्लवानाम्-
न्यतमं न शक्नोति । प्रस्पन्दमानतलवह्वली तलक्षितक इव भवति । यस्तु स्वनय-
नगलहनुकपोलसृक्कोष्ठमन्यासगदो गुरुकुरगुरुमक्षिकाश्च नीलं श्यावं लोहितं
विवर्णं वमथुं पूतिमुद्गिरति, कम्पते पूर्वकायमुदस्यति, लाला चास्य जिह्वामू-
✻ धनुराकारमध्यास्थो नास्ति पाठः कपुस्तके ।
१ ख. हृतं भजं ।