सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 242, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 242

[१ श्लेष्माभिषन्नाध्यायः ] हस्त्यायुर्वेदः । २२३
ज्ञात्वा त्ववस्थासहशं च काले कृशं विदित्वा श्रमपीडितं च ।
सदाहमूर्च्छाभ्रमयुक्तमेनं पादेषु गाढं परिगाढयेत ।
शेषं विधानं तु कृशेषु पत्स्यात्क्षेपेषु तद्वक्ष्यति विस्तरेण ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
चतुर्विंशः कृशाध्यायः ॥ २४ ॥
अथ पञ्चविंशोऽध्यायः ।
अथ बलक्षीणमध्यायं व्याख्यास्यामः ॥
इति ह स्माऽऽह भगवान्पालकाप्यः । विराट्पृच्छति मयेङ्गजयेन्नित्यम् (?)²
न चापि तैलं न घृतं न दुग्धं न चापि मांसं न रसं त्यमन्य(?)
मद्येन शुध्येत्सकणैस्तृणैश्च .... .... .... .... .... .... .... .... .... ।
अवद्रुमांसो वठरोऽतिमात्रं न च स्थिरः कर्मसु संप्रगत्तम्³ ।
स हीयते यो द्विरदो बलेन तस्माद्बलक्षीण इति प्रदिष्टः ॥
उत्साहतेजोबलविप्रयोगाद्व्याधिः स्पृशत्येवमतीव कष्टः ।
तैलं घृतं वा स तु सप्तरात्रं शुद्धं पिबेत्स्नेहविधौ यथोक्तम् ॥
मायूरवाराहरसैर्याथावदैणैश्च लावैश्च कौकुटैश्च ।
स्निग्धै रसैर्जाङ्गलजैश्च भोज्यः शाल्योदनं तांश्च रसान्पिबेत्सः ॥
सफाणितां वाऽपि पिबेत्प्रसन्नां चिरस्थितां चापि तथाऽऽसवं तु ।
शृङ्गाटकीनेक्षुविशानि¹ दूर्वा सफाणितं स्याद्यवसं विधेयम् ॥
स्निग्धैश्च पथ्यैश्च रसैर्यथावत्संवर्धयेत्तस्य बलं द्विपस्य ।
संजातवीर्यं बलसंप्रयुक्तं क्रमेण कर्माण्यपि कारयेत ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहांप्रवचने द्वितीये क्षुद्ररोगस्थाने
बलक्षीणो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
अथ षड्विंशोऽध्यायः ।
अथातः श्लेष्माभिषन्ननामाध्यायं व्याख्यास्यामः ॥
(इति ह स्माऽऽह भगवान्पालकाप्यः ।) श्लेष्माभिषण्णः संभवति स्निग्धमधुर-
गुरुघनशिशिरपेशलाहारस्य दधितिलपललगुडविविधजलचरानूपमांसरसनक्र-
१ क. ॰दशानि का॰ । २ ख. ॰येज्ञायन्ति॰ । ३ क. ॰र्म च सं॰ ।