सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 244, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 244

२८ तलकाशी नामाध्यायः ] हस्त्यायुर्वेदः २२६
न्दभीरुं च पनसफलशतावरीशृङ्गाटककसेरुकपद्मबीजानि वनसात्म्यानुलोमिकं
भक्ष्यं दद्यात् । यवसान्यौदकानि विचित्राणि मृदूनि हरितानि वनसात्म्यानु-
लोमिकं भक्ष्यं दद्यात् । भल्लातकमधुक्षीरकोमलकल्कं सकपोतनाद्युतं काञ्चनव-
ग्रहणां मनःसंतापंदं वा वनसात्म्यानुलौमिकं भक्ष्यं दद्यात् । कदलीभल्लातक-
पारामधूकारिवदनामूलानि नवग्रहाणां• वातगुल्मप्रशमनार्थं वनसात्म्यानुलो-
मिकं भक्ष्यं दद्यात् । अश्मन्तकप्लक्षपनसशलकीचन्दनशिरीषिकाभल्लातकम-
धूकप्रियालानां मूलानि यवगण्डासारगलग्रहवमथुवातश्लेष्मविकारप्रशमनार्थं
वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् ॥
तत्र श्लोकः—
उत्सृज्य सर्वकर्माणि मुखद्वाराणि शोधयेत् ।
अन्नायत्तं हि नागानामारोग्यं जीवितं बलम् ॥
मुखद्वारविशुद्धस्य वारणस्य महीपते ।
रोगाः सम्यक्प्रशाम्यन्ति बलं मांसं च वर्धते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
वनसात्म्यानुलो²मिकनामा सप्तविंशोऽध्यायः ॥ २७ ॥
══════════════════════
अथाष्टाविंशोऽध्यायः ।
══════════════════════
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
तलकाशीं सभैषज्यं सनिदानं प्रचक्ष्व मे ॥
तस्मै प्रोवाच भगवानङ्गाय परिपृच्छते ।
तलकाशीं सभैषज्यं सनिरुक्तं ससंभवम् ॥
रक्तपित्तकफाः कोष्ठे सवाताः कुपिता यदा ।
तले यतः प्रकाशन्ते तलकाशी ततस्तु सः ॥
स दुर्बलस्ततो नागः शरधानाश्मलोष्ट्रसु ॥
स्थाणुनाऽभिहि(ह)तो वाऽपि घृष्टो वा परिधावनात् ।
मूर्खप्रयुक्तो मुक्तो वा तथाऽतिगमनादपि ॥
नदीतटगिरीणां वा विषमाणां परिक्रमात् ।
शर्करादग्धभूमीनामूषराणां च सेवनात् ॥
──────────────────────────────────────────────────────────
१ क. काञ्चनं नवग्रहाणां । २ क. ॰मिकं ना॰ ।
२९