सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 240, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 240

२४ कृशाध्यायः ] हस्त्यायुर्वेदः । २२१
❊पश्यर्तुसुखसङ्गं च सुखस्थानं च वारणः ।
भवेत्सुखावलोनश्च यथासुखपरिक्रमः ॥
पेशलैर्मधुरैः स्निग्धैर्बृंहणीयैरुपाचरेत् ।
मदक्षीणं गजं सम्यग्यवसैः पानभोजनैः ॥
वक्ष्यते समदोषश्च मदोत्पत्तिविनिश्चयम् ॥
मनीषिभिर्मदो दृष्टः स्वस्थवृत्ते तु हस्तिनाम् ॥
सोपद्रवचिकित्सा च प्रभिन्नेषु प्रपद्यते ।
मेदे व्यप(प)गते क्षीणं तं सम्यग्बृंहयेद्गजम् ॥
इक्षुभिः शालिपादेन दूर्वया हरितैस्तृणैः ।
पल्लवैः कुवलैश्चैनं तर्पयेद्विधिवद्विपक् ॥
एवं यस्तर्पयेत्सम्यग्बृंहणीयैरुपक्रमैः ।
समुद्रवसनां कृत्वा स² राजा वसुधां जयेत् ॥
आरोग्या बलवन्तश्च वारणास्तस्य भूमिप ।
भवन्ति संधेयमदाः संग्रामे च जयावहाः ॥
योगेनैतेन राजेन्द्र यस्तु प्रक्रमते द्विपान् ।
कालाः कालेषु माद्यन्ति वयोतीता अपि द्विपाः ॥
ये च नष्टर्तुका नागा ³ये चर्तुसुनियोजिताः ।
सुपुष्टाश्चापि ते राजन्मदं गृह्णन्ति वारणाः ॥
इत्यब्रवीत्पालकाप्यो राज्ञा⁴ऽङ्गेन प्रचोदितः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने महा-
पाठे मदक्षीणे नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
अथ चतुर्विंशोऽध्यायः ।
बभूव राजा प्रथितः पृथिव्यां महाधिपः शक्रसमप्रभावः ।
हुताग्निहोत्रं परमं मुनीनां सत्सत्यवेदव्रतधर्मयुक्तम् ॥
राजा द्विपानां हितकाममूचे तं पालकाप्यं शिरसा प्रणम्य ।
यः ⁵पोष्यमाणो विविधैः प्रयोगैर्नाऽऽप्यायते क्षीयत एव नागः ॥
❊ 'पञ्चर्तु सुखशय्यं' इति भवेत् ॥
१ ख. मद्ये वय° । २ क. स च राजा वसुंधराम् । आ° । ३ ख. ये चात्र
सु° । ४ क. ख. राज्ञा । ५ क. प्रोष्पमाणो ।