सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 247, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 247

[Page Header]
२२८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-


लेपयेच्चात्र कृमयो रक्तमांसेषु ये श्रिताः ॥
तत्समीक्ष्याऽऽहरेद्वैद्यः शनैर्बडिशसूचिभिः ।
कृमयस्ते च लक्ष्यन्ते स्थूला ह्रस्वाश्च पार्थिव ॥
कृष्णाश्च श्वेतशिरसो विपरीतास्तथाऽपरे ।
उद्धृतेषु च कर्तव्यो विधिर्व्रणविधावजैः ॥
असाध्यमपि चावेक्ष्य कुर्यात्क्षारादिभिः क्रमात् ।
न *बद्धा मयकर्माणि कारयेत मतङ्गजम् ॥
स्थाने पानाशनं दद्यात्सिद्धे व्रणचिकित्सिते ।
शनैस्त्वाक्रामयेन्नागमहन्यहनि पार्थिव ।
यावन्न बलवान्नागस्तावच्च व्रणरोपणम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
तलकाशी नामाष्टाविंशोऽध्यायः ॥ २८ ॥


अथैकोनत्रिंशोऽध्यायः ।
—————
अथाङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्—भगवं(†श्रलनादिगुणविशेषा हस्ति-
नश्चरणतलाश्रयाः, अतस्तलकाशिनं ससंभवचिकित्सितं व्याख्यातुमर्हसि ॥
अथोवाच भगवा)न्पालकाप्यः—इह खलु भो रक्तपित्तकफमारुता नखरत-
लाश्रितास्तलकाशिनमापादयन्ति ॥ अथवा—कण्टकरशर्करोपेलवतां यथा मर्द-
नाङ्गनग्रहणप्रचारपर्वतनदीतटविषैदग्धभूम्यूषरप्रदेशानां सहसा सेवैनेरसद्रुला-
याक्षः(?)प्रयोगात्, अथ प्रहर्षेण स्कन्नपङ्कमार्गसेवैनेर्दृष्टवाराहत(?)स्थाणुनाऽभि-
हता वा हस्तिनस्तला विपद्यन्ते । ततस्तलतोऽप्रबलदूष्यर्थगा स्फुटानामभि-
भवन्ति । विक्षोभयोस्तव्यपन(?)स्तमाहुस्तलकाशीति ॥
चिकित्सितमतोऽस्य—चतुर्थीं दशामनुप्राप्तांस्तलकर्मणोपचरेत् । वयोती-
तबलक्षीणांश्च तलकर्मणा नोपचरेत् । तेजोजवबलसंपन्नमपि क्षततलमध्वनि न
योजयेत् । तलानां रक्षणार्थं हस्तिनं स्थानान्तरे रक्षयेत् । तस्य च गात्रा-
भ्यङ्गं भोजनं च स्नेहसंयुक्तं दद्यात् । पूर्वोक्तेषु तिथिनक्षत्रेषु तलकर्म कारयेत् ।
उद्धूतावधूतप्रतर्मासं च तलकाशिनं शस्त्रेणापह्ररेत् । गुडमधूच्छिष्टाजमेदःसं-
युक्तेन तैलेन सम्यग्विषकेन मुहुस्तलतापनं कुर्यात् । खदिरककुभनिम्बार्क-


[Footnotes]
* 'बद्ध्वा' इति स्यात् ॥ † धनुराकारमध्यस्थः पाठो न कपुस्तके ।
१ क. स्थिताः । २ क. °पलानां य° । ३ क. °षमद° । ४ क. °न्तरं नयेत्।