हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 241, कुल 742 में से
संदर्भ में पढ़ें३२२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
तस्य क्रमाप्यायनकारणं तु यथागमं मे भगवान्ब्रवीतु ।
स एवमुक्तस्तु नराधिपेन भृशं सुनिश्चित्य मुनिर्बभाषे ॥
महाभयाद्वायुशिराः कोपयति वृद्धा•••• •••• •••• •••• ।
तस्य प्रकोपाद्यवसानपानैर्नाऽऽप्यायते क्षीयत एव नागः ॥
यत्क्षीयते तेन कृशः स नागस्तस्यापि कार्यं कुशलेन शीघ्रम् ।
वक्ष्याम्यहं तेन तु राजसिंह कृष्णं बलं क्षीणविधिर्यथावत् ❊ ॥
विरेचनं तस्य तु सर्पिषेव शुद्धे च कोष्ठे त्वथ बृंहणं स्यात् ।
मनःप्रसादं जनयेत्तदाऽस्य प्रीतिर्बलं चैव विवर्धतेऽस्य ॥
मेहांश्च दद्यात्कवलानथास्मै ❊ •••• •••• •••• •••• •••• •••• ।
काकोलितर्कार्यमृतात्मगुप्ताविदार्यपामार्गयुताश्वगन्धा ॥
एरण्डमूलं त्वथ मुद्गपर्णी प्रतिस्वभावं नयति स्वमांसम् ॥
समाषपर्णी सहिरणय ❊ •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• ˙˙कारा सपारिभद्रा त्वथ शाल्मली च ॥
आवर्तसीन्वा(?) सहितोऽग्निमन्थस्तथाऽऽटरूषं सह कच्छुराभिः ।
एवं प्रकाराणि च बृंहणानिं सांकर्षयुक्तानि यथाक्रमेण ॥
दद्याददाहीनि समीक्ष्य काले यथाग्निमात्रं कवलांस्तु मुख्यान् ।
सधन्वनां शेलुशिरीषकाभ्यां समोरटां क्षीरविदारिकां च ॥
प्राग्भोजने चोत्तरभोजने वा त्रीन्द्रौ तथैकं कवलं तु मुख्ये ।
पलानि विंशत्यल(?) संख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्च ॥
नो क्षीरपानं सघृतं च देयं प्रागुत्थितस्थानगताय दद्यात् ।
शाल्योदनं चैव घृतोदनं च तृतीयभागेऽहनि सत्त्वभोज्यम् ॥
भूपस्तथा सात्म्यविशुद्धिहेतु परीक्ष्य नागं च दृशैव काले ।
मृदुः सुसिद्धं विशदं च भोज्यं शाल्योदनं सस्फुरितं च घासम् ॥
कुलेचराणां जलचारिणां च सर्वाणि मांसानि हितानि राजन् ।
स्थाल्यां सुसिद्धानि घृतोत्तराणि भोज्यस्तथा दाडिमसाधितानि ॥
कल्पे तु दत्ते द्विरदो ❊ •••• •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• ˙˙दभोज्यः तदन्नशेषं च रसानुपानम् ॥
आनूपसत्त्वोदकजाङ्गलानां मज्जावसाभिः खलु तस्य देया ॥
❊ एकतमे खपुस्तके त्रुटिचिह्नं वर्तते ॥ ❊ पुस्तकद्वयेऽपि त्रुटिचिह्नं दृश्यते ।
१ क. ॰सीत्वा । २ ख. ॰नि सापुर्यं ।