सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 246, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 246

२८ तलकाशी नामाध्यायः ] हस्त्यायुर्वेदः २२७
अपनीय ततोऽङ्गारानग्निर्व्वाणान्न्यथा शिलाम् ।
तस्यां शिलायां मेदांसि पालिं कृत्वा प्रदापयेत् ॥
वराहमहिषाजानामेकैकं स्थापयेत्तलम् ।
क्रव्यान्मेदांसि संगृह्य पादं नागस्य लेपयेत् ॥
श्वाविच्छल्यकगोधानां शूकरस्य च मेदसा ।
सफाणितं घृतं पक्वं तलनिर्वापणं हितम् ॥
कूर्मकर्कटमत्स्यानां मेदो नक्रस्य वा हितम् ।
तले निर्वापणं कार्यं पक्वमग्नौ कृतं घृतम् ॥
गुडेन सह कासीसं कांस्यनीलं विपाचयेत् ।
प्रलिप्तं तलमेतेन चर्मणा छादयेत्ततः ॥
समङ्गां धातकीपुष्पामश्वकर्णप्रियङ्गुवः ॥
तलानां शमनं कार्यं कल्कं पिष्ट्वा प्रलेपनम् ।
रोचना रोहिणीलोध्रकुष्ठं सर्जरसं तथा ॥
त्रिफलां चैव नागानां तलानां स्तम्भनं भवेत् ।
कुटजस्योदुम्बराणां किणिह्याः प्रियकस्य च ॥
ककुभां सोमवल्कस्य त्वचं संक्वाथयेज्जले ।
एतत्प्रक्षालनं कार्यं श्वयथुकृमिनाशनम् ॥
स्फुटितं नखरोमं च कण्डूशोणितनाशनम् ।
केशानां—प्रशान्त्यर्थमेतदेव प्रशस्यते ॥
(*दत्त्वैवं गजस्य) ततो घृतस्निग्धं प्रदापयेत् ।
प्रसन्नां प्रतिपानार्थे पिबेत्फाणितसंयुताम् ॥
विचित्रैर्यवसैर्नित्यं तस्य प्राणं च विचते ।
[L2