सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 232, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 232

१८ हस्तोन्मथिताध्यायः ] हस्त्यायुर्वेदः । २१३
एवं क्रियाभिर्विविधत्कृताभिर्हस्ति(स्त)ग्रहः क्षिप्रमुपैति शान्तिम् ।
तेजो वपुष्येव च वीर्यपुष्टी रोगप्रणाशात्क्रमशो भवन्ति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सप्तदशो हस्तग्रहणाध्यायः ॥ १७ ॥
अथाष्टादशोऽध्यायः ।
पालकाप्य उवाच—
संचितैर्बहुभिर्दोषैः कोष्ठे वायुः समीरतः ।
उन्मत्तानि कष्ठपनि(?) हस्तोन्मथितसंज्ञकः ॥
स ह्यसाध्यो महाराज प्रयाणं चेन्नुरुन्द्धि वै ।
निदानानि षडेव स्युर्येर्न जीवति वारणः ॥
आध्मायेत्येष मन्यास्थश्लेष्मा हस्तात्प्रसिच्यते ।
सेरको मधुरस्तीव्रो मुखाद्रच्छति हस्तिनः ॥
प्रतप्तरूपो विमनाः करेणाऽऽहन्ति मेदिनीम् ।
विलोड्घनं च बहुशः करोति च विघर्षणम् ॥
एवमेतैर्विजानीयात्सप्तरात्राद्यथा गजः ।
(?) सज्योस्वोव्यथत्यर्थं नमन्ते शङ्कुविद्धवत् ॥
(?) हस्तवालविस्तस्य † ···· ···· ···· ···· कूजति तिष्ठति ।
अष्टरात्रात्परं तस्य जीवितं नास्ति हस्तिनः ।
श्यावस्तब्धकरो रक्तं मिश्रं वमथुना स्रवेत् ॥
प्रमेहति च यः शुक्रं नवाह्नात्स विनश्यति ।
श्लेष्मा घुरुघुरान्कुर्वन्करात्स्रवति दन्तिनः ।
ऊर्ध्वं समुत्क्षिपेद्धस्तं मेहतीन्द्रिपमेव च ॥
दशरात्रात्तु प्राणांस्तु चतुर्थस्त्यजति द्विपः ।
मञ्जिष्ठाभो गजो यस्तु तथौष्ठः पिटकाश्रितः ॥
स्थौनरक्ताभनयनो व्यथते च कुतश्च यः ।
एकादशे च दिवसे पञ्चमो म्रियते गजः ॥
† पुस्तकद्वयेऽपि त्रुटितम् ।
१ ख. कोष्ठवा° । २ क. °य दोषमन्ये तु श्ले° । ३ ख. सुरक्तो । ४ क.
°ञ्जिष्ठभागजय° । ख. °ञ्जिष्ठं भागजय° । ५ ख. °स्थामर° ।