सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 233, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 233

२१४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
नीलः श्यावः सितो रक्तस्तथा हस्तः सवेदनः ।
एकेन पश्यतक्षण:(?) स षष्ठो द्वादशाहिकः ॥
तत्र श्लोकः—
षडेते सनिदानाः स्युरसाध्याः कीर्तिता गजाः ।
हस्तोन्मथितसंज्ञस्य विकारस्य समासतः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररो-
गस्थाने हस्तोन्मथितो नामाष्टादशोऽध्यायः ॥ १८ ॥
अथैकोनविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
त्वया यः संग्रहाध्याय उदावर्तः प्रकीर्तितः ॥
तस्य लक्षणमुत्पत्तिं चिकित्सां च प्रचक्ष्व मे ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
रौक्ष्याच्च विविधापासाद्विषमाच्चैव भोजनात् ।
अभोजनान्मनस्तापादुत्थानाच्छयनादपि ॥
वायुः प्रकुपितः स्थानाद्धृदयं संप्रहापयेत् ।
(?)हृदयस्थलः कृपात्तमन्रगे+••••••••तथा ॥
(?)गात्राणां लघुनवैव*••••••••नेत्रेविष्टेनमदम् ।
कृच्छ्रं मूत्रं पुरीषं तु वैषम्यं जठरस्य च ॥
स संकुचितपक्षेण उरो विंजयते स्फुटम् ।
कदाचित्स्वस्थदेहः स्यादस्वस्थश्च भवेत्पुनः ॥
तस्याभ्यङ्गे तथा पाने तैलं†••••••स्वरुकस्य वा ।
एरण्डनक्तमालस्य तैलं तच्छान्तये हितम् ॥
[विष्किरैर्जाङ्गलैर्मासैः*•••• •••• •••• •••• •••• ।
बस्तयो विहितास्तस्य सनिरूहानुवासनाम् ॥
पञ्चमूलं शृतं कोष्णमाविकं वा पयः पिबेत् ।
ग्रहणीदीपनीयानि बृंहणीयानि यानि च ॥

  • पुस्तकद्वयेऽपि समाना त्रुटिः । * पुस्तकद्वयेऽपि समानं त्रुटितम् । † पुस्त-
    कद्वयेऽपि त्रुटिः समाना । * द्वयोरपि पुस्तकयोः समानमेव त्रुटितम् ।
    १ क. ख. विजयन्ति ।