सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 230, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 230

१७ हस्तग्रहणाध्यायः ] हस्त्यायुर्वेदः । २११
म्लानं वातेन परुषं श्यावं चात्यर्थवेदनम् ॥
संनिपातात्तु दोषाणां सर्वलिङ्गानि लक्षयेत् ॥ १६ ॥
व्यक्तानि सर्वलिङ्गानि मेढ्रस्थानगतानि च ॥
निष्क्रष्टुं तत्प्रवेष्टुं वा वेदनार्तो मतङ्गजः ॥ १७ ॥
*.... .... .... .... .... .... .... .... .... .... ।
न शक्नोति प्रवेष्टुं वा निष्क्रष्टुं शूनमेहनम् ॥
अथ कोशस्थमेढ्रो वा मूत्रं कृच्छ्रेण मेहति ।
निष्कृष्टमिव शूनं हि प्रलम्बं चास्य दृश्यते ॥
वेदनार्तश्च मातङ्गो वालुकापांशुकर्दमैः ।
जलेन चाप्यवकिरेत्सततं बहुशो गजः ॥
क्रिमयो वाऽस्य जायन्ते शीर्यन्ते वारि सर्वशः ।
काला—वर्तैनान्मेढ्रसंवादव्याधिना नृप ॥
एतैर्निदानैर्जानीयान्मेढ्रक्षाणीं गजस्य च ।
चिकित्सितमतस्त्वं च शृणु कीर्तयतो मम ॥
उत्पन्नमात्रसंबन्धे नुतकां (?) प्लावयेद्गजम् ।
अमुक्तेष्वनुमुक्तेषु लिङ्गं शूनं भवेद्यदि ॥
विमुक्तशुक्रो मातङ्गः सद्यः संपद्यते सुखी ।
अत्यङ्गं यदि शूनं स्याच्छतधौतेन सर्पिषा ॥
सर्पिर्मण्डेन वा मेढ्रं बहुशः परिषेचयेत् ।
प्रकृतेः सह्यते नास्य सर्वमेको विधीयते ॥
क्षारवृक्षत्वचोभिर्वा सिद्धं मधुरकैर्घृतम् ।
शतावर्या च निष्काथे बलाभ्यां मधुकेन च ॥
सम्यक्सिद्धं सदुग्धं च तदभ्यञ्जनमिष्यते ।
उदुम्बरत्वक्कल्केन घृतमिश्रेण लेपनम् ॥
त्वग्भिर्वा क्षीरवृक्षाणां सघृताभिः प्रलेपयेत् ।
सर्जार्जुनेंद्रवृक्षाणां सल्लकीसोमवल्कयोः ॥
धवाश्वकर्णतिनिशत्वग्भिर्वा काथयेज्जलम् ।
पादावशिष्टं संश्रा(स्रा)व्य मेढ्रक्षाणी विलीयते+ ॥
*त्रुटितमिवाऽऽभाति ॥ + इतः परं मेढ्रक्षाण्यध्याये कियान्पाठस्त्रुटितः पुस्तक-
द्वयेऽपीति ज्ञायते ।
१ क. ॰जः ॥ तत्र रेखाश्च जा॰ । २ क. ॰र्तनेना॰ । ३ ख. ॰क्ते वाऽनु॰ ।