हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 237, कुल 742 में से
संदर्भ में पढ़ें२१८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
अथैकविंशोऽध्यायः ।
अयमन्यो महाराज व्याधिर्वातगतिस्तु यः ॥
प्रोच्यते वारेणेन्द्राणां कष्टः संज्ञाप्रणाशयः ॥
रूक्षैः कषायरूक्षैर्वा वोतलैरुपसेवितैः ॥
रसैर्वातगतिर्विद्यान्न्यायमेन क्षणेन च ॥
(?)मस्तुवाच्यकस्माद्द्वानं घनेनोपवनेन वा ॥
तत्र खलु भो वातगतिव्याध्युपसृष्टस्य निदानानीमानि भवन्ति । तद्यथा —
भ्रमति पतति विह्वलति *गुह्यति स्तनति न विजानाति संज्ञां, प्रत्यर्थं वेद-
यति +प्रहीत्युक्तेनापि सर्पति निषीदत्युत्तिष्ठति क्षम्यमाणः कुध्यति स्तम्भं पर्यैति
स्थूलोच्छ्वासश्वान क्षमेन(?)ते सर्वमिच्छति हन्तुमुन्मत्त इव भवति ॥
तस्यैवं वातगतिव्याध्युपसृष्टस्य प्रातरनाशितस्य *सुरा प्रसन्ना वाट्यहिवात-
या(?)मनुद्वरीसनयुक्तां दद्यात् । अथैनं *पवसा नकुलस्य माषसर्षपक्ष्वड्क-
ष्टुकमत्स्यैः सघृतैर्धूपयेत् । भूयश्च सर्जरसमरिचहिङ्गुमनःशिलाभिः सघृताभिर्धू-
पयेत् । ततश्च कर्कटककटुकालाबूनदीमत्स्यशकलैः सघृतैर्धूपयेत् । अथवा
ह्रीवेरोशीरबिल्वस्योनाकमांसीमञ्जिष्ठाकुष्ठहिङ्गुलाक्षासगरतरुणबिल्वैः सघृतैर्धू-
पयेत् । मरिचमनःशिलासूक्ष्मैलाभिः पयसा श्लक्ष्णं पिष्ट्वाऽञ्जनं कुर्यात् ।
हिङ्गुमरिचशिखिपित्तैराञ्जतस्य प्रत्यञ्जनं कुर्यात् । तक्षाया(?)ग्निमन्थनक्तमा-
लपाटलीपत्रभङ्गाञ्जले क्वाथयेत् । दद्याद्वा त्रिरण्डतर्कारीमांसीमूलानि । ततश्च
च तुषं भवता(?)परिसाध्य तेन निष्क्वाथेन विधिवद्धृतं विपाच्य कुलत्थरसेन
सह पाययेन्नागम् । उभयोः पञ्चमूलयोर्निष्क्वाथेन मुद्गयूषं सुस्नोष्णं सघृतं पाय-
येत् । भोजयेच्च । ततश्चैनं यवसानि यथोक्तानि वातप्रशमनानि दद्यात् ॥
तत्र श्लोकः—
विविधैरुपक्रमैः शेषैर्वातगतिं समीक्ष्य मेधावी ।
प्रयत्ननाणु चिकित्सितुमुपेक्षेहेति(?)मानहमिति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महापवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने वातगतिर्नामैकविंशोऽध्यायः ॥ २१ ॥
- 'न्यामयेन' इति स्यात् । * 'मुह्यति' इति स्यात् । + 'एहीत्युक्तोऽपि न'
इति स्यात् । * द्वितीयान्ते स्याताम् । * 'वसया' इति स्यात् ।
१ क. कष्टं संज्ञाप्रणाशनम् । २ ख. वातैलै°। ३ क. °स्माद्दनघ°।