हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 249, कुल 742 में से
संदर्भ में पढ़ेंपालकाप्यमुनिविरचिते— [२ क्षुद्ररोगस्थाने]
२३०
तत्र श्लोकाः—
ततः कुर्युः क्रियाः सर्वाः पादरोगे प्रकीर्तिताः ।
यदिदं सेवते नैव तैलं कुर्यान्नराधिप ॥
न स्रवन्ति न पच्यन्ते न क्षीयन्ते स्फुटन्ति न ।
स्पृष्टास्तैलकषायेण प्रयोगेण स्थिरास्तलाः ॥
सुखमाक्रमते भूमिं समेषु विषमेषु च ।
अध्वनो गमने नित्यं जवश्चास्य न पीडयेत् ॥
अनेन विधिना राजन्यो वैद्यस्तलकाशिनम् ।
साधयेच्च महाराज स पूज्यः सततं नृपैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तल-
काशचिकित्सितनामाऽध्याय एकोनत्रिंशत्तमः ॥ २९ ॥
अथ त्रिंशत्तमोऽध्यायः ।
अथाङ्गपतिरमरपतिसदृशवपुरुडुपतिसदृशवदनः कमलसदृशनयनः, परिपू-
र्णगोवृषस्कन्धः पृथुविपुलरुचिरवक्षा आजानुदीर्घबाहुरुग्रवाञ्छितचारुगामी
जनकान्तं भगवन्तं पालकाप्यं हृतभाजमिव तपसो दास्यमानमृषिवरमभिवाद्य
कृताञ्जलिरुवाच रोमपादः—'कथं भगवन्पा(*लकाप्य वारणानां गलग्रहः
संभवति, कथं वा साध्यासाध्यः, तन्मे व्याख्यातुमर्हति । शुश्रूषुरस्मि'—इति ॥
स एवमुक्तः प्रोवाच भगवाम्पा)लकाप्यः—इह खलु भो महाराज प्रायेण
हि नवगृहीतानां नागानां यूथवियोगाद्धेनुकास्मरणात्पवनोभितापमापाद्यन्क-
ण्ठगलकपोलप्रदेशान्विष्टभ्य गलग्रहं जनयति ग्राम्याणामपि । यदा तु वारणः
स्निग्धमधुरशिशिरानूपजलजयवसकमलशैवलगुरुरूक्षभोजनः कफपवनजननभू-
यिष्ठाहारचेष्टशीतकल्लुषगुरुसलिलपानप्रायो रूक्षाभिष्यन्दिसेवी तस्य सहसा
पवनसंसृष्टः प्राणापानसमानोदानव्यानाभिप्रः कण्ठमासाद्य तिष्ठति कफः । स
जनयति गलग्रहम् । ततः स तेनाभ्यवहर्तुमाहारं यवसकवलकुवलपल्लवानाम्-
न्यतमं न शक्नोति । प्रस्पन्दमानतलवह्वली तलक्षितक इव भवति । यस्तु स्वनय-
नगलहनुकपोलसृक्कोष्ठमन्यासगदो गुरुकुरगुरुमक्षिकाश्च नीलं श्यावं लोहितं
विवर्णं वमथुं पूतिमुद्गिरति, कम्पते पूर्वकायमुदस्यति, लाला चास्य जिह्वामू-
✻ धनुराकारमध्यास्थो नास्ति पाठः कपुस्तके ।
१ ख. हृतं भजं ।