गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
गदनिग्रहः । ३५
वातव्याधौ प्रसारणीतैलम् ।
समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् ।
कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ३३ ॥
वारिद्रोणसमायुक्तं चतुर्थांशावशेषितम् ।
कषायसममात्रं तु तैलमत्र प्रदापयेत् ॥ ३४ ॥
दध्नस्तथाऽऽढकं दत्वा द्विगुणैश्चाम्लकाञ्जिकैः ।
यवक्षारपले द्वे च सैन्धवस्य पलद्वयम् ॥ ३५ ॥
द्वे पले पिप्पलीमूलाच्चित्रकस्य पलद्वयम् ।
एतत्सर्वं समालोड्य शनैर्मृद्वग्निना पचेत् ॥ ३६ ॥
एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मणि शस्यते ।
पाने बस्तौ च दातव्यं न क्वचित्प्रतिहन्यते ॥ ३७ ॥
अशीतिर्वातरोगाणां तैलमेतद्व्यपोहति ।
गृध्रसीं सास्थिभङ्गां च मन्दाग्नित्वं च नाशयेत् ॥ ३८ ॥
अपस्मारमथोन्मादं विद्रधिं मन्दगामिताम् ।
त्वग्गताश्चापि ये वाताः शिरासन्धिगताश्च ये ॥ ३९ ॥
जानुगुल्फगताश्चैव पादपृष्ठगतास्तथा ।
अश्वं वा वातसंभग्नं नरं वा जर्जरीकृतम् ॥ ४० ॥
सर्वान् प्रशमयत्येतत्तैलमात्रेयपूजितम् ।
इन्द्रियैश्वर्यजननं वन्ध्यानां च प्रजाकरम् ॥ ४१ ॥
एतेनान्धकवृष्णीनां बहुच्छत्रं कुलं कृतम् ।
प्रसारणीतैलमिदं बलमांसविवर्धनम् ॥ ४२ ॥
धन्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् ।
पङ्गुः पीठसर्पी वा पीत्वैतत्सं प्रधावति ॥ ४३ ॥
द्वितीयं प्रसारणीतैलम् ।
प्रसारण्याः पलाशतं बलामूलार्धमाषिकम् ।
शतावर्यह्वगन्धा च शतपुष्पा पुनर्नवा ॥ ४४ ॥
भङ्गी दशमूलं च चित्रको मदनं शठी ।
CATALOGUED.
पलाशंकान् समापोथ्य जलद्रोणे विपाचयेत् ॥ ४५ ॥
चतुर्भागावशेषं तु कषायमवतारयेत् ।
रास्त्रां शताह्वां मधुकं पिप्पलीं नागरं वचां ॥ ४६ ॥
कुष्ठं हरेणुकां मांसीं प्रियङ्गि्वन्द्रयवान् बिडम् ।
सैन्धवं शृङ्गवेरं च यवक्षारं सचित्रकम् ॥ ४७ ॥
मधूलिकां व्याघ्रनखं पालिकान् श्लक्ष्णपेषितान् ।
पचेत्तैलाढकं पूतमारानालपयोयुतम् ॥ ४८ ॥
एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मानुवासने ।
गृध्रसीमस्थिभङ्गं च ये च मन्दाग्नयो नराः ॥ ४९ ॥
अपस्मारं तथोन्मादं विद्रधिं मन्दगामिताम् ।
त्वग्गतांश्चापि ये वाताः शिरासन्धिंगताश्च ये ॥ ५० ॥
अश्वं वा वातसम्भग्नं नरं वा जर्जरीकृतम् ।
सर्वान् प्रशामयत्येतत्तैलमात्रेयपूजितम् ॥ ५१ ॥
स्थिरीकरणमेतद्धि वलीपलितनाशनम् ।
इन्द्रियाणां बलकरं वर्णौदार्यकरं तथा ॥ ५२ ॥
बल्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् ।
पङ्गुर्वाऽप्यथवा खञ्जः पीत्वा तैलं प्रधावति ॥ ५३ ॥
वातरोगे तृतीयं प्रसारणीतैलम् ।
समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् ।
कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ५४ ॥
दशमूली बला रास्ना तथा सहचरामृते ।
शतावरी श्वदंष्ट्रा च एरण्डः कपिकच्छुका ॥ ५५ ॥
पृथग्दशपलान् भागांस्तथैव समधिश्रयेत् ।
वारिद्रोणे समायुक्तं चतुर्भागावशेषितम् ॥ ५६ ॥
काञ्जिकसमभागं तु तैलमत्र प्रदापयेत् ।
प्रशस्ते ऽहनि दिने कार्ये नक्षत्रे चापि शोभने ॥ ५७ ॥
देवदारु वचा कुष्ठं शताह्वा मधुयष्टिका ।
पिप्पली मधुकं रास्त्रा ह्यष्टवर्गेण संयुता ॥ ५८ ॥
चित्रकं पद्मकोशीरे कुष्ठं व्याघ्रनखं शठी ।
शुण्ठीसैन्धवमञ्जिष्ठाः कल्कपेष्याणि कारयेत् ॥ ५९ ॥
दधिमस्त्वम्लशुक्तानां तथा मांलरसस्य च ।
आढकाढकमादाय शनैर्मृद्वग्निना पचेत् ॥ ६० ॥
एतदभ्यञ्जनं पानं नस्यकर्मानुवासनम् ।
पृष्ठपार्श्वग्रहे शूले सक्थिवङ्क्षणयोस्तथा ॥ ६१ ॥
एकाङ्गे पक्षवधे हनुमन्याशिरोग्रहे ।
बाधिर्ये कर्णशूले च कर्णनादे च दापयेत् ॥ ६२ ॥
अभ्यङ्गात्त्वग्गतं हन्ति पानान्मांसगतं तथा ।
पक्वाशयगते बस्तिर्निरूहः सार्वकार्मिकः ॥ ६३ ॥
अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् ।
विंशतिः श्लेष्मजांश्चैव सर्वानेवापकर्षति ॥ ६४ ॥
गृध्रसीं वातभग्नं च ऋतुदोषं तथैव च ।
ये नरा नष्टशुक्राश्च ऋतुहीनाश्च याः स्त्रियः ॥ ६५ ॥
वन्ध्या च लभते गर्भमृतुस्नाता न संशयः ।
(यस्मात्प्रसारयत्येषा मेधाग्निजनता शुभा ॥ ६६ ॥
आयुर्वृद्धिकरा चैव तथा जनकपूजिता । ?)
वातव्याधौ चतुर्थं प्रसारणीतैलम् ।
प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे ॥ ६७ ॥
पादशेषे पचेत्तैलं दधिमस्त्वम्लकाञ्जिकम् ।
द्विगुणं श्लक्ष्णपिष्टानि द्रव्याणीमानि योजयेत् ॥ ६८ ॥
द्विपलाभ्यधिकंमधुककणामूलं पटुं वचाम् ।
मूलं तथा प्रसारण्याः क्षारं च यवशूकजम् ॥ ६९ ॥
त्रिंशद्बल्लातकास्थीनि नागरात्पलपञ्चकम् ।
४
३८ आयुर्वेदग्रन्थमाला । [तैलाधिकारः
सिद्धं मृद्वग्निना तैलं वातश्लेष्मामयाञ्जयेत् ॥ ७० ॥
अशीतिर्नरनारीणां वातरोगान्निषूदति ।
कुब्जवामनपङ्गुत्वं खञ्जत्वं गृध्रसीं खुडम् ॥ ७१ ॥
हन्यात्पृष्ठकटिग्रीवास्तम्भं चाशु व्यपोहति ।
पीठसर्पी विभग्नश्च पीत्वा तैलं सुखी भवेत् ॥ ७२ ॥
प्रसारणीतैलमिदं बलवर्णाग्निवर्धनम् ।
वातरक्ते शतावरीतैलम् ।
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ ७३ ॥
शतपुष्पा देवदारु मांसी शैलेयकं बला ।
चन्दनं तगरं कुष्ठमेला सांशुमती तथा ॥ ७४ ॥
एतैः कर्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ।
कुष्ठवामनपङ्गनां बधिरव्यङ्गकुष्ठिनाम् ॥ ७५ ॥
वायुना भग्नदेहानां येऽवसीदन्ति मैथुने ।
जराजर्जरदेहानां घर्मार्तमुखशोषिणाम् ॥ ७६ ॥
त्वग्गताश्चापि ये वाताः सिरास्नायुगताश्च ये ।
सर्वांस्तान्नाशयत्याशु तैलं नास्त्यत्र संशयः ॥ ७७ ॥
नारायणमिदं नाम्ना विष्णुना समुदाहृतम् ।
दक्षाङ्गमिव विख्यातं न क्वचित्प्रतिहन्यते ॥ ७८ ॥
वातव्याधौ द्वितीयं शतावरीतैलम् ।
शतावर्यास्तु मूलानां रसप्रस्थं समाहरेत् ।
क्षीरद्विगुणसंयुक्तं तैलप्रस्थं विपाचयेत् ॥ ७९ ॥
शतपुष्पा देवदारु मांसी शैलेयकं वचा ।
मञ्जिष्ठा चन्दनं कुष्ठमेला चांशुमती बला ॥ ८० ॥
तुरङ्गन्धा काकोली मेदा रास्ना पुनर्नवा ।
एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ८१ ॥
अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ।
कुब्जानां वामनानां च पङ्गनां पीठसर्पिणाम् ॥ ८२ ॥
आक्षेपके च भग्नानां तथा भग्नास्थिसन्धिषु ।
एकाङ्गं तुद्यते यस्य गतिर्यस्य विहन्यते ॥ ८३ ॥
रक्तपित्तहरं शस्तं वातघ्नं परमं स्मृतम् ।
वातव्याधौ रास्नातैलम् ।
रास्नामूलस्य कुर्वीत द्वेशते च बलाशतम् ॥ ८४ ॥
शतावरीगुडूचीभ्यां वरुणाच्च शतं शतम् ।
निर्गुण्डीशिग्रुकैरण्डशिरीषारग्वधादपि ॥ ८५ ॥
श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत् ।
तोयद्रोणेषु शतसु साधयेत्सूक्ष्मकुट्टितम् ॥ ८६ ॥
द्रोणावशेषे तैलस्य शुद्धस्यार्धार्मणं पचेत् ।
द्रोणा दश च दुग्धस्य घृतस्यार्धाढकं तथा ॥ ८७ ॥
तदैकध्यं विपक्तव्यं गर्भ चात्र समावपेत् ।
मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम् ॥ ८८ ॥
काश्मर्याण्यजमोदां च लवलीं तालमस्तकम् ।
आत्मगुप्ताफलं मूर्वां वार्त्ताकानि मधूलिकाम् ॥ ८९ ॥
सहदेवामयैरण्डं रोहिषं नवमालिकाम् ।
कायस्थां च वयस्थां च मधुपर्णी च चित्रकम् ॥ ९० ॥
महापुरुषदान्तां च बलां सकदलीफलाम् ।
देवदार्वगुरुश्रेष्ठं चन्दनं परिपेलवम् ॥ ९१ ॥
नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम् ।
एभिः पलशतैः पिष्टैः सम्यक् तैलं विपाचयेत् ॥ ९२ ॥
भोजनाभ्यञ्जने पाने बस्तौ नस्ये च शस्यते ।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ९३ ॥
अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि ।
रास्नातैलमिदं श्रेष्ठं बलमांसविवर्धनम् ॥ ९४ ॥
वातव्याधौ शताह्वातैलम् ।
जलद्रोणे शताह्वायाः पादशेषे तुलां पचेत् ।
४० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः
क्वाथं तैलाढकोन्मिश्रं पचेत्क्षीरे चतुर्गुणे ॥ ९५ ॥
हरेणुकुष्ठसूक्ष्मैलातगरामरुसैन्धवैः ।
पक्वं कल्कैः पलसमैः प्रयोज्यं वातशीघ्रनुत् ॥ ९६ ॥
योनिशुक्ररजोदोषनाशनं स्त्रीषु पुत्रदम् ।
शताह्वातैलमित्येतद्बृंहणं बलवर्धनम् ॥ ९७ ॥
वातव्याधौ मूलकतैलम् ।
बालमूलकनिर्यूहस्तैलदध्यम्लकाञ्जिकम् ।
क्षीरं गवाढकोन्मानं पचेत्कल्कैः पलोन्मितैः ॥ ९८ ॥
रास्ना भल्लातकं चैव सैन्धवं गजपिप्पली ।
बला सातिविषा शुण्ठी पिप्पलीचित्रकं वचा ॥ ९९ ॥
श्वदंष्ट्रा चेति तत्पक्वं श्लेष्मवातामयापहम् ।
वर्ध्मगृध्रसीपङ्गुत्वं कुण्डलं सापतन्त्रकम् ॥ १०० ॥
कट्यूरूतम्भशोषं च पर्वस्तम्भं सकम्पनम् ।
हन्याद्गुल्मं च वातोत्थं बलवर्णाग्निवर्धनम् ॥ १०१ ॥
वन्ध्यानां पुत्रदं चैव तैलं मूलकसाह्वयम् ।
वातव्याधौ सहचरतैलम् ।
समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०२ ॥
चतुर्गुणे जलद्रोणे साधयेत्सूक्ष्मचूर्णितम् ।
द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः ॥ १०३ ॥
सहचरस्य मूलानां पेष्यं दशपलं भवेत् ।
परिस्राव्य सुखोष्णे तु शर्करायाः प्रदापयेत् ॥ १०४॥
पलानि दश चाष्टौ च निर्मथ्य च निधापयेत् ।
बस्तौ पाने तथाऽभ्यङ्गे नस्ये चैव प्रशस्यते ॥ १०५ ॥
एकाङ्गिकं पक्षवधं हनुग्रहशिरोग्रहम् ।
अर्दितं वेपथून्मादं सर्वगात्रग्रहं ज्वरम् ॥ १०६ ॥
गृध्रसीं वातगुल्मं च भूतोपहतचेतसम् ।
अपस्मारं हनुस्तम्भमूरुस्तम्भं च नाशयेत् ॥ १०७ ॥
गदनिग्रहः । ४१
मण्डकुण्डलवधर्माणि हनुजानुविकुञ्चनम् ।
संधानं सर्वगात्राणां स्तम्भनं शोधनं तथा ॥ १०८ ॥
तैलमेतत्प्रशमयेच्छिन्नाञ्चाणीव मारुतः ।
वातव्याधौ सहचरतैलम् ।
समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०९ ॥
क्षोदयित्वा जलद्रोणे क्वाथं पादावशेषितम् ।
शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ ११० ॥
चन्दनं तगरं कुष्ठमेलां चांशुमतीं तथा ।
एतैः कर्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ॥ १११ ॥
पयस्तद्द्विगुणं दत्त्वा पलान्यष्टौ च शर्करा ।
अथ तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ११२ ॥
ये च कोष्ठगता वाता ये च वाताः शिरोगताः ।
अस्थिमज्जगताश्चैव कर्णमध्यगताश्च ये ॥ ११३ ॥
मूकानां मिन्मिणानां च पीठकट्यूरूसर्पिणाम् ।
स्वभावेन च ये भग्ना अस्थिभग्नाश्च ये नराः ॥ ११४ ॥
तेषां च संप्रयोक्तव्यं हितमेतदनुत्तमम् ।
वातव्याधौ श्योनाकतैलम् ।
श्योनाकमूलस्य शतं दशमूलीशतं तथा ॥ ११५ ॥
रोहिषं शिग्रुकं रास्नां पृथक् पञ्चशतं क्षिपेत् ।
छागलादथमव्याच्च माहिषात्कौक्कुटादपि ॥ ११६ ॥
पञ्चाशत्पलिकान् भागान् मांसादेषां प्रदापयेत् ।
चतुर्षु तोयद्रोणेषु साधयेच्छक्ष्णकुट्टितम् ॥ ११७ ॥
द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः ।
महासहां क्षुद्रसहां जीवन्तीं जीवकं वचाम् ॥ ११८ ॥
कुष्ठं च शतपुष्पां च सूक्ष्मैलां चैलवालुकम् ।
जीवकर्षभकौ द्राक्षां शृङ्गीं कर्कटकस्य च ॥ ११९ ॥
मोचां च निचुलं मुस्तां सारिवे द्वे महौषधम् ।
गदनिग्रहः । ४३
खुड्डाकपद्मकं तैलम् ।
पद्मोशीरयष्ट्याह्वरजनीक्वाथसाधितम् ॥ १३३ ॥
सुपिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः ।
खुड्डाकपद्मकं तैलं वातासृग्दरदाहजित् ॥ १३४ ॥
वातरक्ते महापद्मकं तैलम् ।
पद्मवेतसयष्ट्याह्वफलिनीपद्मकोत्पलैः ।
पृथक् पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः ॥ १३५ ॥
जले शृतैः पचेत्तैलं प्रस्थं सौवीरसंयुतम् ।
लोध्रकालीयकोशीरजीवकर्षभकेसरैः ॥ १३६ ॥
मदयन्तिलतापत्रपद्मकेशरपत्रकैः ।
प्रपौण्डरीककाकोलीमांसीदारुप्रियङ्गुभिः ॥ १३७ ॥
कुङ्कुमस्य पलार्धेन मञ्जिष्ठाद्विपलेन च ।
महापद्ममिदं तैलं वातास्ररोगनाशनम् ॥ १३८ ॥
ज्वरे तृतीयं महापद्मकं तैलम् ।
दर्भवेतसमूलानि चन्दनं मधुकं बला ।
फेनिलापद्मकोशीरमञ्जिष्ठाकमलोत्पलैः ॥ १३९ ॥
कैंशुकं च विभागाः स्युः पृथक् पञ्चपलोन्मिताः ।
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ॥ १४० ॥
जीवकर्षभकौ मेदां रोध्रं भल्लातकं तथा ।
कालीयकं प्रियङ्गुं च दद्यात्केशरमेव च ॥ १४१ ॥
प्रपौण्डरीकं मधुकं पद्मकं पद्मकेशरम् ।
सुरभि कुङ्कुमं चैव मञ्जिष्ठां मदयन्तिकाम् ॥ १४२ ॥
मांसीं पत्रं च तुल्यांशं द्विगुणं कुङ्कुमं भवेत् ।
चतुर्गुणा तु मञ्जिष्ठा सौवीरं तैलसंमितम् ॥ १४३ ॥
तैलप्रस्थं पचेदेभिः कषायेणाथ पेषितैः ।
एतदभ्यञ्जनं तैलं विषमज्वरनाशनम् ॥ १४४ ॥
१ खुड्डाकशब्दोऽल्पार्थः । यथा चरके-खुड्डिका गर्भावक्रान्तिः, अल्पेत्यर्थः ।
आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः
महापद्ममिदं ख्यातमेतत्तैलं महागुणम् ।
वर्णप्रसादजननं सौकुमार्यविवर्धनम् ॥ १४५ ॥
पानाभ्यञ्जनवस्तौ च नस्यकर्मणि च स्मृतम् ।
वातपित्तभवं श्वित्रं ज्वरमेतन्नियच्छति ॥ १४६ ॥
वातव्याधौ बृहन्माषतैलम् ।
प्रस्थे द्वे खण्डमाषाणां क्वाथयेत्सलिलेऽर्मणे ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ १४७ ॥
मस्तुनस्त्वढकं दत्त्वा तत्समं चाम्लकाञ्जिकम् ।
औषधानि च पेष्याणि तत्रेमानि प्रदापयेत् ॥ १४८ ॥
सैन्धवं मदनं रास्ना शताह्वा त्र्यूषणं वचा ।
समरं चोरबुकं च मञ्जिष्ठा पद्मकेशरम् ॥ १४९ ॥
बला गोक्षुरकं श्लाठा सरलं देवदारु च ।
साजगन्धाऽश्वगन्धा च पुष्करं सपुनर्नवम् ॥ १५० ॥
एतानि चाक्षमात्राणि कल्कीकृत्य प्रयोजयेत् ।
नस्ये पाने तथाऽभ्यङ्गे बस्तिकर्मणि योजयेत् ॥ १५१ ॥
अर्दितं कर्णशूलं च मन्यास्तम्भं हनुग्रहम् ।
बाधिर्यं पक्षघातं च गृध्रसीं खञ्जपङ्गुलम् ॥ ॥ १५२ ॥
सर्वानेतान् जयेच्छीघ्रं वृक्षमिन्द्राशनिर्यथा ।
माषतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ १५३ ॥
बाहुरोगे सूक्ष्ममाषतैलम् ।
कपिकच्छुवात्यालकशतावरीसिञ्चपुनर्नवामूलैः ।
सैन्धवजिङ्गिणिकातरुनिर्यासाभ्यां च कटुतैलम् ॥१५४॥
माषक्वाथेन पचेद्द्विगुणेन पूर्वकल्कसंयुक्तम् ।
सकृदुपयुक्तमिदं नस्येन निहन्ति बाहुरुजम् ॥ १५५॥
वातव्याधौ तृतीयं महामाषतैलम् ।
माषात्मगुप्तोरुबूककण्टकारी-
जीवन्तीङ्गुदजटाकपिकच्छुतोयैः ।
कार्पासिकास्थिषणबीजकुलत्थकोल-
क्वाथेन बस्तपिशितस्य रसेन तैलम् ॥ १५६ ॥
शुण्ठ्या समागधिकया शतपुष्पया च
सैरण्डमूलसपुनर्नवया सपर्ण्या ।
रास्नाबलामृतलताकटुकैर्विपक्वं
माषाख्यमेतदवबाहुकहारि तैलम् ॥ १५७ ॥
अर्द्धाङ्गशोषमपतानकमाढ्यवात-
माक्षेपकं ससृजकम्पशिरःप्रकम्पम् ।
नस्येन बस्तिविधिना परिषेचनेन
हन्यात्कटीजघनजानुरुजः समीरान् ॥ १५८ ॥
वातव्याधौ दशाङ्गतैलम् ।
सैरेयकोऽमृतलता वाजिगन्धा शतावरी ।
प्रसारणी नागबला श्वदंष्ट्रा सपुनर्नवा ॥ १५९ ॥
बला चेति समान् भागान् रास्नारससमन्वितान् ।
विज्ञाय दोषप्रकृतिं कषायमुपकल्पयेत् ॥ १६० ॥
तेन पादावशेषेण तिलतैलाढकं पचेत् ।
दधिमस्त्विक्षुनिर्यासशुक्तलाक्षोदकैः समैः ॥ १६१ ॥
चतुर्गुणेन पयसा कल्कैरेभिर्पलोन्मितैः ।
मांसीशताह्वमधुकमञ्जिष्ठारक्तचन्दनैः ॥ १६२ ॥
शतावरीदेवदारुकौन्तीत्वक्पत्रवारिजैः ।
कुष्ठागरुवचायुक्तैस्तैलं सिद्धं प्रदापयेत् ॥ १६३ ॥
बस्तौ पाने तथाऽभ्यङ्गे नस्ये च परिषेचने ।
सर्वरोगान् जयत्येतत्संसृष्टान् मातरिश्वना ॥ १६४ ॥
विशेषतो ह्यपस्मारमुन्मादं वातशोणितम् ।
स्त्रीणामपत्यजननं पुंसां चातिबलप्रदम् ॥ १६५ ॥
नराणां गद्गदानां च मूकानां वाक्प्रवर्तनम् ।
मेधाजननमायुष्यं बलवर्णाग्निवर्धनम् ॥ १६६ ॥
आयुर्वेदीयग्रन्थमाला। [तैलाधिकारः
सर्वग्रहघ्नं विषजित् सन्निपातहरं परम् ।
दशाङ्गमिति विख्यातमश्विभ्यां परिकीर्तितम् ॥१६७॥
ऊरुस्तम्भे सैन्धवाद्यं तैलम् ।
द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ।
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढकम् ॥१६८॥
आरनालं पचेत्प्रस्थं तैलस्यैरण्डजस्य च ।
गृध्रस्यूरुग्रहाशर्तिसर्ववातविकारनुत् ॥ १६९ ॥
कुसुम्भाद्यं तैलम् ।
कुसुम्भकुङ्कुमोशीरमञ्जिष्ठारक्तचन्दनैः ।
सिक्थसर्जरसातङ्ख्यगुडूचीसैन्धवाम्बुदैः ॥ १७० ॥
मूर्वाशतावरीलाक्षामधुकैश्च पलांशकैः ।
चतुर्गुणेन पयसा पचेत्तैलाढकं भिषक् ॥ १७१ ॥
अर्दितं कर्णशूलं च शिरःशूलं च दारुणम् ।
गृध्रसीं वातरक्तं च पक्षाघातं व्यपोहति ॥ १७२ ॥
तद्वस्तिषु च पानेषु नस्ये च कर्णपूरणे ।
अभ्यङ्गे च शिरोरोगे तैलं विद्याद्यथाऽमृतम् ॥१७३॥
पाणिपादांसदाहेषु गुदयोनिरुजासु च ।
सुप्तिवातेऽस्थिभङ्गे च देवदेवेन पूजितम् ॥ १७४ ॥
भगन्दरे मागध्याद्यं तैलम् ।
मागधी मधुकं रोध्रं कुष्ठमेला हरेणवः ।
समङ्गा धातकी चैव सारिवा रजनीद्वयम् ॥ १७५ ॥
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेशरम् ।
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम् ॥ १७६ ॥
एतत्संभृत्य संभारं तैलं धीरो विपाचयेत् ।
एतद्धि गण्डमालासु मण्डलेष्वथ मेहिषु ॥ १
रोपणार्थं हितं तैलं भगन्दरविनाशनम् ।
गदनिग्रहः । १४
भगन्दरे चित्रकाद्यं तैलम् ।
चित्रकार्कत्रिवृत्पाठामलयूहयमारकान् ॥ १७८ ॥
सुधां वचां लाङ्गलिकां सप्तपर्णं सुवर्चिकाम् ।
ज्योतिष्मतीं च संभृत्य तैलं धीरो विपाचयेत् ॥१७९॥
एतदभ्यञ्जनं तैलं भृशं दद्याद्भगन्दरे ।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १८० ॥
गण्डमालायामजमोदाद्यं तैलम् ।
अजमोदा च सिन्दूरं हरितालं निशाद्वयम् ।
क्षारद्वयं फेनयुतं सार्द्रकं सरलोद्भवम् ॥ १८१ ॥
इन्द्रवारुण्यापामार्गकदलीकन्दकैः समैः ।
एभिः सार्षपकं तैलमजामूत्राष्टयोजितम् ॥ १८२ ॥
मृद्वग्नौ पाचयेदेतत्स्नुह्यर्कक्षीरसंयुक्तम् ।
अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ १८३ ॥
आमां विदग्धां तु पचेत्पक्वां चैव विशोधयेत् ।
रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥ १८४ ॥
वातव्याधावश्वगन्धाद्यं तैलम् ।
मूलानि चाश्वगन्धायाः शतं स्यात्खण्डशः कृतम् ।
द्विद्रोणेऽपां पचेत्क्वाथमष्टभागावशेषितम् ॥ १८५ ॥
तैलाढकं समावाप्य क्षीरं दद्याच्चतुर्गुणम् ।
एतत्समालोड्य पचेत्कल्कांश्चेमान् समावपेत् ॥१८६॥
तगरं शतपुष्पां च मुस्तं व्याघ्रनखं त्वचम् ।
मधुकं शृङ्गवेरं च पृश्निपर्णीं बलां स्थिराम् ॥ १८७ ॥
रास्नां पुष्करमूलं च भूतीकं सपुनर्नवम् ।
मञ्जिष्ठां नलदं पत्रं द्र्रवन्तीं सुरसां वचाम् ॥ १८८ ॥
श्वदंष्ट्रां च मृणालं च वयःस्थां बहुपुत्रिकाम् ।
श्लक्ष्णपिष्टार्धपलिकान् दत्त्वा गर्भे विपाचयेत् ॥१८९॥
तत्सिद्धमविदग्धं च ततः समवतारयेत् ।
आयुर्वेदियग्रन्थमाला । [तैलाधिकारः
बस्तौ पाने तथाऽभ्यङ्गे नस्यकर्मणि भोजने ॥ १९० ॥
यत्र यत्र विधातव्यं तन्मे निगदतः शृणु ।
खञ्जमूकजडत्वे च तिमिरे च तथाऽर्बुदे ॥ १९१ ॥
पक्षाघाते तथाऽऽयामे च्युतभग्नास्थिसन्धिषु ।
विधेयं पृष्ठमग्नेषु हनुमन्याग्रहे तथा ॥ १९२ ॥
स्तम्भकम्पेषु शोषेषु रुजासु विविधासु च ।
ज्वरे च विषमे गुल्मे तथा मारुतशोणिते ॥ १९३ ॥
प्लीहि प्लीहोदरे चैव विद्रधिगृध्रसीषु च ।
क्षीणेन्द्रिया नष्टशुक्रा ये चान्ये षण्ढका नराः ॥ १९४ ॥
भूतोपहतचित्ताश्च शस्यते तेषु नित्यशः ।
व्यापन्नयोनौ वन्ध्यासु पाययेत तदा भिषक् ॥ १९५॥
पुत्रदं परमं प्रोक्तं धन्वन्तरिवचो यथा ।
बालव्याध्याश्वगन्धाख्यं तैलम् ।
अश्वगन्धाशतं क्षुण्णं क्वाथ्य द्रोणे जलस्य च ॥ १९६ ॥
निःस्राव्य विपचेत्तैलं क्षीरं दत्त्वा चतुर्गुणम् ।
कल्कैर्मृणालशालूकबिशकिञ्जल्कमालती- ॥ १९७ ॥
पुष्पैर्ह्रीवेरमधुकवक्रसारिवकैशरैः ।
मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः ॥ १९८ ॥
वचैलापत्रत्रिफलामुस्तचन्दनपद्मकैः ।
पित्तरक्तास्रपान्वातान् रक्तपित्तमसृग्दरम् ॥ १९९ ॥
हन्यात्पुष्टिकारं चैव कृशानां मांसवर्धनम् ।
रेतोयोनिविकारघ्नं भ्रूणदोषापकर्षणम् ॥ २०० ॥
षण्ढानपि वृषान् कुर्यात्पानाभ्यङ्गानुवासनैः ।
कुङ्कुमाद्यं मुखकान्तिदं तैलम् ।
कुङ्कुमं चन्दनं पत्रमुशीरं कमलोत्पले ॥ २०१ ॥
गोरोचना हरिद्रे द्वे मञ्जिष्ठा मधुयष्टिका ।
सारिवास्तोकसद्वाङ्गपत्रपैरिककेशरम् ॥ २०२ ॥
२.] गदनिग्रहः ।
स्वर्णक्षीरी प्रियङ्गुश्च कालेयं रक्तचन्दनम् ।
एभिरक्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ॥ २०३ ॥
अभ्यङ्गाद्राजपत्नीनां ये चान्ये धनिनो नराः ।
तिलकान् पिडकान् व्यङ्गान् नीलिकां मुखदूषिकाम्।२०४
कार्श्यं चापि शरीरस्य दुश्छायां च विवर्णताम् ।
नाशयेदाशु जनयेद्रूपं चाथ मनोहरम् ॥ २०५ ॥
पद्मकेशरवर्णाभं मुखं भवति कान्तिमत् ।
वातरक्ते यष्टीमधुकाद्यं तैलम् ।
मधुयष्ट्याः पलशतं कषाये पादशेषिते ॥ २०६ ॥
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः ।
शतपुष्पावरीकुष्ठपयस्यागुरुचन्दनैः ॥ २०७ ॥
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः ।
काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः ॥२०८॥
जीवन्तीजीवकवचात्वक्पत्रनखवालकैः ।
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः ॥ २०९ ॥
चतुष्प्रयोगाद्धन्ति तैलं मारुतशोणितम् ।
सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा ॥ २१० ॥
वातासृक्पित्तदाहर्तिज्वरघ्नं बलवर्णकृत् ।
कर्णरोगे लघुक्षारतैलम् ।
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २११ ॥
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ।
मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१२ ॥
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् ।
बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१३ ॥
कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ।
१ अभ्यङ्गपाननस्यबस्तिषु चतुर्षु प्रयोगादित्यर्थः ।
५
आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः
कर्णरोगे बृहत्क्षारतैलम् ।
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २१४ ॥
शतपुष्पा वचा कुष्ठं दारु शिग्रू रसाञ्जनम् ।
मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१५ ॥
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् ।
बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१६ ॥
पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः ।
क्षिप्रं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात्॥२१७॥
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ।
नेत्ररोगे भृङ्गराजतैलम् ।
भृङ्गरसस्य प्रस्थं तैलात्कुडवं पलं च मधुकस्य ॥ २१८ ॥
क्षीरप्रस्थविपक्वं गतमपि चक्षुर्निवर्तयति ।
केशवृद्धौ द्वितीयं भृङ्गराजाद्यं तैलम् ।
भृङ्गरसत्रिफलोत्पलसारि लोहपुरीषसमन्वितकारि ॥२१९॥
तैलमिदं पच दारुणहारि लुञ्चितकेशघनस्थिरकारि ।
केशवृद्धौ तृतीयं भृङ्गराजतैलम् ।
मार्कवस्वरसभावितगुञ्जाबीजचूर्णपरिपाचिततैलम् ॥२२०॥
मिश्रितं तु त्रुटिजटासुरकाष्ठैः केशवर्धनं वनितायाः ।
बृहद्भृङ्गराजाद्यं तैलम् ।
आनूपदेशजं पुष्टं गृहीत्वा मार्कवं शुभम् ॥ २२१ ॥
प्रक्षाल्य जर्जरीकृत्य रसं तस्य प्रपीडयेत् ।
चतुर्गुणेन तेनैव तैलप्रस्थं विपाचयेत् ॥ २२२ ॥
क्षीरपिष्टैरिमैर्द्रव्यैः संयोज्य मतिमान् भिषक् ।
मञ्जिष्ठा पद्मकं रोध्रं चन्दनं गैरिकं बलाम् ॥ २२३ ॥
रजन्यौ केसरं दारु प्रियङ्गुमधुयष्टिके ।
प्रपौण्डरीकं सौम्यं च पलिकान्यत्र दापयेत् ॥ २२४ ॥
गदनिग्रहः । ५१
कुष्ठं तगरमाषांश्च सिद्धार्थंश्चागुरुं तथा ।
मुस्तकं चाथ शैलेयं कर्पूरं परिकल्पितम् ॥ २२५ ॥
सम्यक्पक्वं ततो ज्ञात्वा शुभे भाण्डे निधापयेत् ।
केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे ॥ २२६ ॥
अकालपलिते चैव दारुणे चैव दारुणे ।
दन्तकर्णाक्षिरोगेषु नस्यमेतत्प्रदापयेत् ॥ २२७ ॥
नस्यप्रयोगान्मासेन क्षीरान्नप्रतिभोजिनः ।
सुकुञ्चिताग्रान् केशांश्च स्निग्धान्कुर्याद्बहूंस्तथा ।
खालित्ये सेन्द्रलुप्ते च तैलमेतद्यथाऽमृतम् ॥ २२८ ॥
केशरोगे असनार्थं तैलम् ।
असनसारकषायविपाचितं त्रिफलया मधुकेन च संयुतम् ।
भवति नावनतैलमनुत्तमं पलितनेत्रविकाररुजापहम् ॥ २२९॥
शिरोरोगे षड्बिन्दुतैलम् ।
एरण्डमूलं तगरं रास्ना यष्टी च सैन्धवम् ।
जीवन्ती शतपुष्पा च विडङ्गं नागरं तथा ॥ २३० ॥
मधूकसारमिलेभिः कल्कपिष्टैस्तिलोद्भवम् ।
तैलं पचेद्भृङ्गरसे द्विगुणे च पयस्यथ ॥ २३१ ॥
षड्बिन्दुनस्यदानेन हन्याच्छीर्षामयान् बहून् ।
चलतां द्विजकेशानां पततां दार्थ्यमानयेत् ॥ २३२ ॥
दृग्बलं परमं तेषां बाह्वोः स्यादुत्तमं बलम् ।
वलिपलितहृत्तैलमिदं षड्बिन्दुसंज्ञितम् ॥ २३३ ॥
शिरोरोगे द्वितीयं षड्बिन्दुतैलम् ।
एरण्डमूलं तगरं शताह्वा जीवन्ती रास्ना लवणोत्तमं च ।
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम्॥२३४॥
आजं पयस्तैलविमिश्रितं च चतुर्गुणे भृङ्गरसे विपक्वम् ।
षड्बिन्दवो नासिकया प्रयुक्ता निघ्नन्ति सर्वाञ्छिरसो विकारान्
५२ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकार
च्युतांश्च केशान्पतितांश्च दन्तानाबद्धमूलांश्च दृढीकरोति ।
सुपर्णदृष्टिप्रतिमं च चक्षुर्बाहोर्बलं चाभ्यधिकं करोति॥२३६।
दन्तरोगे बकुलाद्यं तैलम् ।
बकुलस्य फलं लोध्रं बला वल्ली कुरण्टकम् ।
चतुरङ्गुलबब्बूलवाजिकर्णारिमेदकम् ॥ २३७ ॥
एषां कल्ककषायाभ्यां तैलं पक्वं मुखे धृतम् ।
स्थैर्यं करोति दन्तानां चलतां नावनेन च ॥ २३८ ॥
दन्तरोगे नीलसहचराद्यं तैलम् ।
तुलां धृतां नीलसहाचरस्य संक्षुद्य द्रोणे श्रपयेज्जलस्य ।
दत्त्वा चतुर्थावशेषेन तेन तैलं पचेदर्धपलग्रयुक्तैः ॥ २३९ ॥
कल्कैरनन्ताखदिरेरिमेदजम्ब्वाग्रयष्टीमधुकोत्पलानाम् ।
तत्तैलमाश्वेव धृतं मुखेन स्थैर्यं द्विजानां चलतां विदध्यात्२४०
मुखरोगे इरिमेदाद्यं तैलम् ।
इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा ।
तोयाढकैश्चतुर्भिर्निष्क्वाथ्य चतुर्थशेषेण ॥ २४१ ॥
क्वाथेन भिषङ्मतिमान् तैलस्यार्धाढकं शनैर्विपचेत् ।
कल्कैरक्षसमानैर्मञ्जिष्ठारोध्रमधुकानाम् ॥ २४२ ॥
इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला- ।
कर्पूरागुरुपद्मकलवङ्गकङ्कोलजातीफलानाम् ॥ २४३ ॥
पत्तङ्गमैरिकवराङ्गगजकुसुमधातकीनां च ।
सिद्धं भिषग्विद्ध्यादिदं मुखोत्थेषु रोगेषु ॥ २४४ ॥
परिशीर्णदन्तविद्रधिसौषिरशीताददन्तहर्षेषु ।
कृमिदन्तदरणचलितप्रहृष्टमांसावदीर्णेषु ॥ २४५ ।
मुखदौर्गन्ध्ये च तथा प्रागुक्तेष्वामयेषु वृद्ध्यर्थम् ।
धार्यं मुखेन युक्तेजैन्तुश्च संलेपुकुर्याय ॥ २४६
गदनिग्रहः । ५३
दन्तरोगे द्वितीयमिरिमेदाद्यं तैलम् ।
न वृद्धानातिबालाच त्वक्तुलामिरिमेदकात् ।
अपां द्रोणे समावाप्य पचेत्पादावशेषितम् ॥ २४७ ॥
ततस्तेन कषायेण क्षीरप्रस्थसमन्वितम् ।
लाक्षारससंयुक्तं तैलप्रस्थं पचेन्नरः ॥ २४८ ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेसरपद्मकैः ।
चन्दनोत्पलयष्ट्याह्वैः पालिकैर्धातकीसमैः ॥ २४९ ॥
एतद्रुजापहं नाम तैलं गण्डूषधारणात् ।
दारणं दन्तचालं च हनुमोक्षं कपालिकाम् ॥ २५० ॥
शीतादं पूतिवक्त्रं च शौषिरं विरसास्यताम् ।
हन्यादाशु गदानेतान् कुर्याद्दन्तांस्थिरानपि ॥ २५१ ॥
दन्तरोगे खदिराद्यं तैलम् ।
शतं खदिरसारस्य जलद्रोणेन साधितम् ।
पादशेषे रसे लोध्रमञ्जिष्ठारक्तचन्दनैः ॥ २५२ ॥
कट्फलोशीरलाखैलात्वक्पत्रामरदारुभिः ।
समङ्गाकुङ्कुमनलदपरिप्लववालुकैः ॥ २५३ ॥
वालुकागुरुकुस्तैलास्पृक्कातगरपद्मकैः ।
कल्कीकृतैः पचेदेभिस्तैलप्रस्थं भिषग्वरः ॥ २५४ ॥
धार्यं स्यात्कृमिदन्तेषु दन्तेषु चलितेषु च ।
शौषिरे दन्तनाडीषु विद्रध्यां मुखजेषु च ॥ २५५ ॥
हन्यादाशु तदभ्यङ्गात्कुष्ठं च कफपित्तजम् ।
वातजानि तु कुष्ठानि व्यङ्गप्लीहातिसुप्तिकाम् ॥ २५६ ॥
त्वग्दोषपिटकाकण्डूरजसं वातशोणितम् ।
व्रणं मासं च नस्येन वलिपलितनाशनम् ॥ २५७ ॥
ज्वरे बृहल्लाक्षादितैलम् ।
लाक्षा हरिद्रा मञ्जिष्ठा फलिनी मधुकं बला ।
लामज्जकं चन्दनं च गैरिकं नीलमुत्पलम् ॥ २५८ ॥
५४ आयुर्वेदौयग्रन्थमाला । [तैलाधिका
एषां भागान् समान् कृत्वा पक्त्वा तोये चतुर्गुणे ।
तुर्यभागावशेषं तु गर्मे चैनं समावपेत् ॥ २५९ ॥
हरेणुका पद्मकं च हयगन्धा तथैव च ।
वेतसं चोरकं कुष्ठं देवदारु नखत्वचम् ॥ २६० ॥
शतपुष्पा पुण्डरीकं मांसी मधुकमेव च ।
एभिरक्षसमैः कल्कैः कषायेनाथ पेषितैः ॥ २६१ ॥
दधिशुक्तारनालानामाढकाढकमावपेत् ।
क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् ॥ २६२ ॥
तदभ्यङ्गे प्रशंसन्ति तैलं दाहनिवारणम् ।
वातपित्तोद्भवं क्षिप्रं ज्वरमेतन्नियच्छति ॥ २६३ ॥
सप्रलापं सतृष्णं च तालुशोषमथ भ्रमम् ।
ग्रहोपसृष्टं बालं च रक्तसंदूषिताश्च ये ॥ २६४ ॥
एत्तैलं प्रशमयेल्लाक्षादिकमिति स्मृतम् ।
ज्वरे लघुलाक्षादितैलम् ।
लाक्षारसं समादाय तैलप्रस्थाच्चतुर्गुणम् । ॥ २६५ ॥
मस्तुनश्चाढकं दद्याद्द्रव्यैरेभिश्च कार्षिकैः ।
मधुकेन हरिद्राभ्यां मुस्तेन सह मूर्वया ॥ २६६ ॥
रास्नया कटुरोहिण्या चन्दनेनाश्वगन्धया ।
शताह्वया च कुष्ठेन हरेण्वा देवदारुणा ॥ २६७ ॥
मञ्जिष्ठापद्मकोशीरबलामांसीभिरेव च ।
तत्सिद्धमथ पूतं च स्थापयेद्भाजने शुभे ॥ २६८ ॥
जीर्णज्वरपरीतानां श्वासकासार्त्तिनां तथा ।
गर्भिणीनां च नारीणां बालानां शुष्यतामपि ॥२६९॥
क्षीणानां शोषिणां चाथ तैलं लाक्षादिकं हितम् ।
विषमज्वरमोक्षार्थं सर्वज्वरग्रहापहम् ॥ २७० ॥
गदनिग्रहः । ५५
सन्निपातज्वरे जात्यादितैलम् ।
नवपत्राङ्कुरा जाती द्वे हरिद्रे शतावरी ।
जीवकर्षभकौ रास्ना सरलं देवदारु च ॥ २७१ ॥
मुस्तातालीशमञ्जिष्ठापाठावरुणचित्रकाः ।
कुञ्जं सर्पसुगन्धं च मधुकं द्वे च सारिवे ॥ २७२ ॥
अनन्ताऽऽमलकं मूर्वा मधुकं करवीरकम् ।
देवपुष्पं शिरीषस्य मूलं स्योनाकमेव च ॥ २७३ ॥
चव्यं लाक्षा पयसा च कल्कीकृत्याक्षसंमितान् ।
पक्त्वा चाथ कषायेण तैलप्रस्थं विपाचयेत् ॥ २७४ ॥
एतदभ्यञ्जनाद्धन्यात्सन्निपातात्मकं ज्वरम् ।
तैलं जात्यादिकं नाम वातपित्तकफापहम् ॥ २७५ ॥
ज्वरे षट्चरणं तैलम् ।
लाक्षाविश्वानिशामूर्वामञ्जिष्ठाखर्जिकामयैः ।
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ॥ २७६ ॥
शोषे शिरीषाद्यं तैलम् ।
मूलं त्वचं च पत्रं च प्रवालं स्कन्धमेव च ।
शिरीषाद्वितुले दद्याद्धर्मस्त्वेष प्रकीर्तितः ॥ २७७ ॥
वरुणः पारिभद्रश्च ककुभश्चतुरङ्गुलः ।
विल्वोऽग्निमन्थः श्योनाकः करघाटः सवञ्जुलः॥२७८॥
गन्धर्वहस्तः काकोली काश्मरी पाटली तथा ।
निदिग्धिकाऽथ वार्त्ताकी शालिपर्णी मयूरकः ॥२७९॥
तुरगी श्रेयसी चैव शतावर्युदकं तथा ।
सुषव्यतिबला चैव दन्ती सिंहमुखी तथा ॥ २८० ॥
पञ्चाशत्पलिकान् भागान्मूलं पुष्पं च रोहिषात् ।
निष्क्वाथ्यैस्त्रिफलायाश्च प्रस्थस्त्रिगुणितो भवेत् ॥ २८१ ॥
कोलकानां कुलत्थानां यवानां तत्समं तथा ।
द्राक्षायाः शतपुष्पायाः कुर्यादाढकमाढकम् ॥ २८२ ॥