गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
५.] गदनिग्रहः । १६३
मुक्त्वा जीर्णं वपुश्चाम्यमवापुस्तरुणं वयः ।
वीततन्द्रा-क्लम-श्वासा निरातङ्काः समाहिताः ॥ २७६ ॥
मेधास्मृतिबलोपेताश्चिरकालं तपोधनाः ।
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ २७७ ॥
आयुष्कामः प्रयुञ्जानो ब्राह्मं हीदं रसायनम् ।
दीर्घमायुर्बलं चाग्र्यं कामांश्चेष्टान्समश्नुते ॥ २७८ ॥
क्षतक्षीणेऽमृतप्राशावलेहः ।
जीवकर्षभकौ वीरा जीवन्ती नागरं शठी ।
पर्ण्यश्चतस्रो द्वे मेदे काकोल्यौ द्वे निदिग्धिके ॥२७९॥
पुनर्नवे द्वे मधुकमात्मगुप्ता शतावरी ।
ऋद्धिः पुरुषकं भार्गी मृद्वीका बृहती तथा ॥ २८० ॥
शृङ्गाटकी तामलकी पयस्या पिप्पली बला ।
बदराक्षोटखर्जूरवातामामिषुकाणि च ॥ २८१ ॥
फलानि चैवमन्यानि कल्कान्कुर्वीत कार्षिकान् ।
धात्रीरसविदारीक्षुच्छागमांसरसान् पयः ॥ २८२ ॥
दत्त्वा प्रस्थोन्मितान् भागान् घृतप्रस्थं विपाचयेत् ।
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २८३ ॥
ततो मात्रां प्रयुञ्जीत क्षीरमांसरसाशनः ।
नष्टशुक्रक्षतक्षीणदुर्बलान् व्याधिकर्षितान् ॥ २८४ ॥
स्त्रीप्रसक्तान् कृशान्वर्णस्वरहीनांश्च बृंहयेत् ।
कासहिक्काज्वरश्वासतृष्णादाहान् सपैत्तिकान् ॥ २८५॥
निहन्ति छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम् ।
लघुच्यवनप्राशोऽवलेहः ।
बिल्वादिपञ्चमूलाब्दबलापर्णीचतुष्टयम् ।
ऋद्धिकृष्णाशठीपथ्याजीवकर्षभकामृताः ॥ २८६ ॥
द्राक्षा पुनर्नवा मेदे जीवन्ती काकनासिका ।
उत्पलैलाजशृङ्गयश्च काकोली वृषचन्दनम् ॥ २८७ ॥
१६४ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः
विदारीगोक्षुरव्याघ्रीपौष्करं च पलोन्मितम् ।
शतानि पञ्च धात्र्याश्च जलद्रोणे विपाचयेत् ॥२८८॥
पलद्वादशके भृष्टा धात्रीस्तास्तैलसर्पिषोः ।
सितार्धतुलया युक्ताः क्वाथं लौहे पुनः पचेत् ॥ २८९ ॥
द्वे पिप्पल्या पले वांश्याश्चत्वारः षट् च माक्षिकात् ।
चातुर्जातपलं तस्मिन् सिद्धशीते नियोजयेत् ॥ २९० ॥
हृद्रोगश्वासहृत्कासवातरक्तक्षयार्तिजित् ।
सेव्योऽयं च्यवनप्राशः स्वर्यो वृष्यो रसायनः ॥२९१॥
शोषेऽमृतप्राशोऽवलेहः ।
छागमांसरसक्षीरविदारीक्षुरसाढकम् ।
धात्रीफलरसं चैव मृद्वीकानां रसं घृतम् ॥ २९२ ॥
पृथक्प्रस्थोन्मितैरेतैः पचेत्कर्षसमैर्भिषक् ।
वाताममधुकाक्षोटशृङ्गाटककसेरुकाः ॥ २९३ ॥
परूषकं शठी भार्गी जीवन्ती च पुनर्नवा ।
खर्जूरं पिप्पली शृङ्गी ह्यात्मगुप्ता सजीवका ॥ २९४ ॥
सिंही व्याघ्रपदी स्याच्च द्राक्षा तामलकी स्थिरा ।
बदरं कदरं चैव जीवनीयानि यानि च ॥ २९५ ॥
तत्सिद्धं राजते पात्रे निधेयं साधु साधितम् ।
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २९६ ॥
त्वगेलापत्रमरिचचूर्णं चार्धपलोन्मितम् ।
विनीय भक्षयेन्मात्रां लिह्याद्वापि यथाबलम् ॥ २९७॥
बलवर्णकरं वृष्यं बृंहणं स्वरबोधनम् ।
कासश्वासारुचिं हन्यात्तृण्मूर्च्छासृग्दरं तथा ॥ २९८ ॥
परं क्षीणक्षतहितं वन्ध्यापुत्रप्रदायि च ।
अमृतप्राशनामेदममृतं देवताविव ॥ २९९ ॥
इति श्रीवैद्यसोढलप्रथिते गदनिग्रहेऽवलेहाधिकारः पञ्चमः संपूर्णः ॥
६.] गदनिग्रहः । १६५
॥ अथातः षष्ठ आसवाधिकारः प्रारभ्यते ॥
कुमार्थासवः ।
द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् ।
तुलार्धं दशमूलं तु तदर्धं पौष्करी जटा ॥ १ ॥
तत्समं धन्वयासं च चित्रार्थं च परिक्षिपेत् ।
प्रस्थार्थममृता ज्ञेया तदर्थमभया तथा ॥ २ ॥
लोध्रकामलकं पथ्यं मञ्जिष्ठा च कलिद्रुमः ।
चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ ३ ॥
कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् ।
जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ ४ ॥
शृङ्गी निशा प्रियङ्गुश्च मांसी मुस्ता च सारिवा ।
वासा वरी शक्रबीजं नागकेसरमेव च ॥ ५ ॥
पुनर्नवा समांशानि षड्भिर्द्रोणैर्जलस्य तु ।
क्वाथयेदनया रीत्या चतुर्थांशं जलं नयेत् ॥ ६ ॥
त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु ।
गुडस्तुलाचतुष्कं च तदर्धा धातकी भवेत् ॥ ७ ॥
पलद्वयं लवङ्गानि कङ्कोलं मलयोद्भवम् ।
चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ॥ ८ ॥
आकल्लुकं जातिफलं कपिकच्छुश्च दीप्यकम् ।
वचा खदिरसारश्च दहनं जीरकं तथा ॥ ९ ॥
यवानी वालकं विश्वा मुस्ता धान्यं हरीतकी ।
हपुषा तिन्तिडीकं च चूर्णमेषां प्रयोजयेत् ॥ १० ॥
भाण्डे पुराणे सुस्निग्धे धूपिते गन्धभेषजैः ।
कोष्ठसारे तथा तप्ते भूमौ मासं विनिःक्षिपेत् ॥ ११ ॥
यो रोगी प्रातरुत्थाय पलमेकं तु भक्षयेत् ।
धातुक्षयं जयेत्कासं श्वासं पञ्चविधं तथा ॥ १२ ॥
१६६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
अशांसि वातरोगांश्च ग्रहणीपाण्डुकामलाः ।
हलीमकमुदावर्त्तं गुल्मं पञ्चविधं जयेत् ॥ १३ ॥
आध्मानं कुक्षिशूलं च प्रत्याध्मानं गुदग्रहम् ।
अष्ठीलिकां च हृद्रोगानेतान् व्याधीन्विनिर्जयेत् ॥ १४ ॥
कुमार्यासव इत्येष कथितः शूलपाणिना ।
द्वितीयः कुमार्यासवः ।
रसस्तुलार्धं कौमारस्तदर्धंगुडमिश्रितः ।
चातुर्जातलवङ्गानां सैन्धवस्य निशाद्वयोः ॥ १५ ॥
कुबेरकृष्णामरिचधातकीनां पलं पलम् ।
पथ्याचूर्णं पलयुगं पलं चाकल्लुकस्य तु ॥ १६ ॥
उग्रगन्धाजातिपत्रीविडङ्गानां पलं पलम् ।
एकीकृत्य शुचौ भाण्डे पक्षमेकं निधापयेत् ॥ १७ ॥
पलार्धं भक्षयेन्नित्यं गुल्मोदावर्त्तनाशनः ।
आध्मानं पार्श्वशूलं च जठरार्तिं कफं हरेत् ॥ १८ ॥
मन्दाग्निं शमयेच्छ्वासं कासं हिक्कां क्षयं तथा ।
यकृत्प्लीहं तथा शोफं नाशयेत्येष सेवितः ॥ १९ ॥
नवविधा आसवयोनिः ।
त्वक्पत्रकाण्डपुष्पाणि सारमूलफलानि च ।
धान्यानि च सिता चापि नव आसवयोनयः ॥ २० ॥
द्रव्यसंयोगतः संख्यातीताः पथ्यतमाश्च ते ।
द्रव्याणां भेदतो वेदवसु(८४)संख्याः प्रकीर्त्तिताः २१
तद्यथा—
षड् धान्यासवाः ।
सुरासौवीरमैरेयधान्याम्लतुषोदकाः ।
समेदा रससंख्यास्ते आसवा धान्यतो मताः ॥ २२॥
षड्विंशतिः फलासवाः ।
द्राक्षाखर्जूरकाश्मर्यजम्ब्वामलविभीतकैः ।
धन्वराजादनैः पद्मातृणशून्यपरूषकैः ॥ २३ ॥
६.] गदनिग्रहः । १६७
कपित्थम्गलिण्डिकाकार्कन्धूबदरीफलैः ।
पियालपनसप्लक्षन्यग्रोधोदुम्बरैः सह ॥ २४ ॥
कपीनपीलुबकुलाजमोदाशङ्खिनीफलैः ।
शृङ्गाटाश्वत्थसंयुक्तः षड्विंशाः फलतो मताः ॥ २५॥
एकादश मूलासवाः ।
विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरी- ।
श्यामोरूबूकदन्तीभिर्बिल्ववह्नित्रिवृत्समैः ॥ २६ ॥
मूलैरेकादशैते तु मुनिभिर्मूलतो मताः ।
विंशतिः सारासवाः ।
शालप्रियङ्गुस्यन्दनचन्दनखदिरार्जुनैश्च कदरयुतैः ।
अशनाश्वकर्णसप्तपर्णशमीशिंशिपासहितैः ॥ २७ ॥
अरिमेदतिन्दुकणिहीशुक्तिशिरीषैश्च वञ्जुलसमेतैः ।
धन्वनमधुकसारैर्विंशतिरात्रेयमुनिनोक्ताः ॥ २८ ॥
दश पुष्पासवाः ।
पद्मोत्पलनलिनकुमुदसौगन्धिकपौण्डरीकशतपत्रैः ।
पुष्पैर्मधूकजातैः प्रियङ्गुना धातकीकुसुमैः ॥ २९ ॥
दश पुष्पासवाः पूर्वं मुनिभिः परिकीर्तिताः ।
चत्वारः काण्डासवाः ।
चत्वारः काण्डकैः पुण्ड्रेक्षुकाण्डेक्ष्विक्षुवालिकैः ॥३०॥
द्वौ पत्रासवौ ।
पटोलकतमालाभ्यां द्वौ हि पत्रासवौ मतौ ।
चत्वारस्त्वगासवाः ।
तिल्वैलवालुक्रमुकैः सलोध्रैस्त्वकृता हिताः ॥ ३१ ॥
शर्करासवः ।
शर्करासवं एवैको द्रव्यसंयोगमागतः ।
आसवानां विकल्पसंस्कारगुणाः ।
विकल्पा बहुधा ज्ञेयाः संस्कारश्च यथाविधिः ॥ ३२ ॥
१६८ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
स्वयोनिसंस्कृता ह्येते स्वं स्वं कर्म प्रकुर्वते ।
संयोगसंस्कृतैर्देशकालमात्रस्वभावतः ॥ ३३ ॥
पृथक्तेषां स्वभावांस्तु ज्ञात्वा कार्ये प्रयोजयेत् ।
श्लोकद्वयमिहार्थे तु मुनिरात्रेय उक्तवान् ॥ ३४ ॥
मनःशरीराग्निवलप्रदानामश्मशोकारुचिनाशनानाम् ।
हर्षप्रदानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा ॥ ३५ ॥
शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयाय ।
उवाच यज्ञःपुरुषादिकेऽस्मिन्मुनिस्तथाग्याणि वरासवांश्च ३६
वातव्याधौ विडङ्गासवः ।
विडङ्गं पिप्पलीमूलं पाठा धात्र्येलवालुकम् ।
कुटजत्वक्फलं रास्नां भार्गी पञ्चपलोन्मितान् ॥ ३७ ॥
अष्टद्रोणेऽम्भसः पक्त्वा द्रोणशेषं तु कारयेत् ।
पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥ ३८ ॥
धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् ।
व्योषस्य तु पलान्यष्टौ त्रिजातद्विपलान्यपि ॥ ३९ ॥
फलिनीहेमतोयानां सरोद्राणां पलं पलम् ।
घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥ ४० ॥
एष योगो हरत्येव प्रत्यष्ठीलाभभगन्दरान् ।
ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ ४१ ॥
आढ्यवातं हनुस्तम्भं विडङ्गाख्यो महासवः ।
प्रमेहे रोध्रासवः ।
रोध्रं शठीं पुष्करमूलमेलां मूर्वा विडङ्गं त्रिफलां यवानीम् ।
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४२
भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां च पाठाम् ।
कलिङ्गकान् केसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥ ४३ ॥
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे ।
रसेऽर्धमाघे संक्षुनः प्रदक्ष्य पक्षं निधेयो घृतभाजनस्थः ॥ ४४ ॥
६.] गदनिग्रहः । १६९
रोध्रासवोऽयं कफपित्तमेहान्क्षिप्रं निहन्याद्विपलप्रयोगात् ।
पाण्ड्वामयार्शांस्यर्रुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम् ४५
प्रमेहे देवदार्वासवः ।
देवदारुतुलार्धं तु वासायाः पलविंशतिः ।
शक्राह्वदन्तीमञ्जिष्ठास्तगरं रजनीद्वयम् ॥ ४६ ॥
रास्ना मुस्तं शिरीषं च कृमिघ्नं खदिरार्जुनौ ।
भागान्दशपलान्कृत्वा गुडूच्याश्चित्रकस्य च ॥ ४७ ॥
चन्दनस्य यवान्याश्च रोहिण्या वत्सकस्य च ।
भागान् पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ ४८ ॥
द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् ।
धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ ४९ ॥
चतुःपलं त्रिजाताच्च व्योषस्य च पलद्वयम् ।
पलद्वयं केसरस्य प्रियङ्गोश्च पलद्वयम् ॥ ५० ॥
घृतभाण्डे निदध्याच्च मासमेकं प्रयत्नतः ।
प्रमेहान्मूत्रकृच्छ्रांश्च वातरोगान् सुदारुणान् ॥ ५१ ॥
ग्रहण्यर्शोविकारांश्च देवदार्वासवो जयेत् ।
कुष्ठे कनकारिष्टः ।
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य ।
पलिकां मात्रां क्षेप्यां कृत्वा तामेव सूक्ष्मचूर्णं तु ॥ ५२ ॥
त्रिफलात्रिकटुकराजनीकतकत्वग्बाकुचीगुडूच्यश्च ।
सविडङ्गमत्र मधुपलशतद्वयं प्रक्षिपेत्सर्वम् ॥ ५३ ॥
धातकीपलान्यष्टौ क्वाथे चास्मिन्प्रदेयानि ।
प्रातः प्रातस्तु पिबेन्नाशयति चिरोत्थितं कुष्ठम् ॥ ५४ ॥
मासेन सर्वरोगान्निहन्ति च शोफमेहांश्च ।
निर्जितकासश्वासो गुदकीलभगन्दरैर्विनिर्मुक्तः ॥ ५५ ॥
कनकारिष्टं प्रपिबन्भवति पुमान्कनककान्तिश्च ।
१५
१७० आयुर्वेदौयग्रन्थमाला । [ आसवाधिकारः
अर्शसि द्वितीयकनकारिष्टः ।
नवस्यामलकसैकां कुर्याज्जर्जरीतां तुलाम् ।
कुडवांशश्व मागध्या विडङ्गं मरिचानि च ॥ ५६ ॥
यवासः पिप्पलीमूलं क्रमुकं चव्यचित्रकौ ।
मञ्जिष्ठैल्वालुकं रोध्रं पलिकान्युपकल्पयेत् ॥ ५७ ॥
कुष्ठं दारुहरिद्रां च सुराहं सारिवाद्वयम् ।
मुस्तमिन्द्रयवांश्चैव कुर्यादर्धपलोन्मितान् ॥ ५८ ॥
चत्वारि नागपुष्पस्य पलान्यभिनवस्य च ।
जलद्रोणद्वयेनैतत्सादधित्वाऽवतारयेत् ॥ ५९ ॥
द्रोणावशेषे पूते च शीते तस्मिन्प्रदापयेत् ।
मृद्वीकाद्वाढकरसं शीतं निर्यूहसाधितम् ॥ ६० ॥
शर्करायाश्च शुद्धाया दद्याद्द्विगुणितां तुलाम् ।
कुसुमस्वरसस्यैकमर्धप्रस्थं नवस्य च ॥ ६१ ॥
त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेसरान् ।
संचूर्णयित्वा मतिमान्कार्षिकान्संप्रदापयेत् ॥ ६२ ॥
तत्सर्वं स्थापयेत्पक्षं सुचौक्षे घृतभाजने ।
प्रलिप्ते सर्पिषा किंचिच्छर्करागुरुधूपिते ॥ ६३ ॥
पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः ।
पेयः खांडुरसो हृद्यः प्रयोगाद्भक्तरोचकः ॥ ६४ ॥
अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम् ।
हृत्पाण्डुरोगश्वयथुगुल्मवर्चोनिलग्रहान् ॥ ६५ ॥
कासान्कफामयांश्चोग्रान्सर्वानेवापकर्षति ।
वलीपलितखालित्यं दोषजं तु व्यपोहति ॥ ६६ ॥
ग्रहण्यां दुरालभारिष्टः ।
दुरालभाया द्विप्रस्थं प्रस्थमामलकस्य च ।
शुण्ठी चित्रकदन्त्योर्द्वे प्रत्यग्रं चाभयाशतम् ॥ ६७ ॥
चतुर्द्रोणेऽम्भसः क्वाथ्यं शीतं द्रोणावशेषितम् ।
६.] गदनिग्रहः । १७१
गुडस्य द्विशतं पूतं मधुनः कुडवान्वितम् ॥ ६८ ॥
तद्धत्प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णकम् ।
कुडवं घृतकुम्भस्थं पक्षादूर्ध्वं पिबेन्नरः ॥ ६९ ॥
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् ।
स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ७० ॥
अर्शसि दन्त्यरिष्टः ।
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः ।
भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ ७१ ॥
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् ।
रसे चतुर्थशेषे तु पूते शीते प्रदापयेत् ॥ ७२ ॥
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने ।
तन्मात्रया पिबेन्नित्यमर्शेभ्यः स विमुच्यते ॥ ७३ ॥
ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् ।
दीपनं चारुचिहरं दन्त्यरिष्टमिमं विदुः ॥ ७४ ॥
अर्शसि अभयारिष्टः ।
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च ।
कपित्थानां दशपलं ततोऽर्धं चेन्द्रवारुणी ॥ ७५ ॥
विडङ्गं पिप्पली रोध्रं मरिचं सैलवालुकम् ।
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ७६ ॥
द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ।
गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ ७७ ॥
पक्षादूर्ध्वं भवेत्पेया ततो मात्रा यथाबलम् ।
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ७८ ॥
ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः ।
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ७९ ॥
सिद्धोऽयमभयारिष्टः कामलाशिव्रनाशनः ।
कृमिग्रन्थ्यर्बुदव्यङ्गराजक्ष्मज्वरान्तकृत् ॥ ८० ॥
१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
ग्रहण्यां द्वितीयोऽभयारिष्टः ।
हरीतकीदलप्रस्थं प्रस्थमामलकस्य च ।
विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् ।
पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥
गुडसैकां तुलां वैद्यः संस्थाप्य घृतभाजने ।
पक्षस्थितं पिबेन्नित्यं ग्रहणीर्शोविकारनुत् ॥ ८३ ॥
प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् ।
कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥
प्रमेहे तृतीयोऽभयारिष्टः ।
पलाष्टकांशा वर्षाभूदशमूलार्कचित्रकाः ।
दन्तीश्यामात्रिवृद्द्द्वाक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥
अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते ।
द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥
गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा ।
विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥
संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् ।
आभयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥
प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् ।
पाण्डुरोगे मण्डूरारिष्टः ।
मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥
तद्वल्लोहस्य पत्राणि तिलोत्सेधप्रमाणतः ।
गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥
निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते ।
पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥
त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् ।
अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥
६.] गदनिग्रहः । १७३
दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति ।
कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥
एषोऽरिष्टस्तु माण्डूरः शोफपाण्ड्वामयापहः ।
क्षयरोगे पिप्पल्यारिष्टः ।
पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥
चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् ।
मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥
पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् ।
एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥
पलानि दश धातक्या गुडस्य च शतत्रयम् ।
तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥
ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः ।
पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥
शोफेऽष्टशतारिष्टः ।
काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् ।
शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९
सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेच्चा ।
शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १००
तक्रारिष्टः ।
हपुषा सुषवी धान्यमजाजी कारवी शठी ।
पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥
यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् ।
मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने ॥ १०२ ॥
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् ।
पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥
दीपनो रोचनो बल्यः कफवातानुलोमनः ।
१. ‘क्षयक्षयकरः परम्’ इति पाठान्तरम् ।
१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
ग्रहण्यां द्वितीयोऽभयारिष्टः ।
हरीतकीदलप्रस्थं प्रस्थमामलकस्य च ।
विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् ।
पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥
गुडस्यैकां तुलां वैद्यः संस्थाप्य घृतभाजने ।
पक्षस्थितं पिबेन्नित्यं ग्रहण्यर्शोविकारनुत् ॥ ८३ ॥
प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् ।
कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥
प्रमेहे तृतीयोऽभयारिष्टः ।
पलाष्टकांशा वर्षाभूर्दशमूलार्कचित्रकाः ।
दन्ती श्यामात्रिवृद्राक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥
अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते ।
द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥
गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा ।
विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥
संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् ।
आमयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥
प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् ।
पाण्डुरोगे मण्डूरारिष्टः ।
मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥
तदर्द्धलोहस्य पत्राणि तिलोत्सेधप्रमाणतः ।
गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥
निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते ।
पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥
त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् ।
अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥
६.] गदनिग्रहः । १७३
दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति ।
कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥
एषोऽरिष्टस्तु माण्डूरः शोफपाण्डामयापहः ।
क्षयरोगे पिप्पल्यारिष्टः ।
पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥
चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् ।
मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥
पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् ।
एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥
पलानि दश धातक्या गुडस्य च शतत्रयम् ।
तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥
ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः ।
पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥
शोफेऽष्टशतारिष्टः ।
काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् ।
शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९
सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना ।
शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १००
तक्रारिष्टः ।
हपुषा सुषवी धान्यमजाजी कारवी शठी ।
पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥
यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् ।
मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ॥ १०२ ॥
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् ।
पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥
दीपनो रोचनो बल्यः कफवातानुलोमनः ।
१. 'क्षयक्षयकरः परम्' इति पाठान्तरम् ।
१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥
अरोचके लघुचुक्रसन्धानम् ।
गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् ।
शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥
यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥
मन्दाग्नौ बृहच्चुक्रसन्धानम् ।
प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः
प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका ।
मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले
द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥
स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत्
ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे ।
षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै-
श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥
हन्याद्वातकफामदोषजनितान्नानाविधानामयान् ।
दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥
लवङ्गासवः ।
लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् ।
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥
द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ।
गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥
पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् ।
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥
ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः ।
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥
सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।
६.] गदनिग्रहः । १७५
कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् ॥ ११४ ॥
प्लीहे रोहीतकासवः ।
रोहीतकशतमेकं कथितं द्रोणे चतुर्थशेषे तु ।
तस्मिन्गुडशतमेकं योज्यं शेषैः सुचूर्णितैरेभिः ॥ ११५ ॥
पलमेकं त्रिफलाया देयं त्रिपलं च धातकीपुष्पात् ।
पलिकं च पञ्चकोलाद्धृतभाण्डे स्थापयेत्पक्षम् ॥ ११६ ॥
ज्वरगुल्मार्शःप्लीहरुग्विग्रहपाण्डुरोगघ्नः ।
अर्शस्सु गण्डिकाद्रोणः ।
दद्यात्सलिलद्रोणं कृतमन्येक्षुगण्डिकाद्रोणम् ॥ ११७ ॥
धान्ययवानीदीप्यकपृथ्वौकाश्वेति कुडवांशाः ।
द्विपलीनाः स्युर्देयास्तेजवतीचव्यचित्रकाजाज्यः ॥ ११८॥
मधुनः कुडवं दत्त्वा घृतरूढे भाजने स्थाप्यः ।
एष काञ्जिकराजो लवणयुतः कट्कतृणार्द्रकसुगन्धः॥११९॥
दशरात्रात्पातव्यः सलिलं च पुनः पुनर्देयम् ।
अर्शोभगन्दरगदग्रहणीमेदःप्रमेहदोषांश्च ॥ १२० ॥
नाशयति सेव्यमानो वह्निकरो गण्डिकाद्रोणः ।
कुष्ठे खदिरासवः ।
खदिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि ॥ १२१ ॥
वराया विंशतिर्दान्व्यर्याः पलानां पञ्चविंशतिः ।
बाकुच्या द्वादशपलांन्यष्टद्रोणेऽम्भसः पचेत् ॥ १२२ ॥
द्रोणशेषे कषाये तु पूते शीते विनिक्षिपेत् ।
धातक्या विंशतिपलं माक्षिकस्य शतद्वयम् ॥ १२३ ॥
शर्करायास्तुलामेकां चूर्णानीमानि दापयेत् ।
कङ्कोलकं लवङ्गं च एला जातीफलं त्वचम् ॥ १२४ ॥
केसरं मरिचं पत्रं पलिकान्युपकल्पयेत् ।
पिप्पलीनां तु कुडवं स्थापयेद्धृतभाजने ॥ १२५ ॥
१ 'वचायाः' इति पाठान्तरम् ।
१७६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
मासादूर्ध्वं पिबेन्मात्रामपेक्ष्याग्निबलाबलम् ।
सर्वकुष्ठहरो ह्येष पाण्डुहृद्रोगकासनुत् ॥ १२६ ॥
कृमिग्रन्ध्यर्बुदग्रन्थिगुल्मप्लीहोदरान्तकृत् ।
एष वै खदिरारिष्टः कृष्णात्रेयेण पूजितः ॥ १२७ ॥
कुष्ठे द्वितीयः खदिरारिष्टः ।
खदिरस्य तुलामम्भसि विपचेच्चतुर्द्रोणसंमिते शेषम् ।
पादं विगृह्य शीते दद्यान्मधुनस्तुलां सार्धाम् ॥ १२८ ॥
वस्त्रविपूते चूर्णं व्योषत्रिफलापिण्डखर्जूरी- ।
स्वर्णत्वग्बाकुचिकामृताविडङ्गपलाशनाम् ॥ १२९ ॥
धातकिपलषोडशकं दत्त्वा प्रविलोडितं नित्यम् ।
यावत्षोडशदिवसाः षोडशके मधुतुलां दद्यात् ॥ १३० ॥
मासात्परतः पेयो दत्त्वा मृगनाभिमाषकं पटेबद्धम् ।
कर्पूरमाषद्वयमेष खदिरासवो महाकुष्ठे ॥ १३१ ॥
क्षयरोगे बब्बुल्यासवः ।
तुलाद्वयं तु बब्बुल्याश्चतुर्द्रोणेऽम्भसः पचेत् ।
द्रोणशेषे रसे शीते गुडस्य त्रिशतं क्षिपेत् ॥ १३२ ॥
धातक्याः षोडशपलं पिप्पलीनां पलद्वयम् ।
जातीलवङ्गकङ्कोलमेलात्वक्पत्रकेसरम् ॥ १३३ ॥
मरिचेन समायुक्तं पलिकांस्तत्र कल्पयेत् ।
मासमात्रं स्थितो ह्येष बब्बुल्यासवसंज्ञितः ॥ १३४ ॥
क्षयं कुष्ठं प्रमेहांश्च कासश्वासांश्च नाशयेत् ।
क्षयरोगे पुष्करमूलासवः ।
तुलां पुष्करमूलस्य तदर्धं तु दुरालभा ॥ १३५ ॥
तदर्धेन तु धान्याकं व्योषाच्च पलविंशतिः ।
मञ्जिष्ठाकुष्ठमरिचं कपित्थं देवदारु च ॥ १३६ ॥
रोध्रं कृमिघ्नं चविका पिप्पलीमूलमेव च ।
उशीरकाश्मरिफलं रास्ना भार्ङ्गी च नागरम् ॥ १३७ ॥
६.] गदनिग्रहः । १७७
एषां द्विपलिकान्भागंश्चतुर्द्रोणेऽम्भसः पचेत् ।
द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् ॥ १३८ ॥
गुडस्य त्रिशतं तत्र धातक्याः पलविंशतिः ।
मरिचं केसरं श्यामामेलात्वक्पत्रकं पलम् ॥ १३९ ॥
पिप्पलीनां तु कुडवं चूर्णीकृत्य प्रदापयेत् ।
घृतभाण्डे स्थितं मासं पिबेन्मात्रां यथाबलम् ॥ १४० ॥
क्षयापस्मारकासासृक्शोफगुल्मभगन्दरान् ।
पुष्करासव इत्येष प्रयोगादेव नाशयेत् ॥ १४१ ॥
क्षयरोगे माचिकासवः ।
माचिकायाः शतार्धं तु द्रोणेऽपां च विपाचयेत् ।
चतुर्थशेषे तस्मिंस्तु पूते शीते प्रदापयेत् ॥ १४२ ॥
गुडस्य द्विशतं दत्त्वा तत्सर्वं घृतभाजने ।
विडङ्गपिप्पलीकृष्णात्वगेलापत्रकेसरैः ॥ १४३ ॥
मरिचैश्च तथा चूर्णं सम्यक्कृत्वा विचक्षणः ।
क्षिपेच्च पालिकैर्भागैर्घटनीयं समन्ततः ॥ १४४ ॥
ततो यथाबलं पीत्वा कासश्वासगलामयान् ।
हन्ति यक्ष्माणमत्युग्रमुरःसन्धानकारकः ॥ १४५ ॥
माचिकासव इत्येष ब्रह्मणा निर्मितः पुरा ।
शोफे पुनर्नवासवः ।
पुनर्नवे द्वे च पले सपाठे दन्ती गुडूची सह चित्रकेण ।
निदिग्धिका च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तु ॥
पूत्वा रसं द्वे च तुले पुराणाद्गुडान्मधुप्रस्थयुतं सुशीतम् ।
मासं निदध्याद्धृतभाजनस्थं पल्ले यवानां परतश्च मासात् १४७
चूर्णीकृतैरर्धपलांशकैस्तं हेमत्वगेलामरिचाम्बुपत्रैः ।
गन्धान्वितं क्षौद्रघृतप्रदिग्धं जीर्णे पिबेद्व्याधिबलं समीक्ष्य १४८
हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहभ्रमारोचकमेहगुल्मान् ।
भगन्दरार्शोजठराणि कासश्वासग्रहण्यामयकुष्ठकण्डूः ॥ १४९ ॥
१७८ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च ।
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी ॥१५०॥
शोफे त्रिफलारिष्टः ।
फलत्रयं चित्रकपिप्पली च सदीप्यकं लोहरजो विडङ्गम् ।
चूर्णीकृतं कौडविकं, द्विरंशं क्षौद्रं, पुराणस्य तुलां गुडस्य ।
मासं निदध्याद्घृतभाजनस्थं यवेषु तानेवं निहन्ति रोगान्१५१
सर्वशोफे वासकासवः ।
वासकस्य तुले द्वे तु द्विद्रोणेऽपां विपाचयेत् ।
द्रोणार्धशेषं तत्कृत्वा पूते शीते प्रदापयेत् ॥ १५२ ॥
गुडस्यैकां तुलां तत्र धातक्यास्तु पलोष्टकम् ।
क्षिपेच्चूर्णीकृतं तस्मिंस्त्वगेलापत्रकेसरम् ॥ १५३ ॥
कङ्कोलव्योषतोयानि पलिकान्युपकल्पयेत् ।
सम्यक्पक्वं ततो ज्ञात्वा पक्षादूर्ध्वं पिबेदमुम् ॥ १५४ ॥
वासकासव इत्येष सर्वश्वयथुनाशनः ।
अर्शस्सु शर्करासवः ।
दुरालभायाः प्रस्थं च चित्रकस्य वृषस्य च ॥ १५५ ॥
पथ्यामलकयोश्चैव पाठाया नागरस्य च ।
दद्याद्द्विपलिकान्भागाञ्जलद्रोणे विपाचयेत् ॥ १५६ ॥
पादशेषे रसे पूते सुशीते शर्कराशतम् ।
दत्त्वा कुम्भे दृढे स्थाप्यं मासार्धं घृतभाजने ॥ १५७ ॥
प्रलिप्ते पिप्पलीचव्यप्रियङ्गुमधुसर्पिषा ।
तस्य मात्रां पिबेत्काले शर्करस्य यथाबलम् ॥ १५८ ॥
अर्शांसि ग्रहणीरोगमुदावर्तमरोचकम् ।
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम् ॥ १५९ ॥
हृद्रोगं पाण्डुरोगं च सर्वमेतत्प्रसाधयेत् ।
१. पुनर्नवासवपठितानित्यर्थः ।
६.] गदनिग्रहः । १७९
ग्रहण्यां द्राक्षासवः ।
मृद्वीकायाः पलशतं चतुर्द्रोणेऽम्भसः पचेत् ॥ १६० ॥
द्रोणशेषे सुशीते च पूते तस्मिन्प्रदापयेत् ।
द्वे शते क्षौद्रखण्डाभ्यां धातक्याः प्रस्थमेव च ॥ १६१ ॥
कङ्कोलकलवङ्गे च जातीफलमथैव च ।
पलांशकानि मरिचत्वगेलापत्रकेसरम् ॥ १६२ ॥
पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुकम् ।
घृतभाण्डे स्थितं चेदं चन्दनागुरूधूपिते ॥ १६३ ॥
कर्पूरवासितो ह्येष ग्रहणीदीपनः परः ।
अर्शसां नाशनः श्रेष्ठ उदावर्तास्रपित्तनुत् ॥ १६४ ॥
जठरकृमिकुष्ठानि व्रणांश्च विविधांस्तथा ।
अक्षिरोगशिरोरोगगलरोगविनाशनः ॥ १६५ ॥
ज्वरं हन्ति महाव्याधिं पाण्डुरोगं सकामलम् ।
नाम्ना द्राक्षासवो ह्येष बृंहणो बलवर्णकृत् ॥ १६६ ॥
अर्शसि द्वितीयो द्राक्षासवः ।
द्राक्षापलशतं दत्त्वा चतुर्द्रोणेऽम्भसः पचेत् ।
द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ॥ १६७ ॥
शर्करायास्तुलां दत्त्वा तत्तुल्यं मधुनस्तथा ।
पलानि सप्त धातक्याः स्थापयेदाज्यभाजने ॥ १६८ ॥
जातीलवङ्गकक्कोललवलीफलचन्दनैः ।
कृष्णां त्रिगन्धसंयुक्तां भागैरर्धपलांशकैः ॥ १६९ ॥
त्रिःसप्ताहाद्भवेत्पेयं तत्र मात्रा यथाबलम् ।
नाम्ना द्राक्षासवो ह्येष नाशयेद्गुदकीलकान् ॥ १७० ॥
शोफारोचकहृत्पाण्डुरक्तपित्तभगन्दरान् ।
गुल्मोदरकृमिग्रन्थिक्षतशोषज्वरान्तकृत् ॥ १७१ ॥
वातपित्तप्रशमनः शस्तश्च बलवर्णकृत् ।
१८० आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
ग्रहण्यां बीजकासवः ।
बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः ॥ १७२ ॥
द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे तथाऽम्भसि ।
साध्यं पादावशेषे च पूतशीते प्रदापयेत् ॥ १७३ ॥
शर्करायास्तुलां प्रस्थं क्षौद्रं दद्याच्च कार्षिकम् ।
व्योषव्याघ्रनखोशीरं क्रमुकं सैलवालुकम् ॥ १७४ ॥
मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने ।
यवेषु दशरात्रस्थं ग्रीष्मे, द्विः शिशिरे स्थितम् ॥ १७५ ॥
पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोफगुल्मनुत् ।
मूत्रकृच्छ्राश्मरीकुष्ठकामलासन्निपातनुत् ॥ १७६ ॥
अर्शसि पील्वासवः ।
द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने
युञ्जीत द्विपलैर्मदामधुफलाखर्जूरधात्रीफलैः ।
पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः
स्पृक्काकोललवङ्गवेल्लचपलामूलाथिकैः पालिकैः॥१७७॥
गुडशतविनियोजितं निवाते
निहितमिदं प्रपिबेच्च पक्षमात्रात् ।
निशमयति गुदाङ्कुरान्सगुल्मा-
ननलबलं प्रबलं संविधत्ते ॥ १७८ ॥
रक्तपित्ते उशीरासवः ।
उशीरं पद्मकं रोध्रं प्रियङ्गुं नीलमुत्पलम् ।
प्रपौण्डरीकं काश्मीरं ह्रीबेरं धन्वयासकम् ॥ १७९ ॥
सेव्यं किराततिक्तं च पटोलं काञ्चनारकम् ।
पद्मं शाल्मलिनिर्यासं न्यग्रोधोदुम्बरं शठीम् ॥ १८० ॥
मञ्जिष्ठां पर्पटं जम्बू भागानैतान्पलोन्मितान् ।
सूक्ष्मचूर्णीकृतान् दद्याद्राक्षायाः पलविंशतिम् ॥ १८१ ॥
धातक्याः षोडशपलं तोयद्रोणे विनिक्षिपेत् ।