गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 194, कुल 286 में से
संदर्भ में पढ़ें१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥
अरोचके लघुचुक्रसन्धानम् ।
गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् ।
शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥
यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥
मन्दाग्नौ बृहच्चुक्रसन्धानम् ।
प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः
प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका ।
मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले
द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥
स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत्
ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे ।
षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै-
श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥
हन्याद्वातकफामदोषजनितान्नानाविधानामयान् ।
दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥
लवङ्गासवः ।
लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् ।
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥
द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ।
गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥
पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् ।
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥
ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः ।
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥
सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।