सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 196, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 196

१७६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
मासादूर्ध्वं पिबेन्मात्रामपेक्ष्याग्निबलाबलम् ।
सर्वकुष्ठहरो ह्येष पाण्डुहृद्रोगकासनुत् ॥ १२६ ॥
कृमिग्रन्ध्यर्बुदग्रन्थिगुल्मप्लीहोदरान्तकृत् ।
एष वै खदिरारिष्टः कृष्णात्रेयेण पूजितः ॥ १२७ ॥
कुष्ठे द्वितीयः खदिरारिष्टः ।
खदिरस्य तुलामम्भसि विपचेच्चतुर्द्रोणसंमिते शेषम् ।
पादं विगृह्य शीते दद्यान्मधुनस्तुलां सार्धाम् ॥ १२८ ॥
वस्त्रविपूते चूर्णं व्योषत्रिफलापिण्डखर्जूरी- ।
स्वर्णत्वग्बाकुचिकामृताविडङ्गपलाशनाम् ॥ १२९ ॥
धातकिपलषोडशकं दत्त्वा प्रविलोडितं नित्यम् ।
यावत्षोडशदिवसाः षोडशके मधुतुलां दद्यात् ॥ १३० ॥
मासात्परतः पेयो दत्त्वा मृगनाभिमाषकं पटेबद्धम् ।
कर्पूरमाषद्वयमेष खदिरासवो महाकुष्ठे ॥ १३१ ॥
क्षयरोगे बब्बुल्यासवः ।
तुलाद्वयं तु बब्बुल्याश्चतुर्द्रोणेऽम्भसः पचेत् ।
द्रोणशेषे रसे शीते गुडस्य त्रिशतं क्षिपेत् ॥ १३२ ॥
धातक्याः षोडशपलं पिप्पलीनां पलद्वयम् ।
जातीलवङ्गकङ्कोलमेलात्वक्पत्रकेसरम् ॥ १३३ ॥
मरिचेन समायुक्तं पलिकांस्तत्र कल्पयेत् ।
मासमात्रं स्थितो ह्येष बब्बुल्यासवसंज्ञितः ॥ १३४ ॥
क्षयं कुष्ठं प्रमेहांश्च कासश्वासांश्च नाशयेत् ।
क्षयरोगे पुष्करमूलासवः ।
तुलां पुष्करमूलस्य तदर्धं तु दुरालभा ॥ १३५ ॥
तदर्धेन तु धान्याकं व्योषाच्च पलविंशतिः ।
मञ्जिष्ठाकुष्ठमरिचं कपित्थं देवदारु च ॥ १३६ ॥
रोध्रं कृमिघ्नं चविका पिप्पलीमूलमेव च ।
उशीरकाश्मरिफलं रास्ना भार्ङ्गी च नागरम् ॥ १३७ ॥