सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 193, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 193

६.] गदनिग्रहः । १७३
दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति ।
कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥
एषोऽरिष्टस्तु माण्डूरः शोफपाण्डामयापहः ।
क्षयरोगे पिप्पल्यारिष्टः ।
पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥
चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् ।
मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥
पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् ।
एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥
पलानि दश धातक्या गुडस्य च शतत्रयम् ।
तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥
ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः ।
पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥
शोफेऽष्टशतारिष्टः ।
काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् ।
शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९
सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना ।
शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १००
तक्रारिष्टः ।
हपुषा सुषवी धान्यमजाजी कारवी शठी ।
पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥
यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् ।
मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ॥ १०२ ॥
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् ।
पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥
दीपनो रोचनो बल्यः कफवातानुलोमनः ।
१. 'क्षयक्षयकरः परम्' इति पाठान्तरम् ।