गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 187, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १६९
रोध्रासवोऽयं कफपित्तमेहान्क्षिप्रं निहन्याद्विपलप्रयोगात् ।
पाण्ड्वामयार्शांस्यर्रुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम् ४५
प्रमेहे देवदार्वासवः ।
देवदारुतुलार्धं तु वासायाः पलविंशतिः ।
शक्राह्वदन्तीमञ्जिष्ठास्तगरं रजनीद्वयम् ॥ ४६ ॥
रास्ना मुस्तं शिरीषं च कृमिघ्नं खदिरार्जुनौ ।
भागान्दशपलान्कृत्वा गुडूच्याश्चित्रकस्य च ॥ ४७ ॥
चन्दनस्य यवान्याश्च रोहिण्या वत्सकस्य च ।
भागान् पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ ४८ ॥
द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् ।
धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ ४९ ॥
चतुःपलं त्रिजाताच्च व्योषस्य च पलद्वयम् ।
पलद्वयं केसरस्य प्रियङ्गोश्च पलद्वयम् ॥ ५० ॥
घृतभाण्डे निदध्याच्च मासमेकं प्रयत्नतः ।
प्रमेहान्मूत्रकृच्छ्रांश्च वातरोगान् सुदारुणान् ॥ ५१ ॥
ग्रहण्यर्शोविकारांश्च देवदार्वासवो जयेत् ।
कुष्ठे कनकारिष्टः ।
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य ।
पलिकां मात्रां क्षेप्यां कृत्वा तामेव सूक्ष्मचूर्णं तु ॥ ५२ ॥
त्रिफलात्रिकटुकराजनीकतकत्वग्बाकुचीगुडूच्यश्च ।
सविडङ्गमत्र मधुपलशतद्वयं प्रक्षिपेत्सर्वम् ॥ ५३ ॥
धातकीपलान्यष्टौ क्वाथे चास्मिन्प्रदेयानि ।
प्रातः प्रातस्तु पिबेन्नाशयति चिरोत्थितं कुष्ठम् ॥ ५४ ॥
मासेन सर्वरोगान्निहन्ति च शोफमेहांश्च ।
निर्जितकासश्वासो गुदकीलभगन्दरैर्विनिर्मुक्तः ॥ ५५ ॥
कनकारिष्टं प्रपिबन्भवति पुमान्कनककान्तिश्च ।
१५