गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 189, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १७१
गुडस्य द्विशतं पूतं मधुनः कुडवान्वितम् ॥ ६८ ॥
तद्धत्प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णकम् ।
कुडवं घृतकुम्भस्थं पक्षादूर्ध्वं पिबेन्नरः ॥ ६९ ॥
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् ।
स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ७० ॥
अर्शसि दन्त्यरिष्टः ।
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः ।
भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ ७१ ॥
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् ।
रसे चतुर्थशेषे तु पूते शीते प्रदापयेत् ॥ ७२ ॥
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने ।
तन्मात्रया पिबेन्नित्यमर्शेभ्यः स विमुच्यते ॥ ७३ ॥
ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् ।
दीपनं चारुचिहरं दन्त्यरिष्टमिमं विदुः ॥ ७४ ॥
अर्शसि अभयारिष्टः ।
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च ।
कपित्थानां दशपलं ततोऽर्धं चेन्द्रवारुणी ॥ ७५ ॥
विडङ्गं पिप्पली रोध्रं मरिचं सैलवालुकम् ।
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ७६ ॥
द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ।
गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ ७७ ॥
पक्षादूर्ध्वं भवेत्पेया ततो मात्रा यथाबलम् ।
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ७८ ॥
ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः ।
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ७९ ॥
सिद्धोऽयमभयारिष्टः कामलाशिव्रनाशनः ।
कृमिग्रन्थ्यर्बुदव्यङ्गराजक्ष्मज्वरान्तकृत् ॥ ८० ॥