गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 198, कुल 286 में से
संदर्भ में पढ़ें१७८ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च ।
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी ॥१५०॥
शोफे त्रिफलारिष्टः ।
फलत्रयं चित्रकपिप्पली च सदीप्यकं लोहरजो विडङ्गम् ।
चूर्णीकृतं कौडविकं, द्विरंशं क्षौद्रं, पुराणस्य तुलां गुडस्य ।
मासं निदध्याद्घृतभाजनस्थं यवेषु तानेवं निहन्ति रोगान्१५१
सर्वशोफे वासकासवः ।
वासकस्य तुले द्वे तु द्विद्रोणेऽपां विपाचयेत् ।
द्रोणार्धशेषं तत्कृत्वा पूते शीते प्रदापयेत् ॥ १५२ ॥
गुडस्यैकां तुलां तत्र धातक्यास्तु पलोष्टकम् ।
क्षिपेच्चूर्णीकृतं तस्मिंस्त्वगेलापत्रकेसरम् ॥ १५३ ॥
कङ्कोलव्योषतोयानि पलिकान्युपकल्पयेत् ।
सम्यक्पक्वं ततो ज्ञात्वा पक्षादूर्ध्वं पिबेदमुम् ॥ १५४ ॥
वासकासव इत्येष सर्वश्वयथुनाशनः ।
अर्शस्सु शर्करासवः ।
दुरालभायाः प्रस्थं च चित्रकस्य वृषस्य च ॥ १५५ ॥
पथ्यामलकयोश्चैव पाठाया नागरस्य च ।
दद्याद्द्विपलिकान्भागाञ्जलद्रोणे विपाचयेत् ॥ १५६ ॥
पादशेषे रसे पूते सुशीते शर्कराशतम् ।
दत्त्वा कुम्भे दृढे स्थाप्यं मासार्धं घृतभाजने ॥ १५७ ॥
प्रलिप्ते पिप्पलीचव्यप्रियङ्गुमधुसर्पिषा ।
तस्य मात्रां पिबेत्काले शर्करस्य यथाबलम् ॥ १५८ ॥
अर्शांसि ग्रहणीरोगमुदावर्तमरोचकम् ।
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम् ॥ १५९ ॥
हृद्रोगं पाण्डुरोगं च सर्वमेतत्प्रसाधयेत् ।
१. पुनर्नवासवपठितानित्यर्थः ।