द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
द्रव्यगुणः । ५
मुच्यते । अत्र वदन्ति आपो रसानामाधारकारणम् अपां पृथिव्या-
व्यामनुप्रवेशात् पृथिव्यपि आधारकारणमेव तेन जलक्षिती अपि
तदाधारतया रसानामभिव्यक्तौ अभिव्यक्तेश्च मधुरादिरूपता-
मन्तरेण असम्भवात् मधुरादिविशेषेऽपि कारणे भवतः । अग्न्या-
दयस्तु त्रयो नौरसतया मधुरादिविशेषे निमित्तकारणं प्राधा-
न्येन भवन्ति तद्व्यतिरेकेण अम्लादिरसाभावात् । रसाभि-
व्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभिव्यक्तौ अपि
कारणत्वमग्न्यादीनां भवति । तदुक्तं चरके
रसनार्थो रसस्तस्य द्रव्यमापः क्षित्तिस्तथा ।
निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥
अत्र हि चकारद्वयात् जलक्षित्योरपि विशेषे कारणत्वम् ।
तथा खादीनाञ्च निर्वृत्तौ अपि कारणत्वमुक्तं तेन मधुरे विशेषे-
ऽपि अपां कारणत्वात् सुष्ठूक्तं पृथिव्यम्बुगुणबाहुल्यात् मधुर इति ।
एवं तोयाग्निगुणबाहुल्यात् अम्ल इत्यपि समाधेयम् । न च यथा
भूमितोयाधिक्यात् मधुर एवं तोयवाय्वधिक्यात् भूम्याकाशा-
धिक्यात् वा रसान्तरोत्पत्तिः कुतो न स्यादिति वाच्यम् । स्वभा-
वस्यापर्यनुयोज्यत्वात् यतः पृथिव्यादिभूतानामेवायं स्वभावः
यत् केनचिदेव भूताधिक्येन व्यवस्थिता रसविशेषोत्पादकाः न
पुनर्यत्किञ्चिद्भूताधिक्येनेति । अतएव तोयाग्न्योः परस्पर-
विरोधात् कथमेककार्यारम्भकत्वमित्यपि अपास्तमुक्तायुक्तेरेव ।
ननु च रसानां षड्विधत्वमनुपपन्नम् अन्तरिक्षजलादौ अव्य-
क्तस्य सप्तमरसस्यापि विद्यमानत्वात् । नैवं मधुरादीनामेव षण्णां
तत्र अन्तरिक्षजलादौ अव्यक्तीभावेन तस्य अव्यक्तरसस्य मधु-
रादिभ्योऽभिन्नत्वात् । न च क्षारस्यापि रसत्वात् सप्तमत्वोप-
पत्तिरिति वाच्यम् । तस्य क्रियागुणयोगेन द्रव्यत्वात् तदुक्तं चरके ।
क्षरणात् क्षारो नासौ रस इत्यादि । तत्सहचरितस्य लवण
६ द्रव्यगुणाः ।
मधुरो धातुविवर्द्धन आयुर्बलवर्णतृप्तिकृत्कण्ठ्यः ।
सन्धानकृन्मुखादिह्लादकरः स्निग्धगुरुशीतः ॥२॥
अम्लोरुचिदीप्तिकरो
मन इन्द्रियबोधनो हृदयतर्पी ।
एवान्तर्भावो लवणवर्गपाठात् । एते च रसाः परस्परसंयोगात्
सप्तपञ्चाशद्भवन्ति । ते पुनश्चरकसुश्रुतादौ अवगन्तव्याः । इह
तु विस्तरभयान्नोक्ताः ॥ १ ॥
सम्प्रति रसेषु मध्ये आयुष्यत्वादिगुणयोगेन मधुरस्याद्यनि-
र्हितत्वात् तद्गुणान् प्रथममभिदधते मधुर इति । सन्धान-
कृदिति । उरःक्षतादीनां मुखादीति आदिशब्दात् घ्राण-
जिह्वाकण्ठोष्ठग्रहणम् । स्निग्धगुरुशीत इत्यनेन वातपित्त-
हन्तृत्वं बोध्यम् । एतच्च शीतत्वमौत्सर्गिकं तेन क्वचिन्मधुरस्य
उष्णत्वमपि ज्ञेयम् । तदुक्तं चरके मधुरं किञ्चिदुष्णं स्याद् यथा
चानूपमामिषमिति । यद्यपि गुणानां निर्गुणत्वेन रसेषु स्निग्धा-
दयो गुणा न सन्त्येव तथाप्युपचाराद्द्रव्यगुणा एव रसेषु
निर्दिश्यन्ते । तदुक्तम्
गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये ।
रसेषु व्यपदिश्यन्ते साहचर्य्योपचारतः ॥
इति । साहचर्य्यमेकार्थसमवायः । उपचारस्य किं फलमिति
चेद् ब्रूमः द्रव्यगुणकथने मधुरादिरसनिर्देशेनैव अनुक्ता अपि
स्निग्धत्वादिगुणाः प्रायो मधुररससहचारिणो ज्ञेयाः । तेन
मधुरत्वं निर्दिश्य पुनः स्निग्धत्वादि न वाच्यं साहचर्य्यलब्ध-
त्वात् । यत्र वा उच्यते तत्रातिशयार्थं स्पष्टार्थञ्च ज्ञेयम् ॥ २ ॥
दीप्तिर्वह्नेर्बोधनम् प्रसादः । आर्ज्जवमनुलोमनम् अत्रापि
द्रव्यगुणः । ७
वाताऽर्जवकृद्दल्यः
कण्ठदहः स्निग्धलघुरुष्णाः ॥ ३ ॥
लवणः क्लेदनः पाचनो
दीपनो विच्छेदनः सरस्तीक्ष्णः ।
कफविष्यन्दी रुचिकृत्
स्निग्धगुरूष्णो मुखविशोधी ॥ ४ ॥
अम्लस्योष्णत्वं प्रायिकं तेन आमलकस्याम्लस्यापि शीतत्वं न
विरुद्धयते । तेन रसे गुणा विशेषाबाधेन ग्राह्या भवन्तीति
निर्गलितार्थः ॥ ३ ॥
अत्रापि लवणस्योष्णत्वं प्रायिकमिति सैन्धवस्य शैत्यं न
विरुद्धयते । अत्र केचित् सङ्गिरन्ते अम्बुतेजोबाहुल्यात् अम्लो
रसो निष्पद्यते । तदत्र अम्बुतेजोभ्यामारब्धेऽम्ले किं तोयगुणा-
धिक्यात् शैत्यं भवतु किंवा अग्निगुणाधिक्यात् उष्णत्वम् । एवं
लवणेऽपि पृथिव्यग्निगुणारब्धे वाच्यम् । तौ पुनरम्ललवणौ
वा आग्नेयौ एव परं सुश्रुतेन प्रतिपादितौ । यथा कट्वम्ललवणा
आग्नेया इति । तदत्र वक्तव्यो हेतुविशेषः । येन परस्परविरुद्ध-
गुणबहुलस्य केवलमाग्नेयत्वमेव स्यादिति । उच्यते अम्लरसादौ
परस्परविरोधिभूतद्वयगुणबहुलेऽपि परस्यैव भूतस्य गुणाः पूर्व-
भूतगुणानभिभूय स्वभावमुख्यत्वं दर्शयन्ति । कुत इति चेत् उष्ण-
जलादौ प्रत्यक्षदृष्टत्वात् । यद्येवं रसेषु सर्वेषु एव लघुत्वप्रसङ्गः
अग्निगुणाधिक्यादेव । न एतदस्ति उष्णत्वेन हि उष्णजलादौ
शीतत्वमभिभूयमानं दृष्टं सुवर्णरजतलोहादिषु तु गुरुत्वमनभि-
भूतमेव दृश्यते । तेन अम्लादिगुरुत्वे पूर्वभूतगुणा एव प्रधाना
इति । भवति चात्र ।
१. प्रथम वर्ग: हरीतक्यादि वर्ग (हरीतकी, विभीतक, आमलकी, गुग्गुलु)
८ द्रव्यगुणः।
कटुरास्यं शोधयति घ्राणाच्चिविरेचनः कृमीन्
हन्ति।
रसनोद्वेगकृदुष्णो लघुरूक्षः कुष्ठहारी च ॥ ५ ॥
तिक्तो न रोचते स्वयमरोचकघ्नो विषघ्नश्च ।
दीपनपाचनशोधनरुच्यः शीतो लघुश्चापि ॥६॥
तुवरो हिमगुरुरूक्षस्तम्भी शमनश्च पीतनो ग्राही ।
व्रणपाकार्त्तिक्लेदान्निहन्ति कण्ठञ्च बध्नाति ॥७॥
भूतद्वयगुणे मुख्ये मुख्यो गुणविशेषकृत ।
स्नेहगौरवयोः पूर्वः परः स्यादौष्णशैत्ययोः ॥
अत्र स्नेहगौरवयोरिविरोधिनोः रौक्ष्यलाघवयोर्ग्रहणमूह्यम् ।
वस्तुतस्तु भूतानामेव अयं स्वभावो यद्भूतद्वयसमारब्धेऽपि रसे
कस्यचिद्भूतस्य कश्चिदेव गुणो व्यक्तत्वेनोपलभ्यते न सर्व इति ।
भूतस्वभावे च अदृष्टविशेष एव कारणमुन्नेयमिति ॥ ४ ॥
कटुरसगुणानाह । कटुरिति । अत्र लघुरूक्षत्वेनावृष्यत्वं
कटोर्ज्ञेयं तदपि प्रायिकं तेन पिप्पलीनागरयोः कटुरसयोरपि
वृष्यत्वमुपपन्नं भवति ॥ ५ ॥
तिक्तरसगुणानाह तिक्त इति । शोधन इति व्रणस्य स्तन्यस्य
च । अत्र अर्कागुरुगुडूचीनां तिक्तानामप्यौष्ण्यं पूर्ववत् समर्थ-
नीयम् ॥ ६ ॥
कषायरसगुणानाह तुवर इति । तुवर इति कषायः । ननु
च रूक्षः शीतो लघुश्चेति चरकेणोक्तम् । अत्र च गुरुत्वमुक्तमिति
विरोध इति चेन्नैवं तत्राप्यलघुरित्यकारप्रश्लेषाद्गुरुरित्यर्थ-
ष्टीकाकृद्भिर्व्याख्यात इति । वाभटेऽप्युक्तं
कषायः कफपित्तघ्नो गुरुर्वस्तिविशोधनः ।
द्रव्यगुणः । ८
शीतं कफमारुतकृद् वीर्यं गुरु पित्तनाशनं बल्यम् ।
उष्णं कफवातहरं पित्तकरं लघु वृष्यञ्च ॥ ८ ॥
इति । यत्तु सुश्रुते कषायो रसो लाघवाद्वातं वर्द्धयती-
त्युक्तं तत्तस्य लघुपाकतयेति विरोधं परिहरन्ति । स्तम्भो
स्तम्भनः । अत्रापि कषायस्य हिमत्वं स्तम्भित्वञ्चौत्सर्गिकं
तेन हरीतक्यां कषायरसस्य उष्णत्वं भेदकत्वञ्चापवादतया सम-
र्थनीयम् । शमन इति संगमनः पीतन इति व्रणस्य ॥ ७ ॥
सम्प्रति रसगुणाभिधानमनु वीर्य्यगुणा वाच्याः । तत्र वीर्य्य-
स्वरूपमेव प्रथमं निरूप्यते । वीर्य्यं शक्तिः सा च पृथिव्यादीनां
भूतानां यः सारभागस्तदतिशयरूपा बोध्या । सा च द्विविधा
चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रियाहेतुर्या द्रव्यरसा-
दीनां स्वस्वकर्माणि स्वभावसिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च
प्रभावापरपर्याया द्रव्याणां रसाद्यननुरूपकार्य्यकारणशक्तिः ।
उक्तञ्च भूतप्रसादातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्य-
क्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम् । एतेन द्रव्यरसपाकानां स्वस्व-
कार्य्यकारणसामर्थ्यं वीर्य्यमित्यर्थः । यत्पुनश्चरके वीर्य्यन्तु
क्रियते येन या क्रिया इत्यनेन रसादीनामपि वीर्य्यत्वमुक्तं तद्धर्म-
धर्मिणोरभेदादेव समर्थनीयम् । न चैवं द्रव्यस्यापि वीर्य्यत्व-
प्रसङ्गः । येनेति करणे तृतीया करणस्यैव शक्तित्वात् । द्रव्यस्य
च कर्तृत्वात् एतेन द्रव्यकर्तृके रसादिकरणके कार्य्ये रसा-
दीनामपि वीर्य्यत्वमित्यर्थः । सुश्रुतेऽप्युक्तं येन कुर्वन्ति तद्वीर्य्य-
मिति । अत्र केचित् ननु यदि शक्तिरेव वीर्य्यं न तर्हि शीतो-
ष्णादिलक्षणम् । अथ शीतोष्णादिलक्षणं न तदा शक्तिलक्षण-
मिति । सत्यं परमार्थतः शक्तिरेव वीर्य्यं सा पुनर्बलवत्क्रिया
निर्वर्त्तनक्षमा रसादिनानायोगाद्भिरुपाधिरिति । तस्याः शीतो-
१० द्रव्यगुणः ।
ण्यादयो गुणा उपाधित्वेनाङ्गीकृताः । ते तु द्रव्यसमवायिनो
रसादिषु पुनरुपचरितवृत्तय इति । उक्तञ्च
गुणाः कर्मव्यवस्थायै द्रव्याणां रसपाकयोः ।
शक्तेः कर्मसु शक्ता ये निरुपाधेरुपाधयः ॥
इत्याहुः । यत्पुनमृदु तीक्ष्णं गुरु लघु स्निग्धरूक्षोष्ण-
शीतलं वीर्य्यमष्टविधं केचित् । केचिद्द्विविधमास्थिताः शीतोष्ण-
मिति । मतभेदेनाष्टविधं द्विविधं वा वीर्य्यमिति । उक्तञ्चरकेण
तत्पारिभाषिकवीर्य्यपुरस्कारेण । वैद्यके हि रसविपाकप्रभा-
वातिरिक्ते प्रभूतकार्य्यकारिणि गुणे वीर्य्यमिति संज्ञा तेनाष्ट-
विधवीर्य्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं
कार्य्यं प्रायः कुर्व्वन्तीति तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनाम-
ष्टानान्तु रसाद्यभिभावकत्वमस्ति । तथा पिप्पल्यां कटुरस-
कार्य्यं पित्तकोपममभिभूय तद्गते मृदुशीतवीर्य्ये पित्तमेव शमयत
इति । तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्य्यं
वातकोपनमभिभूय उष्णेन वीर्य्येण तद्विरुद्धं वातशमनमेव
क्रियते । तथा मधुरेऽपीक्षौ शीतवीर्य्यत्वेन वातवृद्धिरित्यादि ।
सुश्रुतेऽप्युक्तम् एतानि खलु वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभि-
भूयात्मकर्म दर्शयन्तीति । शीतोष्णवीर्य्यवादिमतन्तु अग्नीषो-
मीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् । उक्तञ्च
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् ॥
प्रथमवादिमते शक्तिमात्रं वीर्य्यं तद्योगात् रसादीनामपि
वीर्य्यसंज्ञा । पारिभाषिकवीर्य्यवादिमते तु शक्तिविशेषो वीर्य्यं
तद्योगात् मृदुतीक्ष्णादीनामेव वीर्य्यसंज्ञा नापरेषां गुणाना-
मिति । शास्त्रे व्यवहारस्तु पारिभाषिकवीर्य्यनयेनैवेति ।
भवतिचात्र
द्रव्यगुणः । ११
शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः ।
तयोरम्लं यदुष्णञ्च यच्चोक्तं कटुकं तयोः ॥६॥
शक्तिमात्रन्तु वीर्य्यं स्यादिति केचिद्बुधा विदुः ।
तन्मते द्रव्यरसयोः पाकस्य च गुणस्य च ।
मृदादेः स्वक्रियोत्पादे शक्तिर्वीर्य्यमिति स्थितिः ॥
यदुक्तं चरके वीर्य्यं क्रियते येन या क्रिया ।
नावीर्य्यं कुरुते किञ्चित् सर्वा वीर्य्यवती क्रिया ॥
इत्यनेन रसादीनां वीर्य्यत्वं तदभेदतः ।
मृदादयो गुणा अष्टौ वीर्याणीत्यूचिरे परे ॥
यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी ।
व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः ॥
तस्मान्न ते वीर्य्यसंज्ञा इति शास्त्रविदां मतम् ।
अन्ये शीतोष्णभेदेन वीर्य्यं द्विविधमूचिरे ॥
अग्नीषोममयं विश्वं यत एतच्चराचरम् ।
यद्यपि अष्टविधमेव वीर्य्यं भवति तथापि तेषु एव शीतो-
ष्णयोः प्राधान्यात् तद्गुणमेवाह शीतमिति ॥ ८ ॥
इदानीं रसद्वारेण द्रव्याणां वीर्य्यमाह शीतमिति । यद्-
द्रव्यं रसे पाके च मधुरं तद्वीर्येण शीतं ज्ञेयम् । तथा तयोः
रसपाकयोर्यदम्लं तद्वीर्येणोष्णं ज्ञेयम् । तथा यच्च द्रव्यं तयोः
रसपाकयोः कटुकमुक्तं तदपि वीर्येणोष्णं ज्ञेयमिति शेषः ।
किंवा यच्चोष्णं कटुकं तयोरिति पाठः । प्रभावोऽचिन्त्यक्रिया-
हेतुवोर्य्यमेवेति शक्तिविशेष एव प्रभाव इत्यभिधीयते । प्रभाव-
सत्त्वे च चरके मानमप्युक्तम् यथा
रसवीर्य्यविपाकानां सामान्यं यत्र लक्ष्यते ।
विशेषः कर्मणाञ्चैव प्रभावस्तस्य स स्मृतः ॥
१२ द्रव्यगुणः ।
कटुर्विपाकः शुक्रघ्नो बद्धविट्वातलो लघुः ।
इति । सामान्यमिति तुल्यता कर्मणां पुनर्विशेषो न तुल्य-
तेत्यर्थः । एतेन द्रव्ययोर्द्वयोरसादिसाम्ये सत्यपि एकस्मिन्
द्रव्ये जायते कार्य्यविशेषः । इतरत्र तु न जायत इत्यत्र यत्का-
रणतया वाच्यं तदेव प्रभाव इत्यर्थः । एतदुदाहरणञ्च तेनैवोक्तम् ।
कटुकः कटुकः पाके वीर्य्योष्णश्चित्रको मतः ।
तद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥
इति । तद्वदिति । चित्रकतुल्यरसवीर्य्यपाकाः । एतेन चित्र-
कस्य रसाद्यैस्तुल्यायामपि दन्त्यां तद्विरेचकत्वरूपं विशिष्टं
कर्म तत्स्वकारणं प्रभावमनुमापयतीति भावः । तथा रसादि
साम्याभावेऽपि रसादिजन्यत्वेन यत्कार्य्यं न अवधारयितुं
पार्य्यते तदपि प्रभावकृतमेव मन्तव्यम् । यथा मण्यादीनां विष-
हरणादिकं कर्म । तदुक्तं चरके
मणीनां धारणीयानां कर्म यद्विविधात्मकम् ।
तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥
विविधात्मकमिति विषहरणशूलहरणलौहाकर्षणादि ॥ ६ ॥
इदानीं विपाकगुणा वाच्याः । अतो विपाकस्वरूपं प्रथमं
निरूप्यते अवस्थापाकापेक्षया विशिष्टः पाको विपाकः । विपाक-
शब्देनेह लक्षणया विपाकाधेय आहारस्य रसविशेषो गौरवेण
लाघवेन वा युक्तोऽभिधीयते । उक्तञ्च वाग्भटेन
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् ।
रसानां परिणामान्ते स विपाक इति स्मृतः ॥
अत्र रसानां परिणामा मधुराम्लकटुरूपास्त्रयोऽवस्थापाकाः
षड्रसस्यैवान्नस्य आमाशयादिस्थानसम्बन्धमहिम्ना जायन्ते ।
ते च चरके ग्रहणीचिकित्सिते
द्रव्यगुणः । १२
स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः ।
पाकोऽम्लः सृष्टविण्मूत्रः पित्तकृत् शुक्रनुल्लघुः ॥१०
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः ।
इत्यादिना उक्ता अनुसन्धेयाः । तेषामन्तेऽवसाने पुनर्जाठ-
राग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक
इत्यर्थः । इह केचिदाचक्षते प्रतिरसं पाकः अम्लोऽम्लस्य मधुरो
मधुरस्य लवणो लवणस्य कटुकः कटुकस्य तिक्तस्तिक्तस्य
कषायः कषायस्य इति षडेव विपाकाः । किमत्र प्रमाणमिति
चेदुच्यते । यथा क्षीरमतिपच्यमानमपि मधुरमेव स्यात् । यथा
वा शालियवादय उप्ताः प्ररूढाः फलिताश्च शाल्यादिस्वरूपा
एव भवन्ति । तथा मधुरादयोऽपि निष्ठापाकेऽपि मधुरादि-
स्वरूपा एव भवितुमर्हन्तीति । उक्तञ्च
उप्ताः षष्टिकमाषाद्या बाह्यपकाश्च षड्रसाः ।
यान्ति नान्यत्वमित्येवं पाकः प्रतिरसं भवेत् ॥
इति । अन्येतु ब्रुवते रसा द्विविधा बलवन्तोऽबलवन्तश्च । बल-
वत्त्वञ्च व्यक्तत्वेन मात्राबाहुल्येन वा अबलवत्त्वं पुनरेतद्विपर्य्य-
येण । तत्र अल्पतया अबलवन्तो रसा बलवतां रसमायान्तीति ।
तेन निष्ठापाकेन बलवता रसेन दुर्बलरसाभिभवान्न रसप्रतिनिय-
मेन मधुरस्य मधुर एव पाकोऽम्लस्य चाम्ल एवेत्यादि प्रतिनिय-
माभावात् अनवस्थितः पाक इति । अनियतत्वपक्षेऽपि षट्क-
त्वमेव कदाचित् कस्यचित् सम्भवादिति ।
बह्वोऽभिभवन्त्यल्पान् वह्निर्मिश्रीकृता रसाः ।
तेनानिश्चितमेवैके पाकमाहुर्मनीषिणः ॥
इति । अन्ये तु वातादिभ्यो दोषेभ्य एव त्रीन् पाकान्
२
१४ द्रव्यगुणः ।
इच्छन्ति । कफात् वातकफात् मधुरः कफपित्तात् अम्लः वातात्
पित्तात् वातपित्ताच्च कटुक इति । तदुक्तम्
कफात् वातकफात् स्वादुरम्लः पित्तंकफोद्भवः ।
दोषैस्त्रयोऽनिलात् पित्तात् वातपित्तात् कटुर्मतः ॥
इति । तदेतत् मतत्रयं प्रमाणशून्यत्वात् उपेक्षणीयमेव ।
किञ्च प्रतिरसं रससदृशः पाकस्तथा बलवत्पराधीनता च
पाकस्य रसद्वारप्रतिपाद्यमानकार्य्येणैव लभ्यते । तेनैतत् पक्षद्वय-
मपि न निष्ठापाके चिन्तनीयं रसस्वरूपनिरूपणेनैवोक्तार्थत्वात् ।
दोषावस्थाजन्यश्च पाक उपपादकहेत्वभावात् आगमशून्यत्वाच्च
प्रेक्षावद्भिरुपेक्षणीय इति । चरकेण तु त्रय एव विपाका अङ्गी-
कृताः कट्वम्लमधुरभेदेन । अतस्तद्वचनमुपन्यस्यति ।
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ।
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥
प्रायश इति वचनात् पिप्पलीकुलत्थादीनाम् रसाननुगुण-
पाकतां दर्शयति । पाकस्तु तेजःसंयोगरूपो रसेषु सम्भव-
तीति । कट्वादिशब्दैस्तदाधारद्रव्याण्युच्यन्ते । एतेन यत् कैश्चि-
दुच्यते अवस्थापाकावसाने षड्रसस्यैव अन्नस्य कटुरसत्वेन तदानीं
तिक्तादिरसानामभावात् तेषां विपाको नोपपद्यत इति तदपि
अपास्तम् । तिक्तादिरसानामभावेऽपि तदाश्रयद्रव्यस्य विद्य-
मानत्वादिति । वस्तुतस्तु अवस्थापाकत्रयेण तत्तदामाशयादि-
स्थानमहिम्ना मधुराम्लकटुरसा उद्भूताः परं क्रियन्ते न तु
सर्वथा प्राक्तरसाभिभवः । अन्यथा अवस्थापाकेन प्राकृतानां
मधुरादिरसानां सर्वथा अप्राकृतत्वात् तेषां कफादिजनकत्वा-
भिधानं निरवकाशं स्यादिति । ननु चरके
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः ।
इत्यादिना षण्णामेव रसानामविशेषेण अवस्थापाकवशात्
द्रव्यगुणः । १५
कफादिजनकत्वमुक्तम् । तत्तथाच रसविशेषाणामेव दोषविशेष-
जनकत्वम् । तदुक्तं यथा
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ।
इत्यादिना च यो विपाक उक्तस्तत् सर्वं विरुध्यते अवस्था-
पाकेनैव बाधितत्वादिति । नैवम् । न हि अवस्थापाकोऽयं रस-
स्वभावं निष्ठापाकं बाधते । किञ्च अवस्थायां स्वकार्यं करोति
तेन रसादयोऽपि स्वकार्यं कुर्वन्ति । अवस्थापाकोऽपि स्वीयं
कार्यं करोति यथा मधुरतिक्ताद्यनेकरसे उपयुक्ते मधुरोऽपि
स्वकार्यं करोति । तिक्तादयश्च स्वकार्यं कुर्वन्ति । अयन्तु
विशेषो यदि मधुराख्यस्य अवस्थापाकस्य मधुरादयः श्लेष्म-
जनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति ।
यथा तु विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोक-
मात्रं कफं जनयति । एवं पित्तजनकावस्थापाकेऽपि वाच्यम् ।
कटुतिक्तकषायाणामित्यादिना उक्तश्च निष्ठापाको रसमल-
विवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न
विरोधः । स च भिन्नकालोऽपि अवस्थापाकजन्यदोषानुगुण-
तया अननुगुणतया वा अवस्थापाकाहितदोषाणां वर्द्धनं क्षपणं
वा करोतीति निष्ठापाकाभिधानं शास्त्रे प्रयोजनवदेव । अन्ये
तु ब्रुवते न तावत् षड्रसादप्यन्नात् सामान्येन अवस्थापाके-
ऽपि कफोत्पत्तिः । किन्तु षड्रस एवान्ने मधुरो य आहारांशः स
उद्रिक्तः सन् कफं जनयति । तथा पित्तदोषकोपको य
आहारभागस्तस्माद्विदाहावस्थायामुद्भूतात् अम्लरसात् पित्त-
मुत्पद्यते । एवं वायुरपि वायुजनकाहारांशात् कटुतावस्थायां
भवतीति । एतच्च न सङ्गतम् अन्नस्य भुक्तमात्रस्य इत्यादि-
ग्रन्थविरोधात् । यतोऽत्र षड्रसस्यैव अन्नस्य सामान्येन अव-
स्थापाकात् कफादिजनकत्वं दर्शितं न तु कस्यचिदाहारां-
१६ द्रव्यगुणः।
शस्येति। यदि पुनः षड्रसाहारगतो यः श्लेष्मजनको भागः
स एव स्थानमहिम्ना उद्भूतः सन् सर्वमेवाहारमवस्थापाकसमये
मधुरीकृत्य कफं जनयतीत्युच्यते तदानुमतमेव। अन्ये त्वाहुः।
यन्नान्नस्याग्निसंयोगान्मधुराद्यवस्थितं भवति। किन्तु कफा-
दिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति ते
चान्नं स्वस्वभावं नीत्वा कफादीन् जनयन्ति। उक्तं हि तन्त्रा-
न्तरे मधुरो हृदयादूर्द्धं रसः कोष्ठे व्यवस्थितः।
ततः संवर्द्धते श्लेष्मा शरीरबलवर्द्धनः।
नाभीहृदयमध्येन रसस्त्वम्लो व्यवस्थितः ॥
स्वभावेन मनुष्याणां तत्र पित्तं विवर्द्धते।
अधो नाभ्यान्तु स त्वेकः कटुकोऽवस्थितो रसः ॥
प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्द्धतेऽनिलः।
तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः॥
एतच्च तन्त्रान्तरं श्लेष्मपित्तगतमधुराम्लरसवायुप्राभाविक-
कटुरसाभिप्रायेण वर्णनीयम्। ते च कफादिगता रसा अस्माक-
मप्यग्न्याशयपाकसह्कारितया अनुमता एवेति। तस्माद्-
यथोक्त एवार्थो न्याय्य इति। अयञ्च विपाकाधेयो रसविशेषो
न रसनेन्द्रियग्राह्यः किन्तु तत्तत्कार्य्यैरेवोन्नीयते॥ यथा कटु-
रसाया उष्णवीर्य्याया अपि शुण्ठ्या वृष्यत्वेन मधुरः पाकोऽनु-
मीयते तथा लवणस्य सृष्टविण्मूत्रत्वेन मधुरः पाक उन्नी-
यते। तथा तिक्तकषायोर्बद्धविण्मूत्रतया कटुपाक उन्नीयत
इति। ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुप-
पन्नम्। तथा तिक्तकषाययोः कटुपाकित्वेच पित्तहन्तृत्व-
मनुपपन्नम्। नैवम्। सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे
उष्णवीर्य्यं यदस्ति तेन तत्पित्तरक्तादिकारकत्वम्। विपा-
कस्तु तत्र पित्तरक्तकरणलक्षणे कार्य्ये बाधितोऽपि सृष्टविण्मूत्रा-
दिलक्षणेन लक्ष्यत एव । तथा तिक्तकषाययोरपि कटुविपाको
बलवता शीतवीर्येण बाधितत्वान्न पित्तजनकः । बद्धविण्मूत्र-
तया तु लक्ष्यत एव । एतेन यदुच्यते लवणादिषु विपाको यदि
रसवीर्य्याभ्यां बाधितः स्वकार्य्यकरो न स्यात् तत् किं तेनोपदि-
ष्टेन इति तन्निरस्तं भवति । यतोऽस्त्येव सृष्टविण्मूत्रतादि तत्का-
र्य्यमिति । अन्ये तु एतद्दोषभयात् लवणस्तथेत्यत्र तथाशब्देन
विप्रकृष्टमम्लमाकृष्य लवणोऽम्लः पच्यते इति व्याख्यानयन्ति ।
तन्न कट्वादीनां कटुविपाकः अम्लोऽम्लस्य शेषयोर्मधुर इति
जतूकर्णविरोधात् । न च त्रय एव विपाकाः कथं भवन्ति
तिक्तादयोऽपि कुतो न स्युरिति वाच्यम् । भूतस्वभावस्यापर्य्यनु-
योज्यत्वात् । ननु यत्र रसविपरीत: पाको यथा लवणस्य
मधुरः तिक्तकषाययोश्च कटुः स उच्यतां यस्तु समानगुणो मधु-
रस्य मधुरः अम्लस्याम्लः कटुकस्य कटुकः तत्कथनेन किं प्रयो-
जनम् । यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् ।
लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानु-
गुणोऽपि विपाको वक्तव्य एव । तथा यत्र समानगुणो विपाक-
स्तत्र बलवत्कार्य्यं भवति । विपर्य्यये तु दुर्बलमिति ज्ञेयम् । सुश्रु-
तेन द्विविध एव विपाकोऽङ्गीकृतः मधुरः कटुकश्चेति । द्वैविध्ये
च भूतानां गुरुलाघवेन द्वैविध्यमेव हेतुः । यदुक्तं तेनैव तत्र
पृथिव्यप्तेजोवायूकाशानां द्वैविध्यं भवति तद्गुणसाधर्म्यात् ।
तत्र पृथिव्यापश्च गुर्व्यः । शेषाणि च लघूनि । तस्माद् द्विविध
एव विपाको भवति । तद्गुणसाधर्म्याच्च गुरुता लघुता
ज्ञेत्यर्थः । अत्रापि सुश्रुतमते यद्यप्यम्ललवणौ मधुरविपाकौ
तथापि तयोर्वातहरत्वे सृष्टविण्मूत्रतायाञ्च मधुरकार्य्यकरत्वं
न पुनः पित्तहरत्वे । तथा तिक्तकषाययोः कटुविपाकयोरपि
वातकर्त्तृत्वे बद्धविण्मूत्रतायाञ्च कटुकार्य्यकरत्वं न पुनः
१८ द्र्व्यगुणः ।
पित्तकर्तृत्वे अचिन्त्यत्वात् प्रभावस्य । एतदेवोक्तं माधवे-
नापि ।
स्वादादीनां स्वादुपाकः सुश्रुताचार्य्यसम्मतः ।
तत्कथं पित्तजननौ स्यातामम्लकट्टू रसौ ॥
कटुपाकौ कथं पित्तनाशनौ तिक्ततूवरौ ॥
सिद्धान्तोऽपि ।
अम्लपट्वोः फलं दद्यात् स्वादुपाकः कटुः पुनः ।
कषायतिक्तयोरित्थं सुश्रुताचार्य्यसम्मतः ॥ इति ।
ननु पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः ।
विपक्कः पञ्चधा सम्यक् स्वान् गुणानभिवर्द्धयेत् ॥
इत्यनेन पञ्चधापि विपाकस्तेनैवोक्तः । तत्कथं न विरोध
इति चेन्नैवम् । उपाधिभेदेन विरोधाभावात् । तत्र हि भूत-
भेदमवलम्ब्य पञ्चधात्वम् । अत्र तु लाघवगौरवरूपं भूतगुण-
द्वैविध्यमाश्रित्य द्वैविध्यमुक्तमिति न विरोधः । यथा पञ्चभूता-
त्मकत्वेऽपि द्रव्याणां सौम्याग्नेयत्वाद्वैविध्यमिति । यत् पुनः
सुश्रुतेनाम्लपाको न मन्यते तच्चरकमतानुयायिनो न सहन्ते ।
यतोऽम्लपाकतयैव व्रीहिकुलत्थादीनां पित्तकर्त्तृत्वमुपपद्यते ।
अथ मन्यसे व्रीह्यादेरुष्णवीर्य्यत्वेन तत्र पित्तकर्त्तृत्वम् । तदसत् ।
मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्य उष्णवीर्य्यतायामपि सत्यां
न पित्तकर्त्तृत्वमुपपद्यते । रसविपाकाभ्यामेकस्य वीर्य्यस्य बाध-
नीयत्वात् । किञ्च अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्प-
द्यते । यदि तु उष्णवीर्य्यताकृतं स्यात् तदा कटुगुणभूयिष्ठं
पित्तं स्यात् । दृश्यते च व्रीहिभक्षणादम्लोद्गारादिना अम्लगुण-
भूयिष्ठतैवेति । किञ्च पृथिवीसोमगुणातिरेकान्मधुरः पाको
भवति वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्र-
गुणातिरेको भवति । तदा सोमाग्न्यात्मकस्याम्लस्य उत्पादकः
द्रव्यगुणः । १८
शालयो मधुराः शीता लघुपाका बलप्रदाः ।
पित्तघ्नाल्पानिलकफाः स्निग्धबद्धाल्पवर्चसः ॥११॥
कथं प्रतिक्षेपणीयः । अथवा तन्त्रकारयोः किमनयोरनेन
वचनमात्रविरोधेन कर्त्तव्यम् । यतो यदम्लपाकं चरके ब्रूते
तत् सुश्रुतेन वीर्य्योष्णमिति कृत्वा समाधीयते । अनेन न
कश्चित् द्रव्यगुणे विरोधः । यत्तु सुश्रुते अम्लपाकनिरासार्थं
दूषणमुच्यते । पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तद-
नभ्युपगमादेव निरस्तमिति । विपाकगुणानाह कटुरित्यादि
॥ १० ॥
सम्प्रति द्रव्याणां गुणे वक्तव्ये द्रव्येषु चान्नस्य प्राधान्यात्
अन्नेषु च शूकधान्यानां शूकधान्येषु च शालीनाम् । अतः प्रथमं
तेषां सामान्यगुणानाह शालय इत्यादि । अत्र शालिशब्देन
हैमन्तिकं धान्यमुच्यते । यत्तु अकण्डितशुक्लत्वेन शालित्वमुच्यते ॥
तद्ग्रैष्मिकेषु षष्टिकादिषु शारदेषु व्रीहिषु च गतत्वात्
सकलशाल्यव्यापकत्वाच्च न युक्तम् । लघु शीघ्रं पाको येषां ते
लघुपाका लघुगुणयोगात् शीघ्रपाका इत्यर्थः । तन्त्रान्तरे-
ऽप्युक्तम् ।
अन्नपानविधावुक्तं यद्द्रव्ये गुरुलाघवम् ।
अग्निना तद्विजानीयात् पचनेन चिराचिरम् ॥
इति । न तु लघुगुणयुक्तः पाको येषामित्यर्थः । यतस्तादृशः
पाकः कटुरेव भवति । तथा सति स्निग्धत्वं बलावहत्वञ्चानुप-
पन्नं स्यात् । नन्वेवं बद्धाल्पवर्चस्त्वं मधुरपाके चानुपपन्नम् ।
यदुक्तम् ।
स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः ।
इति । नैष दोषः । शालीनां मधुरपाकित्वेऽपि बद्धाल्पवर्चस्त्वं
२० द्रव्यगुणः ।
द्रव्यप्रभावात् । नन्वेवं कटुपाकत्वेऽपि स्नेहादयो द्रव्यप्रभावा-
देव भविष्यन्तीति चेन्नैतदस्ति शालिनां कटुपाकाङ्गीकारे बहु-
तन्त्रविरोधप्रसङ्गात् । तथाच चरकः
शीता रसे विपाके च मधुराः स्वल्पमारुताः ।
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः ॥
इति । तथा वाग्भटोऽपि । स्वादुपाकरसाः स्निग्धा इत्यादि-
मधुरपाकत्वेऽपि शालीनां शीघ्रपाकित्वं प्रकृतिलघुत्वात् । अत-
एव मात्राशितीये । शालिषष्टिकशशशशखरादीन्याहारद्रव्याणि
प्रकृतिलघून्यपि मात्रामेवापेक्षन्त इत्यनेन लघुत्वं शीघ्रपाक-
कारणमुक्तम् । अन्ये पुनरत्र पाकद्वयमङ्गीकृत्य सुश्रुतचरकयो-
रविरोधं मन्यन्ते । तत्रैको रसपाकोऽन्यश्च द्रव्यपाको यदाह
विश्वामित्रः
पूर्वं रसा विपच्यन्ते पश्चात् द्रव्यं विपच्यते ।
पूर्वस्तत्र तु भाक्तः स्यादुत्तरः पारमार्थिकः ॥
इति । तेन रसपाकमाश्रित्य मधुररसपाकित्वेन शालिनां
गुरुपाकित्वं चरकेणाङ्गीकृतम् । पुनस्तेनैव निष्ठापाकमभि-
प्रेत्य मात्राशितीये शालिषष्टिक इत्यादिना लघुपाकित्वमप्यङ्गी-
कृतम् । सुश्रुतेनापि निष्ठापाकमभ्युपेत्य शालिनां लघुपाकि-
त्वमुक्तम् । स्निग्धत्वं बलावहत्वञ्च रसपाकमभ्युपेत्य उक्तमिति
न विरोधः । तन्तु न सम्यक् रसपाकस्य पूर्वमेव निराकृत-
त्वात् । अवस्थापाकेन सर्वस्यैव रसस्य कटुपाकित्वे तदानीं
मधुरादिरसासम्भवादिति तेजःसंयोगरूपः पाको रसेन सम्भव-
त्येवेति पूर्वमेवोक्तमिति । यदप्युक्तं विश्वामित्रेण तदप्याहार-
स्यामपच्यमानपक्वावस्थाभिर्गुणीभूताहारपरिणामेन गुणभूत-
स्वरूपरसपरिणामाङ्गीकारः । पुनरामविदग्धपक्वावस्थासु प्रत्य-
नीकरसानामपि कफपित्तवातकारित्वविधानार्थम् । तथाहि
द्रव्यगुणः । २१
रक्तशालिस्त्रिदोषघ्नश्चक्षुष्यः शुक्रमूत्रलः ।
तृष्णाघ्नो वलकृत् स्वर्य्यो हृद्यस्तदनु चापरे ॥ १२ ॥
षष्टिको मधुरः शीतो लघुर्वृष्यस्त्रिदोषहा ॥ १३ ॥
मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
वहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः ॥ १४ ॥
अवस्थायां कटुतिक्तकषाया अपि आमाशयस्थानमहिम्ना प्राप्त-
मधुरभावाः कफं कुर्युः । विदाहे पुनरम्लभावेनाशयप्रभावजेन
मधुरतिक्तकषाया अपि पित्तमावहन्ति । एवं पक्वाशयप्रभावो-
पहंहितेन पाकनिःसारभावरौक्ष्येण मधुराम्ललवणा अपि वात-
कारिण इति । तदेतद्विस्तरेण चरके ग्रहणीचिकित्सितेऽभि-
हितम् । वास्तवस्तु द्रव्याणामेव पाकः स च सम्यक् धातुरस-
मलविरेकान्तलक्षण एव निष्ठापाक इत्यभिधीयते । विश्वा-
मित्रेणापि भाक्त इति वदता रसपाकानामभाव एव सूच्यते
न पुनरुभयसम्भव इति ॥ ११ ॥
अनुशब्दो हीनार्थः । तेन रक्तशालिमपेक्ष्य अपरे शालयः
किञ्चिद्धीनगुणा इत्यर्थः । एतेन शेषशालीनामप्यतिदेशेन
गुणा उक्ताः ॥ १२ ॥
यद्यपि षष्टिकादयो बहवो भवन्ति ग्रैष्मिकास्तथापि तेषु
मध्ये प्रधानस्य षष्टिकस्य गुणमाह षष्टिक इति ।
ननु चरके शीतः स्निग्धो गुरुः खादुरित्यनेन षष्टिकस्य
गुरुत्वमुक्तमिह कथं लघुरिति पठ्यते । नैवमवागुरुरित्यकार-
प्रश्लेषाल्लघुत्वमेवार्थः । अतएव मात्राशितीये लघुरित्युक्तम् ॥ १३ ॥
व्रीहिसंज्ञकस्य शारदाशुकधान्यस्य गुणमाह मधुर इति ।
पाटलो व्रीहिविशेषः ॥ १४ ॥
२२ द्रव्यगुणः।
धान्यं शरद्ग्रीष्मभवं पाकेऽम्लं पित्तकृद्गुरु ॥१५॥
धान्यं सर्वं समातीतं पथ्यं लघ्वन्यथा नवम् ।
ततः परं लघुतरं रूक्षं वातप्रकोपणम् ॥ १६ ॥
अनुक्तानां शारदग्रैष्मिकधान्यानां सामान्यगुणमाह धान्य-
मिति । ननु शाल्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं
भवति ते च तण्डुलादयः पृथगेव गुणतो निर्देष्टव्याः ॥
अतस्तत्प्रकृतिगुणाभिधानं व्यर्थं तद्विकृतिगुणेनैव कार्य्य-
करत्वात् । नैव द्रव्याणां हि प्रकृतिगुणसहिता एव विकृति-
गुणाः कार्य्यकराः । यतस्तण्डुलभक्तपेयादयो रक्तशाल्यादि-
प्रकृतिगुणानुगता एव । नहि रक्तशालिकृतभक्तपेया लाजादयो
यथा लघ्वादिगुणास्तथा व्रीहिकृतभक्तपेया लाजादयः । किन्तु
प्रकृतिगुणानुगतरक्तशालिकृतभक्ताद्यपेक्षया गुरव एव । तेन
यत्र प्रकृतिगुणसमानो विकृतिगुणस्तत्र गुणोत्कर्षः । यत्र
प्रकृतिगुणविपरीतो विकृतिगुणस्तत्र गुणापकर्षः । यथा व्रीहे-
र्गुरोर्लघवो लाजाः । अत्र लाजकरणेनाल्पमेव लघुत्वं क्रियते ।
यत्र प्रकृतिगुणैर्न समानो नापि विपरीतो विकृतेर्गुणः । तत्र
द्वयोरपि प्रकृतिविकृतिगुणयोः पृथगेव कार्य्यकारित्वमुत्सर्गत्तः ।
कचित्तु यद्विकृतेर्बलीयस्त्वेन प्रकृतिगुणाभिभावकत्वं यथा
शुक्तासुतार्द्रककरीरादिषु तत्तदासुतं तदितिविशेषागमादेव-
प्रतीयते । तेन तत्र प्रकृतिगुणानां दुर्बलत्वम् । यदपि प्रकृति-
गुणोपमर्द्देन तद्विरुद्धकार्य्यकर्तृत्वं विकृतेः यथा कांस्यभाजने
दशरात्रस्थितस्य सर्पिषो मारकत्वमित्यादि । तदप्यपवादरूप-
मागमवेद्यमेव । तेन यत्रोत्सर्गभूतशास्त्रार्थापवादस्तत्रोपदेशं
शास्त्रकारः करोत्येवेति प्रकृतिविकृत्योः पृथग्गुणाभिधानं युक्त-
मिव । अयञ्च न्याय एवञ्जातीयेषु मांसादिषु ज्ञेयः ॥ १५ ॥
द्रव्यगुणः । २३
दग्धायामवनौ जाताः शालयो लघुपाकिनः ।
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षिणः ॥१७॥
स्थलजाः कफपित्तघ्नाः कषायाः कटुकानुगाः ।
किञ्चित् सतिक्तमधुराः पवनानलबर्द्धनाः ॥ १८ ॥
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।
अदाहिनो दोषहरा वल्या मूत्रविवर्द्धनाः ॥१९॥
इदानीं धान्यानां कालविशेषेण क्रियाविशेषेण च गुण-
विशेषमाह धान्यमिति । ततः परमिति वर्षद्वयात् परमि-
त्यर्थः ॥ १६ ॥
लघुपाकिन इति शीघ्रपाकाः । अन्ये तु कटुपाकिन
इत्याहुः ॥ १७ ॥
स्थलजा इति जाङ्गलभूमिसम्भवाः । अत्र सतिक्तमधुरा
इत्यत्र ईषदर्थेन सहशब्देन सम्बन्धात् किञ्चिदर्थे लब्धे किञ्चि-
दितिपदं पुनरुक्तमिति मन्यमानाः पवनानलबर्द्धना इत्यत्र
योजयन्ति केचित्
कैदारा मधुरा हृद्या बल्याः पित्तनिवर्हणाः ।
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥
कैदारा इत्यनूपदेशजाः जलसमीपभूमिभागजाता इत्यर्थः
॥ १८ ॥
एकवारमुत्पाट्य येऽन्यत्र रोप्यन्ते ते रोप्या अतिरोप्यास्तु
एकवारमुत्पाट्य रोपयित्वा पुनरुत्पाट्य रोपिताः तेन वारद्वयं
रोपिता इत्यर्थः । एतेन प्रथमं यत्रोप्तास्तत्रैव ये पच्यन्ते
तदपेक्षया उत्खातरोपिता लघवस्ततोऽपि रोप्यातिरोप्या
२४ द्रव्यगुणः।
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः ।
तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः॥२०·
गोधूमः स्थैर्य्यकृद्वृष्यः स्निग्धशीतः सरो गुरुः।
सन्धाता बृंहणो बल्यो जीवनो वातपित्तहा ॥२१॥
लघव इत्युपदर्शितम् । शीघ्रपाका इति शीघ्रं जठराग्निना
पच्यन्ते । लघव इत्यनेन लघुपाकित्वमुक्तमिति केचित् ॥ १६ ॥
छिन्नरूढ़ा इति । प्रथमं छिन्नाः पश्चात् रूढ़ाः। अत्र केचिच्चोद-
यन्ति ननु च दग्धायामवनौ जाता इत्यादिना उक्तशाल्यादीनां
यदि पुरोक्तगुणविरोधेन गुणान्तरोत्पत्तिरुच्यते तदा पूर्वगुण-
वर्णनमनर्थकम् तद्विरोधेनेति चेत् तदा पूर्वापरविरोधः । तथा
हि तेषां शालीनां स्निग्धत्वमुक्तं दग्धावनिसम्भूतानान्तु तेषामेव
रौक्ष्यमपीति । तन्न उत्सर्गापवादभेदेनाविरोधात् । एतच्च
पूर्वमुक्तमेव ॥ २० ॥
गोधूमगुणमाह गोधूम इति । अत्र गोधूमस्य स्वादुशीत-
स्निग्धादिगुणयोगात् श्लेष्मकर्तृत्वं ज्ञेयम् अतएव सुश्रुते श्लेष्मकर
इत्युक्तम् । अन्ये तु “चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजन” इति
वसन्ते गोधूमस्य विधानात् श्लेष्मकारित्वमस्यायुक्तमिति मन्य-
मानाः सुश्रुते श्लेष्मकर इत्यस्य स्थाने शोफकर इति पठन्ति ।
तन्न सम्यक् गोधूमगुणपर्य्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात्
वसन्तस्यादानमध्यत्वेन वातपित्तानुबन्धात् स्निग्धशीतस्यापि गोधू-
मस्य तत्रोपयोगोऽपि न विरुध्यते । किंवा गोधूमोऽत्र पुराणो-
ऽभिहितः स च न कफकरः । यदुक्तम्
मधुरं श्लेष्मलं प्रायो जीर्णाच्छा लियवादृते ।
मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥