सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 20, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 20

१२ द्रव्यगुणः ।
कटुर्विपाकः शुक्रघ्नो बद्धविट्वातलो लघुः ।
इति । सामान्यमिति तुल्यता कर्मणां पुनर्विशेषो न तुल्य-
तेत्यर्थः । एतेन द्रव्ययोर्द्वयोरसादिसाम्ये सत्यपि एकस्मिन्
द्रव्ये जायते कार्य्यविशेषः । इतरत्र तु न जायत इत्यत्र यत्का-
रणतया वाच्यं तदेव प्रभाव इत्यर्थः । एतदुदाहरणञ्च तेनैवोक्तम् ।
कटुकः कटुकः पाके वीर्य्योष्णश्चित्रको मतः ।
तद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥
इति । तद्वदिति । चित्रकतुल्यरसवीर्य्यपाकाः । एतेन चित्र-
कस्य रसाद्यैस्तुल्यायामपि दन्त्यां तद्विरेचकत्वरूपं विशिष्टं
कर्म तत्स्वकारणं प्रभावमनुमापयतीति भावः । तथा रसादि
साम्याभावेऽपि रसादिजन्यत्वेन यत्कार्य्यं न अवधारयितुं
पार्य्यते तदपि प्रभावकृतमेव मन्तव्यम् । यथा मण्यादीनां विष-
हरणादिकं कर्म । तदुक्तं चरके
मणीनां धारणीयानां कर्म यद्विविधात्मकम् ।
तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥
विविधात्मकमिति विषहरणशूलहरणलौहाकर्षणादि ॥ ६ ॥
इदानीं विपाकगुणा वाच्याः । अतो विपाकस्वरूपं प्रथमं
निरूप्यते अवस्थापाकापेक्षया विशिष्टः पाको विपाकः । विपाक-
शब्देनेह लक्षणया विपाकाधेय आहारस्य रसविशेषो गौरवेण
लाघवेन वा युक्तोऽभिधीयते । उक्तञ्च वाग्भटेन
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् ।
रसानां परिणामान्ते स विपाक इति स्मृतः ॥
अत्र रसानां परिणामा मधुराम्लकटुरूपास्त्रयोऽवस्थापाकाः
षड्रसस्यैवान्नस्य आमाशयादिस्थानसम्बन्धमहिम्ना जायन्ते ।
ते च चरके ग्रहणीचिकित्सिते