सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 21, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 21

द्रव्यगुणः । १२
स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः ।
पाकोऽम्लः सृष्टविण्मूत्रः पित्तकृत् शुक्रनुल्लघुः ॥१०
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः ।
इत्यादिना उक्ता अनुसन्धेयाः । तेषामन्तेऽवसाने पुनर्जाठ-
राग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक
इत्यर्थः । इह केचिदाचक्षते प्रतिरसं पाकः अम्लोऽम्लस्य मधुरो
मधुरस्य लवणो लवणस्य कटुकः कटुकस्य तिक्तस्तिक्तस्य
कषायः कषायस्य इति षडेव विपाकाः । किमत्र प्रमाणमिति
चेदुच्यते । यथा क्षीरमतिपच्यमानमपि मधुरमेव स्यात् । यथा
वा शालियवादय उप्ताः प्ररूढाः फलिताश्च शाल्यादिस्वरूपा
एव भवन्ति । तथा मधुरादयोऽपि निष्ठापाकेऽपि मधुरादि-
स्वरूपा एव भवितुमर्हन्तीति । उक्तञ्च
उप्ताः षष्टिकमाषाद्या बाह्यपकाश्च षड्रसाः ।
यान्ति नान्यत्वमित्येवं पाकः प्रतिरसं भवेत् ॥
इति । अन्येतु ब्रुवते रसा द्विविधा बलवन्तोऽबलवन्तश्च । बल-
वत्त्वञ्च व्यक्तत्वेन मात्राबाहुल्येन वा अबलवत्त्वं पुनरेतद्विपर्य्य-
येण । तत्र अल्पतया अबलवन्तो रसा बलवतां रसमायान्तीति ।
तेन निष्ठापाकेन बलवता रसेन दुर्बलरसाभिभवान्न रसप्रतिनिय-
मेन मधुरस्य मधुर एव पाकोऽम्लस्य चाम्ल एवेत्यादि प्रतिनिय-
माभावात् अनवस्थितः पाक इति । अनियतत्वपक्षेऽपि षट्क-
त्वमेव कदाचित् कस्यचित् सम्भवादिति ।
बह्वोऽभिभवन्त्यल्पान् वह्निर्मिश्रीकृता रसाः ।
तेनानिश्चितमेवैके पाकमाहुर्मनीषिणः ॥
इति । अन्ये तु वातादिभ्यो दोषेभ्य एव त्रीन् पाकान्
२