द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 19, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ११
शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः ।
तयोरम्लं यदुष्णञ्च यच्चोक्तं कटुकं तयोः ॥६॥
शक्तिमात्रन्तु वीर्य्यं स्यादिति केचिद्बुधा विदुः ।
तन्मते द्रव्यरसयोः पाकस्य च गुणस्य च ।
मृदादेः स्वक्रियोत्पादे शक्तिर्वीर्य्यमिति स्थितिः ॥
यदुक्तं चरके वीर्य्यं क्रियते येन या क्रिया ।
नावीर्य्यं कुरुते किञ्चित् सर्वा वीर्य्यवती क्रिया ॥
इत्यनेन रसादीनां वीर्य्यत्वं तदभेदतः ।
मृदादयो गुणा अष्टौ वीर्याणीत्यूचिरे परे ॥
यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी ।
व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः ॥
तस्मान्न ते वीर्य्यसंज्ञा इति शास्त्रविदां मतम् ।
अन्ये शीतोष्णभेदेन वीर्य्यं द्विविधमूचिरे ॥
अग्नीषोममयं विश्वं यत एतच्चराचरम् ।
यद्यपि अष्टविधमेव वीर्य्यं भवति तथापि तेषु एव शीतो-
ष्णयोः प्राधान्यात् तद्गुणमेवाह शीतमिति ॥ ८ ॥
इदानीं रसद्वारेण द्रव्याणां वीर्य्यमाह शीतमिति । यद्-
द्रव्यं रसे पाके च मधुरं तद्वीर्येण शीतं ज्ञेयम् । तथा तयोः
रसपाकयोर्यदम्लं तद्वीर्येणोष्णं ज्ञेयम् । तथा यच्च द्रव्यं तयोः
रसपाकयोः कटुकमुक्तं तदपि वीर्येणोष्णं ज्ञेयमिति शेषः ।
किंवा यच्चोष्णं कटुकं तयोरिति पाठः । प्रभावोऽचिन्त्यक्रिया-
हेतुवोर्य्यमेवेति शक्तिविशेष एव प्रभाव इत्यभिधीयते । प्रभाव-
सत्त्वे च चरके मानमप्युक्तम् यथा
रसवीर्य्यविपाकानां सामान्यं यत्र लक्ष्यते ।
विशेषः कर्मणाञ्चैव प्रभावस्तस्य स स्मृतः ॥