सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 16, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 16

८ द्रव्यगुणः।
कटुरास्यं शोधयति घ्राणाच्चिविरेचनः कृमीन्
हन्ति।
रसनोद्वेगकृदुष्णो लघुरूक्षः कुष्ठहारी च ॥ ५ ॥
तिक्तो न रोचते स्वयमरोचकघ्नो विषघ्नश्च ।
दीपनपाचनशोधनरुच्यः शीतो लघुश्चापि ॥६॥
तुवरो हिमगुरुरूक्षस्तम्भी शमनश्च पीतनो ग्राही ।
व्रणपाकार्त्तिक्लेदान्निहन्ति कण्ठञ्च बध्नाति ॥७॥
भूतद्वयगुणे मुख्ये मुख्यो गुणविशेषकृत ।
स्नेहगौरवयोः पूर्वः परः स्यादौष्णशैत्ययोः ॥
अत्र स्नेहगौरवयोरिविरोधिनोः रौक्ष्यलाघवयोर्ग्रहणमूह्यम् ।
वस्तुतस्तु भूतानामेव अयं स्वभावो यद्भूतद्वयसमारब्धेऽपि रसे
कस्यचिद्भूतस्य कश्चिदेव गुणो व्यक्तत्वेनोपलभ्यते न सर्व इति ।
भूतस्वभावे च अदृष्टविशेष एव कारणमुन्नेयमिति ॥ ४ ॥
कटुरसगुणानाह । कटुरिति । अत्र लघुरूक्षत्वेनावृष्यत्वं
कटोर्ज्ञेयं तदपि प्रायिकं तेन पिप्पलीनागरयोः कटुरसयोरपि
वृष्यत्वमुपपन्नं भवति ॥ ५ ॥
तिक्तरसगुणानाह तिक्त इति । शोधन इति व्रणस्य स्तन्यस्य
च । अत्र अर्कागुरुगुडूचीनां तिक्तानामप्यौष्ण्यं पूर्ववत् समर्थ-
नीयम् ॥ ६ ॥
कषायरसगुणानाह तुवर इति । तुवर इति कषायः । ननु
च रूक्षः शीतो लघुश्चेति चरकेणोक्तम् । अत्र च गुरुत्वमुक्तमिति
विरोध इति चेन्नैवं तत्राप्यलघुरित्यकारप्रश्लेषाद्गुरुरित्यर्थ-
ष्टीकाकृद्भिर्व्याख्यात इति । वाभटेऽप्युक्तं
कषायः कफपित्तघ्नो गुरुर्वस्तिविशोधनः ।