सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

११४ द्रव्यगुणः ।
चिरस्थितं जातरसं दीपनं कफवातजित् ।
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥२४॥
शुक्तं वलाशपित्तासृक्क्लेदि वातानुलोमनम् ।
भृशोष्णतीक्ष्णारूक्षाम्लं हृद्यं रुचिकरं सरम् ।
दीपनं शिशिरं स्पर्शे पाण्डुहत्कृमिनाशनम् ॥२५॥
तद्वत्तदास्रुतं सर्वं रोचनन्तु विशेषतः ॥ २६ ॥
गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च ।
जातम् । एतच्चोक्तमपि समुदितदोषाभिधानप्रस्तावात् पुनरु-
च्यते ॥ २३ ॥
सेव्यं यन्मद्यं तदाह चिरस्थितमिति ॥ २४ ॥
आसुतत्वसामान्यात् शुक्तादिगुणकर्मणी दर्शयन्नाह शुक्त-
मिति । शुक्तलक्षणं यथा ।
यन्मस्त्वाद्वि शुचौ भाण्डे सगुड़क्षौद्रकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥
इति । अत्रैव गुड़ादिमानं यथा ।
गुड़माक्षिकधान्याम्लमस्तु च द्विगुणं क्रमात् ।
शुक्तसिद्धार्थमावाप्यं प्रायशः कंटुकञ्च तत् ॥ इति ॥२५॥
शुक्तप्रक्षिप्तकन्दादिषु शुक्तगुणानभिदिशति । तदास्रुत-
मिति । शुक्तसन्धानक्षिप्तमार्द्रककरीरादि तद्वदिति शुक्तसमान-
गुणम् ॥ २६ ॥
शुक्तस्य योनिभेदेन गुणमाह गौडानीति । गौड़ानि गुड़-
प्रकृतित्तशुक्तानि । रसशुक्तानि इक्षुरसकृतशुक्तानि । एतच्छुक्तत्रय-
ज्ञानार्थंपरि भाषा यथा ।

द्रव्यगुणः । ११५
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २७ ॥
काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् ।
भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥
शस्तमास्थापने हृद्यं लघुवातकफापहम् ।
गण्डूषधारणाद्वक्त्रमलदौर्गन्ध्यशोषजित् ॥ २८ ॥
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके ।
क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे ॥ २९ ॥
मूत्रं गोजाविमहिषगजाश्वोष्ट्रखरोद्भवम् ।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥
गुड़ाम्बुना सतैलेन सन्धानं संस्कृतं तु यत् ।
कन्दशाकफलैर्युक्तं गुड़शुक्तं तदुच्यते ॥
इति । गुड़शुक्तवदिक्षुरसशुक्तं ज्ञेयम् ।
जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् ।
मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् ।
त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् ॥ इति ॥ २७ ॥
काञ्जिकगुणमाह काञ्जिकमिति । पित्तकरस्यापि काञ्जि-
कस्य दाहशमकत्वं यत् सुश्रुतेनोक्तं तत् स्पर्शेनैव ज्ञेयम् । अन्ये
तु यथा तक्रं कण्ठे कफं करोति उदरे तु हन्ति प्रभावात् तद्व-
दवापि पित्तकरस्यापि काञ्जिकस्य दाहहरत्वं प्रभावेणैव ज्ञेय-
मित्याहुः ॥ २८ ॥
सौवीरतुषोदकयोर्गुणमाह एभिरिति । वितुषयवकृतं सौ-
वीरं सतुषयवक्षतं तुषोदकम् ॥ २९ ॥
द्रव्यपारिशेष्यान्मूत्राण्याह मूत्रमिति । अत्र व्यवहारसिद्ध-

११६ द्रव्यगुणः।
क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान् ।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥
दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम् ॥ ३० ॥
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ॥
गुल्मशूलोदरानाहविरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ ३१ ॥
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ३२॥
कटु तिक्तान्वितं छागमौष्ण्यमारुतकोपनम् ॥ ३३ ॥
सक्षारतिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ ३४ ॥
आश्वं कफहरं मूत्रं वातचेतोविकारनुत् ॥ ३५॥
तीक्ष्णं क्षारे किलासे च नागमूत्रं प्रयोजयेत् ॥३६
त्वात् लोके वेदे च धेनुमूत्रमेव गृह्यते न तु वलीवर्दस्य। अन्ये
तु शुक्रसम्बन्धेन गुरुत्वात् पुङ्गवमूत्रं न ग्राह्यमित्याहुः । तन्न।
शुक्रसम्बन्धस्य स्त्रीष्वपि प्रसक्तत्वात्। अपरे तु स्त्रीमूत्रं लघु-
त्वात् ग्राह्यमित्याहुः । तदप्ययुक्तं येन सेकादौ वाते च मूत्रस्य
गौरवमप्युपयुक्तं तस्माद्यथोक्तमेव श्रेय इति ॥ ३० ॥
सामान्यगुणमभिधाय तेषां विशिष्टगुणमाह गोमूत्रमिति ।
अविशिष्टमूत्रप्रयोगे गव्यमूत्रमेव ग्राह्यमित्यर्थः ॥ ३१ ॥
अविशुद्धिर्वमनादीनाम् ॥ ३२ ॥
चेतोविकार उन्मादापस्मारौ ॥ ३५ ॥

द्रव्यगुणः । ११७
दीपनं गार्दभं मूत्रं गरचेतोविकारनुत् ॥ ३७ ॥
अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम् ॥ ३८ ॥
इति मद्यादिवर्गः ।
विधिना कृत आहारः प्रीणनो धातुपोषकः ।
स्मृत्यायुःपुष्टिवर्णौजःसत्त्वोत्साहविवर्द्धनः ॥ १ ॥
ओदनः चालितः स्विन्नः प्रस्रुतो विषदो लघुः ।
क्षार इति क्षारापाके ॥ ३६ ॥
कारभमित्यौष्ट्रम् । मानुषमूत्रमवहृविषयतया उद्वेगेनानुक्त-
मपि विषहन्तृतया अशून्यताथं पठ्यते ॥ ३८ ॥
इति मद्यादिवर्गः ।
इदानीमुक्तानामेव धान्यादीनां संस्कारविशेषाद्दितं गुण-
मभिधातुं कृतान्नवर्ग आरभ्यते । कृतं करणनिष्पादितं यदन्न-
पेयामण्डादि । ते च पेयादीनां गुणाः संस्कारसंयोगादिजाः
केचित् प्रकृता अपि । न च वाच्यं पेयादीनामिव गुणेन बाधित-
त्वात् शूकधान्यादीनां पृथग्गुणकथनमुक्तमिति । यतः पेया-
दयो हि प्रकृतिगुणानुविधायिनः सन्तो गुणमावहन्ति तेन यः
कृतान्नस्य गुण उच्यते स यदि रक्तशाल्यादिप्रकृतावपि स्यात्
तदा बलवान् स्यात् अथ विपरीतगुणः स्यात् तदा कृतान्नगुण-
स्याल्पत्वं स्यादिति एषोऽर्थः प्रागेव प्रपञ्चित इति नेहोच्यते ।
अत्राहारसामान्यगुणमाह विधिनेत्यादि । विधिनेति वक्ष्यमाण-
विधिना ॥ १ ॥

११८ द्रव्यगुणः ।
भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद् गुरुश्च सः ॥२॥
मण्डस्तु भूरिदोषघ्नो दीपनोऽनिलनाशनः ।
ज्वरहा परमो बल्यः स्वेदनो मार्गशोधनः ॥३॥
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।
वातानुलोमनो हृद्यः पिप्पलीनागरान्वितः ॥४॥
आहारगुणमभिधाय ओदनस्य प्रायेण सर्वजनोपयोज्यत्वात्
प्रथमं तद्गुणमाह ओदन इति । क्षालित इति प्रक्षालिततण्डुल-
कृतः । स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः । किं वा सम्यक्
स्विन्नत्वेन मृदुभूतः प्रस्रुत इति प्रस्रावितद्रवभागः । विशद
इति स्वभावेन । तथा कण्डनेन च शुक्लं यत्तण्डुलं तत्कृतः
एवम्भूत ओदनो लघुर्भवति । भृष्टतण्डुलजस्तु अत्यर्थं लघुः ।
अन्यथा इति क्षालितादिविपर्य्ययो गुरुर्भवतीत्यर्थः ॥ २ ॥
मण्डगुणमाह मण्ड इति । मार्गशोधन इति स्रोतःशुद्धि-
करः ॥ ३ ॥
अत्र पाचनत्वं मण्डस्य दोषशेषं विना नोपपद्यते । सम्यक्
शुद्धौ च दोषशेषो नोपपद्यते इति विरोधं पश्यन् अकारप्रश्लेषा-
दविशुद्धानां पाचन इति कश्चिदाह । तन्न चरकविरोधात् ।
तत्र हि क्षुत्पिपासापहः पथ्यः शुद्धानान्तु मलापह इत्युक्तम् । न
च तत्रापि शुद्धानां मलापह इत्यनुपपत्त्या शुद्धानामित्यस्य ईष-
च्छुद्धानामित्यर्थो व्याख्येय इति वाच्यम् । सम्यक् शुद्धानामपि
घृतभाण्डावलेपन्यायेन कोष्ठोपलेपकदोषापहत्वेन मलापह-
त्वोपपत्तेः । तस्मात् सुश्रुतेऽपि यत् पाचनत्वमुक्तं लाजमण्डस्य
तत् सति दोषशेषे इति ज्ञेयम् । सम्यक् शुद्धौ च पथ्यत्वदीप-

द्रव्यगुणाः । ११८
पेया स्वेदाग्निजननी वातवर्चोऽनुलोमनी ।
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ ५ ॥
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥ ६ ॥
यवागूज्ज्वरतृष्णाघ्नी लघ्वीवस्तिविशोधनी ॥ ७ ॥
सिक्थकैरहितो मण्डः पेया सिक्थसमन्विता ।
नत्वाभ्यामेवास्योपयोगः । अपि च । मण्डोऽप्यतिद्रवा पेयेव ।
सा च ईषद्विशुद्धे निषिद्धा । यथा ।
कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके ।
तर्पणादिक्रमः कार्य्यः पेयाभिष्यन्दयेद्धितान् ॥
तेनाकारप्रश्लेषो न युक्त इति ॥ ४ ॥
द्विधा हि यवागूः पेयाविलेपीभेदात् । तत्र पेयागुणमाह
पेयेति ॥ ५ ॥
विलेपीगुणमाह विलेपीति ॥ ६ ॥
विशिष्टयवागूगुणमभिधाय यवागूसामान्यगुणमाह यवागू-
रिति ॥ ७ ॥
उक्तानामिव मण्डादीनां लक्षणमाह सिक्थकैरिति । तत्र
द्रवसिक्थसमन्विता यवागूरिति यवागूसामान्यलक्षणम् । सा च
द्विविधा पेयाविलेपीभेदात् । मण्डस्तु यवाग्वा एवोपरितनो
भागो न तु पृथङ्मण्डः साध्यते । आयुर्वेदशास्त्रे अदर्शितत्वात् ।
यस्तु क्वचिन्मण्डगुणो मण्डोपयोगो वा श्रूयते सोऽप्येवंरूप एव
बोध्यः । ननु मण्डो हि चतुर्दशगुणजलसाध्यः यवागूस्तु षड्-
गुणसाध्या । यदुक्तम् ।
अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।

१२० द्रव्यगुणः ।
यवागूर्बहुसिक्था स्याद् विलेपी विरलद्रवा ॥८॥
मण्डपेयाविलेपीनामोदनस्य च लाघवम् ।
यथापूर्वं शिरस्तत्र मण्डो वातानुलोमनः ॥ ६ ॥
मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि ॥
इति । तत्कथमुच्यते यवाग्वा एवोपरितनो भागो मण्ड इति ।
नैवं तत्र यवागूशब्देन पेया विवक्षिता । अतएव पेयायाः पृथग्
जलं नोक्तम् । द्रवसिकथसमन्वितत्वं हि यवागूसामान्यलक्ष-
णम् । तेन चतुर्दशगुणसाध्यस्यापि मण्डस्य सिक्थसमन्विताव-
स्थायां यवागूत्वमेव । तेन सूक्तं यवाग्वा उपरितनो भागो मण्ड
इति । पेया इति पातुं योग्या एतेनान्वर्थसंज्ञया बहुद्रवत्वमल्प-
सिक्थत्वञ्च बोध्यम् । तेन सिक्थसमन्विता यवागूः पेयेति ।
पेयालक्षणे बहुद्रवत्वमल्पसिक्थत्वञ्च लक्षणतया बोध्यम् । तथा
विरलद्रवा बहुसिक्था च यवागूर्विलेपीति विलेपीलक्षणमव-
गन्तव्यम् । विरलद्रवा अल्पद्रवेत्यर्थः । तेन पेयाविलेपी व्यति-
रेकेण यवागूः पृथङ् नास्तीत्याहुः । एतेन चरकवाग्भटसुश्रुतै-
रपि यवागूगुणः पृथङ्नोक्तः । यत्तु माधवचक्राभ्यां पेयाविलेपी-
गुणं पठित्वा यवागूगुणः पृथक् पठितः, तत्सामान्यगुणाभि-
प्रायेण सामान्यक्षीरगुणवदिति ज्ञेयम् ॥ ८ ॥
उक्तानामेव मण्डादीनामापेक्षिकं लाघवमाह मण्डेति ।
यथापूर्वं लाघवमिति तेनौदनमपेक्ष्य लघ्वी विलेपी ततोऽपि
पेया पेयातो मण्डो लघुतर इत्यर्थः । यद्यपि वातानुलोमनत्वं
मण्डस्य पूर्वमुक्तं तथापि सम्पूर्णश्लोकानुरोधात् अत्र पुनः
पठति । इदं हि वचनं वाग्भटस्य । अत्र यवाग्वादिसाधन-
परिभाषाश्च सव्याख्याना अस्मदीयचरकतत्त्वदीपिकायामनु-
सन्धेया विस्तरभयाच्चेह नोक्ताः ॥ ९ ॥

द्रव्यगुणः । १२१
पायसः कफकृद्वल्यो विष्टम्भी मेदुरो गुरुः ॥१०॥
कृशरा पित्तकफदा वल्या मारुतनाशिनी ॥११॥
अन्नं मांसादिभिः सार्द्धं सिद्धं स्याद् गुरु बृंहणम् १२
रसौदनो ज्वरहरी बल्यो ग्राह्यनिलापहः ॥१३॥
घोलभक्तं श्रमार्त्तिघ्नं रुच्यं तर्पणदीपनम् ॥१४॥
सद्योऽन्नं वारिणा धौतं शीघ्रपाकं बलप्रदम् ।
शीतलं मधुरं रुच्यं श्रमघ्नं तर्पणं परम् ॥ १५ ॥
पानीयभक्तं व्युषितं मेदःस्वेदकफप्रदम् ।
त्रिदोषकोपनं रूक्षं मलकृत् मूत्रलं परम् ॥१६॥
सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघु र्हितः ॥१७॥
विलेपीभेदस्य पायसस्य गुणमाह पायस इति । क्षीरकृता
हि विलेपी पायसः ॥ १० ॥
कृशरागुणमाह कृशरेति । कृशरा तु तिलतण्डुलमाषकता
यवागूः । उक्तं हि
तिलतण्डुलमाषैस्तु कृशरा विश्रयेति च ॥ ११ ॥
अन्नस्य द्रव्यविशेषसंयोगाद् गुणविशेषं दर्शयन्नाह अन्न-
मिति ॥ १२ ॥
त्रिदोषकोपनमित्युक्तापि कफप्रदमिति वचनं विशेषार्थम्
॥ १६ ॥
अन्नानन्तरं व्यञ्जनप्रधानं सूपमाह सुस्विन्न इति । ईषद्-
भृष्ट इति सम्बन्धः । ये तु माससूप इति पठन्ति ते मुद्गादि-
सूपानां प्रकृतिलाघवेनैव लघुत्वं लब्धं तेन गुरोरपि माषस्य
सुस्विन्नत्वादिना लघुत्वमुच्यत इत्याहुः ॥ १७ ॥
११

१२२ द्रव्यगुणः ।
स्विन्नं निष्पीडितं शाकं स्नेहसंस्कारितं हितम् ।
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ॥ १८ ॥
स्विन्नं मांसं कटु स्नेहगोरसाम्लफलैः सह ।
बृंहणं रोचनं बल्यं खालिष्कस्तु सदा गुरुः ॥१९॥
तदेव गोरसादानं सुरभि द्रव्यसंस्कृतम् ।
विद्यात् पित्तकफोत्क्लेदि बलमांसाग्निवर्द्धनम्२०
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।
रोचनं बलमेधाग्निमांसौजःशुक्रवर्द्धनम् ॥ २१ ॥
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति भाषितम् ।
परिशुष्कगुणैर्युक्तं ज्ञेयं पथ्यतमं गुरु ॥ २२ ॥
सूचिकटाहन्यायेन व्यञ्जनप्रधानमांसात् पूर्वं शाकमाह
स्विन्नमिति। अतः पूर्वोक्तात्। अन्यथेति अहितमित्यर्थः ॥१८॥
मांसव्यञ्जनानां विशेषाणां गुणमाह स्विन्नमिति । खालिष्को
वक्ष्यमाणपरिशुष्काख्यमांसव्यञ्जनभेदः । अन्ये तु वेशवाराख्य-
मांसव्यञ्जनभेद इत्याहुः ॥ १९ ॥
तस्यैव मांसस्य प्रदिग्धत्वेन प्रसिद्धस्य गुणमाह तदिति ।
आदानं घनद्रवावापः गोरस एव आदानं यस्य तद्गोरसादा-
नम् ॥ २० ॥
तस्यैव मांसस्य परिशुष्कत्वेन प्रसिद्धस्य गुणमाह परि-
शुष्कमिति । परिशुष्कप्रदिग्धयोर्लक्षणं यथा ।
सिक्थं बहु घृते घृष्टं मुहुरुष्णांबुसेचितम् ।
जीरकाद्यैर्युतं मांसं परिशुष्कं तदुच्यते ।
तदेव गोरसादानं प्रदिग्धमिति विश्रुतम् ॥ २१ ॥

तदेव शूलिकाप्रोतमङ्गारे परिपाचितम्।
ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः ॥ २३ ॥
मांसं यत्तैलसिद्धं तद्वीर्य्योष्णं पित्तकृद् गुरु।
घृतसिद्धन्तु रुच्यग्निदृष्टिदं पित्तनुल्लघु ॥ २४ ॥
वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ॥ २५ ॥
परिशुष्कस्य शूल्यस्य प्रसङ्गेनागेपशूल्यानामपि विशेषगुण-
माह तदिति। तदेव परिशुष्कमेव उल्लुप्तमिति भाषितम् सूढे-
रुल्लुप्तमिति संज्ञया परिभाषितम्। कुत इत्याह उल्लुप्तपिष्ट-
त्वादिति। लुंप् छेदने इत्यस्माद्भावे क्तः। उत्कर्षेणातिशयेन
लुप्तम्। तेन प्रत्यवयवच्छेदनेन पिष्टमिव पिष्टम् उल्लुप्तपिष्टम्।
ज्ञेयं पथ्यतमं गुर्वित्यस्य स्थाने केचिद्वह्वेः पक्वमती लघ्विति
पठन्ति। तन्मते अत इति परिशुष्कात् वह्नेः पक्वं यदुल्लुप्तं
तल्लघु भवतीत्यर्थः ॥ २२ ॥
तस्यैव उल्लुप्तस्याङ्गारपाचनादिविशेषेण गुणमाह तदिति।
शूलिकाप्रोतमिति लोहादिशलाकारोपितम्। गुरुतरमिति
परिशुष्काद्गुरोर्गुरुतरं ज्ञेयम्। कुत इत्याह प्रदिग्धं गुरुपाकत
इति। यस्मात् स्नेहादिप्रदिग्धं वस्तु पाकतो गुरु भवति। अथवा
गुरुपाकत इति परिशुष्कविशेषणम्। तेन गुरुपाकतः परिशु-
ष्कात् शूलपाचितं गुरु ज्ञेयम्। अत्रैव हेतुगर्भविशेषणं प्रदिग्ध-
मिति स्नेहादिप्रदिग्धत्वादित्यर्थः ॥ २३ ॥
एषां सर्वेषामेव तैलयोगकृतं घृतयोगकृतञ्च गुणविशेषमाह
मांसमिति ॥ २४ ॥
वेशवारगुणमाह वेशवार इति। वेशवारलक्षणं यथा।
निरस्थि पिशितं पिष्टं स्विन्नं गुड़घृतान्वितम्।

१२४ द्रव्यगुणः ।
रसो ज्वरक्षयहरः स्मृत्योर्जःस्वरवर्द्धनः ।
बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणिनां हितः ॥२६॥
स दाड़िमयुतो वृष्यः संस्कृतो दोषनाशनः ॥२७॥
प्रीणनः सर्वधातूनां विशेषान्मुखशोषिणाम् ।
क्षुत्तृष्णापहरः श्रेष्ठः सोरावः स्वादुशीतलः ॥२८॥
मांसं यदुद्धृतरसं न तत्पुष्टिबलावहम् ।
विष्टम्भि दुर्जरं रूक्षं नीरसं मारुतावहम् ॥२९॥
दग्धमत्स्यो गुरुर्वृष्यो बृंहणः प्राणवर्द्धनः ।
क्षीणशुक्राश्च ये केचित् भग्नजर्जरिताश्च ये ॥
नित्यं स्त्रीसेविनश्चैव क्षीणरेतस एव च ।
दग्धमत्स्यो हितस्तेषां सतैललवणान्वितः ॥३०॥
तस्माद्धीनगुणः किञ्चिद् भृष्टमत्स्य उदाहृतः ॥३१॥
कणामरिचसंयुक्तं वेशवार इति स्मृतः ॥ २५ ॥
मूर्त्तमांसप्रकारमभिधाय द्रवमांसप्रकारमाह रस इति ॥२६॥
तस्यैव मांसरसस्य द्रवसंयोगजं गुणमाह स इति । स इति
मांसरसः । संस्कृत इति कटुकादिना ॥ २७ ॥
सोरावगुणमाह प्रीणन इति । सोरावो रसस्योपर्य्यच्छो
भागः ॥ २८ ॥
मांसक्वाथसारो रसः तेन तत्प्रसङ्गेन तत्किट्टभूतमांसगुणमाह
मांसमिति ॥ २९ ॥
आमिषत्वसामान्याद् दग्धमत्स्यगुणमाह दग्धमत्स्य इति
॥ ३० ॥

द्रव्यगुणाः। १२५
यथाप्रकृतिनिर्देश्यो व्यञ्जनेषु गुणान्वयः ॥३२॥
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ।
ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ॥ ३३ ॥
स तु दाड़िममृद्वीकायुक्तः स्याद्रागषाड़वः ।
रुचिविष्णुल्लघुपाकश्च दोषाणाञ्चाविरोधकृत् ॥३४॥
मसूरमुद्गगोधूमकुलत्यलवगैः कृतः ।
कफपित्ताविरोधी स्याद् वातव्याधौ च शस्यते॥३५
मृद्वीकादाड़िमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ।
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥३६॥
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।
पित्तघ्नौ दीपनौ हृद्यौ क्रिमिकुष्ठज्वरापहौ॥३७
अनुक्तव्यञ्जनगुणज्ञानार्थमाह यथेति ॥ ३२ ॥
यूषेषु प्रधानत्वात् मुद्गयूषगुणमाह कफघ्न इति। कृताकृत
इति लवणादिसंयुतः कृत इत्युच्यते । तद्रहितस्तु अकृत इति ।
उक्तं हि सुश्रुते ।
'अस्नेहलवणं सर्वमकृतं कटुकैर्विना ।
विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ ३३ ॥'
अस्यैव यूषस्य संयोगविशेषेण नामान्तरमाह स इति ॥३४॥
मसूरादिपञ्चकयूषगुणमाह मसूरेत्यादि ॥ ३५ ॥
अस्यैव मृद्वीकादियोगेन गुणमाह मृद्वीकेत्यादि ॥ ३६ ॥
अत्र यूषस्य सूपयोनित्वाद् मुद्गादिकं त्रिगुणमिच्छन्ति द्विव-
चनोपादानात् यूषद्वयं ज्ञेयम् ॥ ३७ ॥

१२६ द्रव्यगुणः।
हन्ति मूलकयूषस्तु कफमेदोगलामयान् ।
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ॥ ३८॥
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ।
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥३६॥
सर्वधान्यकृतस्तद्वद् बृंहणः प्राणवर्धनः ॥ ४० ॥
खड़काम्बलिकौ हृद्यौ छर्दिवातकफे हितौ ॥४१॥
बल्यः कफानिलौ हन्ति दाड़िमाम्लोऽग्निदीपनः४२
मूलकयूष इति मूलकशुण्ठकयूषः। चन्द्रिकाकारस्तु बाल-
मूलयूष इत्याह । जेज्जड़स्तु यद्यपि बालमूलकं त्रिदोषघ्नं
तथापि तस्य यूषकरणे श्रुतिर्नास्तीति अयमपि मुद्गादिसहितो
ज्ञेय इत्याह ॥ ३८ ॥
सर्वधान्यकृत इति सर्वशमीधान्यकृतः। शूकधान्यकुधान्य-
योस्तु अयूषयोनित्वादिह न ग्रहणम् ॥ ४० ॥
खड़काम्बलिकयूषविशेषयोर्गुणमाह खडेति । अत्र खड़ो
द्विविधः । सतक्रशमीधान्य एकः । सतक्रशाकश्चापरः । तत्राद्यः
ससूप्यधान्यान् सस्नेहान् साम्लान् सांग्राहिकान् खड़ानित्युक्त-
लक्षणः । सतक्रशाकस्तु ।
सतक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः।
सुपक्वः खड़यूषोऽयमयं काम्बलिकोऽपरः ।
दध्यम्ललवणस्नेहतिलमाषसमन्वितः ॥ इति ॥ ४१ ॥
तत्राम्लसिद्धः काम्बलिक इति । अम्लानां बहुत्वात् येन
येनाम्लेन यूषो यं यं गुणं करोति तं तं दर्शयन्नाह बल्य इति
॥ ४२ ॥

द्रव्यगुणाः। १२७
धान्याम्लो दीपनो हृद्यः पित्तकृद्वातनाशनः ॥४३॥
दध्यम्लः श्लेष्मलो बल्यः स्निग्धो वातहरो गुरुः ॥४४
तक्राम्लः पित्तकृद्धृद्यो विषरक्तप्रदूषणः ॥ ४५ ॥
अथ गोरसधान्याम्लफलाम्लैरन्वितञ्च यत् ।
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ ४६ ॥
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ।
सिण्डाकी च गुरूणि स्युः कफपित्तहराणि च ॥४७
रागषाड़वयोगास्तु छर्दिमूर्च्छातृषापहाः ।
दाड़िमेनाम्लोक्रियते यो यूषः स दाड़िमाम्लः । एवं दध्यम्ल-
धान्याम्लादिकञ्च व्याख्येयम् ॥ ४५ ॥
उक्तयोर्यूषरसयोरम्लान्तरसंयोगेन तथा संस्कृतासंस्कृतयो-
रपि गुरुलाघवं दर्शयन्नाह अथेति । अत्र रसमिति नपुंसक-
निर्देशात् सामान्येन यूषरसयोरुभयोरपि ग्रहणम् । यथोत्तरं
लघ्विति । तेन गोरसाम्लापेक्षया धान्याम्लान्वितो रसो यूषो वा
लघुर्भवतीत्यादि ज्ञेयम् । तथा संस्कृतापेक्षया असंस्कृतो लघु-
रित्यर्थः । संस्कृतासंस्कृतं कृताकृतमित्यर्थः ॥ ४६ ॥
कृतान्नप्रसङ्गेन शुष्कशाकविशेषाणां कृतान्नानां गुणमाह
तिलेत्यादि । पिष्टतिलपिण्याकविकृतिकृतव्यञ्जनानि तिल-
पिण्याकविकृतिशब्देनोच्यन्ते । तथा शुष्कशाकं विरूढकमपि
व्यञ्जनविशेषो देशान्तरप्रसिद्धः । सिण्डाकी च तीरभूमौ प्रसिद्धा
॥ ४७ ॥
रागषाड़वगुणमाह रागेत्यादि । तत्र रागः ।
सितारुचकसिन्धूत्थैः सहक्षाम्लपरूषकैः ।
जम्बूफलरसैर्युक्तो रागो राजिकया कृतः ॥

४. चतुर्थ वर्ग: धातकी, शाक, धान्य व फल वर्ग एवं उपसंहार

१२८ द्रव्यगुणः।
लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः ॥ ४८ ॥
रसाला वृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा॥४९॥
दधि स्याद्गुड़संयुक्तं स्नेहनञ्चानिलापहम् ॥ ५० ॥
द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पालकम् ।
परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति ॥ ५१ ॥
तेषां कट्वम्लसंयोगात् पालकानां पृथक् पृथक् ।
द्रव्यं मानञ्च विज्ञाय गुणकर्माणि निर्दिशेत् ॥५२॥
षाड़वाः पुनर्मधुराम्ललवणसुगन्धिद्रव्यजा नानाविधाः । अन्ये
पुनरेवं वदन्ति यदाह नलः ।
क्वथितन्तु गुड़ोपेतं सहकारफलं नवम् ।
तैलनागरसंयुक्तं विज्ञेयो रागषाड़वः ॥ इति ॥ ४८ ॥
रसालागुणमाह रसालेति । रसाला दधिसंयोगविशेषाः ।
तथा हि
सचातुर्जातकाजाजि सगुड़ार्द्रकनागरम् ।
रसाला स्याच्छिखरिणी सुघृष्टं सरसं दधि ॥ ४९ ॥
रसालाप्रसङ्गेन सगुड़दधिगुणमाह दधीति ॥ ५० ॥
पालकानामपि कृतान्नभेदत्वात् तद्गुणमाह द्राक्षेति ।
यच्चेक्षुविकृतिं प्रतीत्यत्र पालकमिति सम्बन्धः ॥ ५१ ॥
उक्तानुक्तपालकगुणज्ञानोपायमाह तेषामिति । न हि नियतं
द्रव्यं पालकेषु संयुज्यते । किं तर्हि पुरुषाणामभिलाषात् तथा
व्याध्यादिविशेषैश्च तानि तानि द्रव्याणि संयुज्यन्ते । अतस्तत्तत्-
कट्वम्लादिद्रव्यसंयोगं बुद्ध्वा तेषां संयुक्तानां द्रव्याणाञ्च मध्ये
कस्य कियन्मानमिति बुद्ध्वा उक्तानुक्तपालकानां गुणकर्माणि
निर्दिशेदित्यर्थः ॥ ५२ ॥

द्रव्यगुणः। १२८
दुग्धाम्लं शीतलं स्वादु वृष्यं वर्णिकरं गुरु ।
वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम् ॥ ५३ ॥
शक्तवः सर्पिषाभ्यक्ताः शीतोदकपरिप्लुताः ।
नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥ ५४ ॥
मन्थः सद्यो बलकरः पिपासाज्वरनाशनः ॥ ५५ ॥
साम्लस्नेहगुड़ो मूत्रकृच्छ्रोदावर्त्तनाशनः ।
शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् ॥
द्राक्षामधुकसंयुक्तः कफरोगनिबर्हणः ।
वर्गत्रयेणोपहितो मलदोषानुलोमनः ॥ ५६ ॥
गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्य्ययात् ।
पालकस्य पेयत्वात् तत्प्रसङ्गेऽन्यदपि पेयमाह दुग्धाम्ल-
मिति ॥ ५३ ॥
मन्थानामपि कृतान्नविशेषत्वात् तद्गुणे वाच्ये प्रथमं तल-
क्षणमाह शक्तव इति । शक्तव इति यवशक्तवो लाजशक्त-
वश्च । डल्हनोऽपि अविशेषोक्त्या यवादिशक्तवो ग्राह्या इत्याह
॥ ५४ ॥
मन्थगुणमाह मन्थ इति । सद्यो बलकर इत्यापातबलकरः
न तूत्तरकालं रौक्ष्यलाघवात् ॥ ५५ ॥
तस्यैव द्रव्यान्तरसंयुक्तस्य गुणमाह साम्लेत्यादि । मूत्र-
कृच्छ्रोदावर्त्तौ हि पक्वाशयगतौ । पक्वाशयश्च वायोः स्थानम् ।
तेन मूत्रकृच्छ्रादिहन्तृत्वेन अस्य वातहरत्वमप्युक्तम् । वर्गत्रये-
णेति अनन्तरोक्ताम्लादि शर्करादि द्राक्षादिवर्गत्रयेणेत्यर्थः ॥ ५६ ॥

१३० द्रव्यगुणः ।
शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥५७॥
इति कृतान्नवर्गः ।
———
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्य्यविपाकतः ॥१॥
पृथुका गुरवः स्निग्धाः कफविष्टम्भकारकाः ।
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥२॥
लाजाश्छर्द्यतिसारघ्नाः स्नेहमेदःकफच्छिदः ॥३॥
धानोल्बम्बास्तु लघवः कफमेदोविशोषणाः ॥४॥
शक्तवो वातला रूक्षा बद्धवर्चस एव च ॥ ५ ॥
भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ।
शक्तुकृतमन्थप्रसङ्गेन शक्तुपिण्डीशक्त्ववलेहिकयोर्गुणमाह।
गुर्वीति । खरा इति कठिना ॥ ५७ ॥
इति कृतान्नवर्गः ।
———
भक्ष्याणामपि पृथुकादीनां शूकशमीधान्यसंभवत्वात् ।
कृतान्नवर्गानन्तरं भक्ष्यवर्ग उच्यते । पृथुका इति चिपिटाः ।
सक्षीरभावादिति सक्षीरधान्यकृतत्वात् ॥ २ ॥
धाना भृष्टयवाः उल्बम्बा होल्लाका अत्र मुद्गकलायादिशिम्बा
अग्निपक्वा होल्लाका इति डल्हणः ॥ ४ ॥
धानाप्रसङ्गेन यवशक्तुगुणमाह शक्तूनामिति । शक्तूनां रूक्ष-
त्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात्
॥ ५ ॥

द्रव्यगुणाः। १३१
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥ ६॥
घृतपूराः प्राणकरा हृद्याः श्लेष्मविवर्द्धनाः ।
वातपित्तहरा वृष्या गुरवो मांसशुक्रलाः ॥ ७ ॥
गौड़िका बृंहणा वृष्या गुरवश्चानिलापहाः ।
अदाहिनः पित्तसहाः शुक्रलाः कफवर्द्धनाः ॥८॥
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ।
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥ ६ ॥
भक्ष्याणां योनिविशेषेण गुणविशेषं दर्शयन्नाह भक्ष्या इति ।
गोधूमपिष्टविकृतोः क्षीरेणालोद्य ये क्रियन्ते ते क्षीरभक्ष्याः ।
दीपनत्वं पुनरेषां स्ववर्गापेक्षया वातोपहताग्नेः संस्कारप्रभावाद्वा
॥ ६ ॥
घृतपूरस्य गुणमाह घृतपूरा इति। घृतपूरस्य लक्षणं यथा ।
मर्दिता समिता क्षीरनारिकेलसितादिभिः ।
अवगाह्य घृते पक्वा घृतपूरोऽयमुच्यते ॥
समिता गोधूमचूर्णम् ॥ ७ ॥
गौड़िका इति । गोधूमपिष्टवेष्टना गुड़प्रधानोदरा गौड़िका
उच्यन्ते । अदाहिन इति ईषद्विदाहिनः । पित्तसहा इति पित्तं
न कोपयन्तीत्यर्थः ॥ ८ ॥
मधुशीर्षकाः समितावेष्टनाः । पाकाद्घनीभूतमधुना कृतो-
दरा मधुशीर्षका उच्यन्ते । संयावाः पुनः
समितामम्बुदुग्धेन मर्दयित्वा सुशोभनाम् ।
पचेद्घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे च तत् ।
संयावोऽसौ युतश्चूर्णैस्त्वगेलामरिचार्द्रकैः ॥
मोदकाः प्रसिद्धाः ॥ ९ ॥

१९२ द्रव्यगुणः।
षट्टकः प्रागरुचिकृद् गुरुः स्वर्य्योऽनिलापहः ॥ १०॥
विष्यन्दः स्निग्धमधुरो बल्यो वातापहो गुरुः ॥११
बृंहणा वातपित्तघ्ना बल्या भक्ष्यास्तु सामिताः॥१२
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥१३॥
मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः ॥१४
षट्टकगुणमाह षट्टक इति। षट्टकानां बहुत्वेऽप्युदाहरणार्थ-
मेको लिख्यते ।
लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम् ।
दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम् ।
षट्टकस्तु प्रमोदाख्यो नलादिभिरुदाहृतम् ॥ १० ॥
विष्यन्दस्तु ।
आमगोधूमचूर्णन्तु सर्पिः क्षीरसितान्वितम् ।
नातिसान्द्रो नातितनुर्विष्यन्दो नामपाकतः ॥
इति । अन्ये तु घृतभृष्टतण्डुलान् विष्यन्दशब्देनाहुः ॥११॥
समिताकृतभक्ष्याणां सामान्यगुणमाह बृंहणा इति ॥
समिता गोधूमचूर्णम् । तत्कृताः सामिताः ॥ १२ ॥
इदानीं समिताकृतभक्ष्यविशेषगुणमाह हृद्य इति । अत्रापि
समिता इत्यनुवर्त्तते । फेनकलक्षणं यथा ।
विमर्द्य विमलां शुक्लां समितां नातिशर्कराम् ।
संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत् ।
फेनकं फेनसङ्काशं सम्पूर्णशशिसन्निभम् ॥
इति । अत्र गर्भार्थमपि समितैव घृते पक्तव्या ॥ १३ ॥
समिताकृतभक्ष्याणामिव मुद्गादिकृतगर्भाणां गुणमाह मुद्गे-
त्यादि । अत्र वेशवारशब्देन मुद्गादीनां स्विन्नपिष्टः कल्क-

द्रव्यगुणः । १३३
वेशवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः ॥१५॥
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ॥१६॥
शालिपिष्टमया भक्ष्याः कफपित्तप्रकोपणाः ।
विदाहिनो नातिबला गुरवश्च विशेषतः ॥१७॥
वैदला गुरवो भक्ष्याः कषायाः सृष्टमारुताः ।
विष्टम्भिनः पित्तहराः श्लेष्मघ्ना भिन्नवर्चसः ॥१८॥
विरूढ़ककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥१९॥
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः ।
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ॥२०॥
विदाहिनस्तैलकृता गुरवः कटुपाकिनः ।
उच्यते । वेशवाराणामिति करणे षष्ठी । पूर्णा इति कृत-
गर्भाः ॥ १४ ॥
पिशितवेशवारकृतगर्भाणां गुणमाह वेशवारैरिति । सपि-
शितैरिति पूर्वोक्तमुद्गादिवेशवारनिरासार्थं विशेषणम् । तेन
पिशितवेशवारैरित्यर्थः । अन्ये तु वेशवारं शुण्ठ्यादिकमाहुः ।
एते सामिताः ॥ १५ ॥
पल्लं तिलकल्कस्तत्कृताः पाललाः । शष्कुली तु तिल-
मुद्गादिचूर्णकृता तैलपक्वा शष्कुलीति लोके ॥ १६ ॥
मुद्गमाषादिविदलकृतानां भक्ष्याणां गुणमाह वैदला इति
॥ १८ ॥
विरूढ़ककृता इति अङ्कुरितमुद्गादिकृताः ॥ १९ ॥
उक्तानुक्तकृतभक्ष्याणां घृते तैले च पाकाद्गुणविशेषमाह
हृद्या इति ॥ २० ॥
१२