द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 130, कुल 176 में से
संदर्भ में पढ़ें१२२ द्रव्यगुणः ।
स्विन्नं निष्पीडितं शाकं स्नेहसंस्कारितं हितम् ।
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ॥ १८ ॥
स्विन्नं मांसं कटु स्नेहगोरसाम्लफलैः सह ।
बृंहणं रोचनं बल्यं खालिष्कस्तु सदा गुरुः ॥१९॥
तदेव गोरसादानं सुरभि द्रव्यसंस्कृतम् ।
विद्यात् पित्तकफोत्क्लेदि बलमांसाग्निवर्द्धनम्२०
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।
रोचनं बलमेधाग्निमांसौजःशुक्रवर्द्धनम् ॥ २१ ॥
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति भाषितम् ।
परिशुष्कगुणैर्युक्तं ज्ञेयं पथ्यतमं गुरु ॥ २२ ॥
सूचिकटाहन्यायेन व्यञ्जनप्रधानमांसात् पूर्वं शाकमाह
स्विन्नमिति। अतः पूर्वोक्तात्। अन्यथेति अहितमित्यर्थः ॥१८॥
मांसव्यञ्जनानां विशेषाणां गुणमाह स्विन्नमिति । खालिष्को
वक्ष्यमाणपरिशुष्काख्यमांसव्यञ्जनभेदः । अन्ये तु वेशवाराख्य-
मांसव्यञ्जनभेद इत्याहुः ॥ १९ ॥
तस्यैव मांसस्य प्रदिग्धत्वेन प्रसिद्धस्य गुणमाह तदिति ।
आदानं घनद्रवावापः गोरस एव आदानं यस्य तद्गोरसादा-
नम् ॥ २० ॥
तस्यैव मांसस्य परिशुष्कत्वेन प्रसिद्धस्य गुणमाह परि-
शुष्कमिति । परिशुष्कप्रदिग्धयोर्लक्षणं यथा ।
सिक्थं बहु घृते घृष्टं मुहुरुष्णांबुसेचितम् ।
जीरकाद्यैर्युतं मांसं परिशुष्कं तदुच्यते ।
तदेव गोरसादानं प्रदिग्धमिति विश्रुतम् ॥ २१ ॥